अध्यायः 001
					 गङ्गातीरे बन्धूनां कृतोदकं युधिष्ठिरंप्रति
						व्यासनारदादिमहर्षीणां समागमनम् ॥ 1 ॥ युधिष्ठिरेण तत्र नारदंप्रति
						कर्णवृत्तान्तकथनप्रार्थना ॥ 2 ॥ 
					
					  ॥ श्रीवेदव्यासाय नमः ।
					  नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
					  देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
					 
					
					  वैशंपायन उवाच । 
					  कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः ।
							विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥
						
					 
					
						तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः ।
						शौचं निर्वर्तयिष्यन्तो मासच्चात्रं बहिः पुरात् ॥
					 
					
						कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् ।
						अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥
					 
					
						द्वैपायनो नारदश्च देवलश्च महानृषिः ।
						देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥
					 
					
						अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः ।
						गृहस्थाः स्नातकाः सन्तो ददृशुः कुरुसत्तमम् ॥
					 
					
						तेऽभिगम्य महात्मानं पूजिताश्च यथाविधि ।
						आसनेषु महार्हेषु विविशुः परमर्षयः ॥
					 
					
						प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा ।
						पर्युपांसन्यथान्यायं परिवार्य युधिष्ठिरम् ॥
					 
					
						पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् ।
						आश्वासयन्तो राजेन्द्रं विप्राः शतसहस्रशः ॥
					 
					
						नारदस्त्वव्रवीत्काले धर्मपुत्रं युधिष्ठिरम् ।
						संभाष्य मुनिभिः सार्धं कृष्णद्वैपायनादिभिः ॥
						नारद उवाच । 
					 
					
						पार्थस्य बाहुवीर्येण प्रसादान्माधवस्य च ।
						जिता सेयं मही कृत्स्ना धर्मेण च युधिष्ठिर ॥
					 
					
						दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात् ।
						क्षत्रधर्मरतश्चासि कच्चिन्मोदसि पाण्डव ॥
					 
					
						कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप ।
						कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥
						युधिष्ठिर उवाच । 
					 
					
						विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् ।
						ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥
					 
					
						इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा ।
						कृत्वा ज्ञातिक्षयमिमं महान्तं घोरदर्शनम् ॥
					 
					
						सौभद्रं द्रौपदेयांश्च घातयित्वा सुतान्प्रियान् ।
						जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥
					 
					
						किंनु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् ।
						द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥
					 
					
						द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा ।
						अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥
					 
					
						इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद ।
						मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥
					 
					
						यः स नागायुतप्राणो लोकेऽप्रतिरथो रणे ।
						सिंहविक्रान्तगामी च जितकाशी यतव्रतः ॥
					 
					
						आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः ।
						अमर्षी नित्यसंरम्भी क्षेप्ताऽस्माकं रणेरणे ॥
					 
					
						शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः ।
							गूढोत्पन्नः सुतः कुन्त्या भ्राताऽस्माकमसौ किल
						
					 
					
						तोयकर्मणि तं कुन्ती कथयामास मे तदा ।
						पुत्रं सर्वगुणोयेतं कर्णं त्यक्तं जले पुरा ॥
					 
					
						मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत् ।
						यं सूतपुत्रं लोकोऽयं राधेयं चाभ्यमन्यत ॥
					 
					
						स सूर्यपुत्रः कुन्त्या यै भ्राताऽस्माकं च मातृतः ।
							अजानता मया सड्ख्ये राज्यलुब्धेन घातितः ।
						
						तन्मे दहति गात्राणि तूलराशिमिवानलः ॥
						
					 
					
						न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः ।
						नाहं न भीमो न यमौ स त्वस्मान्वेद तत्वतः ॥
					 
					
						गता किल पृथा तस्य सकाशमिति नः श्चुतम् ।
						अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥
					 
					
						पृथाया न कृतः कामस्तेन चापि महात्मना ।
						अतीवानुचितं मातरवोच इति सोऽब्रवीत् ॥
					 
					
						न हि शक्ष्यामि संत्यक्तुमहं दुर्योधनं रणे ।
						अनार्यत्वं नृशंसत्वं कृतघ्नत्वं च मे भवेत् ॥
					 
					
						युधिष्ठिरेण सन्धिं हि यदि कुर्यां मते तव ।
						भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥
					 
					
						सोऽहं निर्जित्य समरे विजयं सहकेशवम् ।
						संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥
					 
					
						तमवोचत्किल पृथा पुनः पृथुलवक्षसम् ।
						चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥
					 
					
						सोऽब्रवीन्मातरं धीमान्वेपमानां कृताञ्जलिः ।
						प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥
					 
					
						पञ्चैव हि सुता देवि भविष्यन्ति तव ध्रुवाः ।
						सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥
					 
					
						तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् ।
						भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥
					 
					
						एवमुक्त्वा किल पृथा विसृज्योपययौ गृहान् ।
						सोऽर्जुनेन हतो वीरो भ्रात्रा भ्राता सहोदरः ॥
					 
					
						न चैव निःसृतो मन्त्रः पृथायास्तस्य वा मुने ।
						अथ शूरो महेष्वासः पार्थेनाजौ निपातितः ॥
					 
					
						अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम ।
						पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥
					 
					
						तेन मे दूयते तीव्रं हृदयं भ्रातृघातिनः ।
						कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ॥
					 
					
						सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः ।
						सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥
					 
					
						यदा ह्यस्य गिरो रूक्षाः श्रृणोमि कटुकोदयाः ।
						सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥
					 
					
						तदा नश्यति मे रोषः पादौ तस्य निरीक्ष्य ह ।
						कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥
					 
					
						सादृश्यहेतुमन्विच्छन्पृथायास्तस्य चैव ह ।
						कारणं नाधिगच्छामि कथंचिदपि चिन्तयन् ॥
					 
					
						कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् ।
						कथं नु शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥
					 
					
						श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् ।
						भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि प्रथमोऽध्यायः ॥ 1 ॥ 
					 12-1-1 कृतोदकास्ते इति झ. पाठः ॥ 12-1-2 तत्र गङ्गातीरे ॥ 12-1-8 आश्वासयन्तः हेतौ शतृप्रत्ययः । आश्वासनार्थं पर्युपासन्नित्यर्थः ॥ 12-1-16 वधूः कनिष्ठभ्रातृभार्यात्वात्स्नुषाभूता । वार्ष्णेयी सुभद्रा ॥ 12-1-18 मन्त्रसंवरणेन गूढोत्पन्नस्यास्मद्भातुः कर्णस्याप्रकाशेन ॥ 12-1-20
						अमर्षी परोत्कर्षासहिष्णुः । नित्यसंरम्भी सदा क्रोधवान् ॥ 12-1-24 मातृतः
						मातृसंबन्धेन ॥ 12-1-26 पाण्डववत् त्वं च पुत्रो मभेत्यव्रवीदिति शेषः ॥ 12-1-27 कामोऽभिलषितम् ॥ 12-1-32 वध्यान्विषबह्यानिति थ. पाठःo ।
						विषह्यान्वशगान् ॥ 12-1-35 विसृज्य कर्णमिति शेषः ॥ 12-1-43 चक्रं रथचक्रम् ॥ 12-1-44 कृतं कार्यम् । अकृतं कारणम् ॥