अध्यायः 073
भीष्मेण युधिष्ठिरंप्रति पुरोहितलक्षणादिवर्णनम् ।
ऐलकश्यपसंवादानुवादश्च ॥ 1 ॥
राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत् ।
पुरोधा यादृशः कार्यः कथयस्व पितामह ॥
भीष्म उवाच ।
गौरो वा लोहितो वाऽपि श्यामो वा नीरुजः सुखी ।
अक्रोधनो ह्यचपलः सर्वतश्च जितेन्द्रियः ॥'
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः ।
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥
धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्पुरोहितः ।
`तेषामर्थश्च कामश्च धर्मश्चेति विनिश्चयः ॥
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर ।
उच्छिष्टः स भवेद्राजा यस्य नास्ति पुरोहितः ॥
रक्षसामसुराणां च पिशाचोरगपक्षिणाम् ।
शत्रूणां च भवेद्वध्यो यस्य नास्ति पुरोहितः ॥
ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः ।
राज्ञश्चाथर्ववेदेन सर्वकर्माणि कारयेत् ॥
ब्रूयाद्गर्ह्याणि सततं महोत्पातान्यघानि च ।
इष्टमङ्गलयुक्तानि तथाऽन्तः पुरिकाणि च ॥
गीतनृत्ताधिकारेषु संमतेषु महीपतेः ।
कर्तव्यं करणीयं वै वैश्वदेवबलिस्तथा ॥
पक्षसंधिषु कुर्वीत महाशान्तिं पुरोहितः ।
रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम् ॥
राज्ञः पापमलाः सप्त यानृच्छति पुरोहितः ।
अमात्याश्च कुकर्माणो मन्त्रिणश्चाप्युपेक्षकाः ॥
चौर्यमव्यवहारश्च व्यवहारोपसेविनाम् ।
अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्यदण्डनम् ॥
हिंसा चान्यत्र संग्रामाद्राज्ञश्च मल उच्यते ।
कुभृत्यैस्तु प्रजानाशः सप्तमस्तु महामलः ॥
रौद्रैर्होमैर्महाशान्त्या घृतकम्बलकर्मणा ।
भृग्वङ्गिरोविधिज्ञो वै पुरोधा निर्णुदे मलात् ॥
एतान्हित्वा दिवं याति राजा सप्त महामलान् ।
सामात्यः सपुरोधाश्च प्रजानां पालने रतः ॥
एतस्मिन्नेव कौरव्य पौरोहित्ये महामते ।
श्लोकानाह महेन्द्रस्य गुरुर्देवो बृहस्पतिः ॥
तान्निबोध महीपाल महाभाग हिताञ्शुभान् ।
ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम् ॥
न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम् ।
शान्तिकं पौष्टिकं चैव अरिष्टानां च शातनम् ॥
शप्तास्ते याज्ञवल्क्येन यज्ञानां हितमीहता ।
ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः संमते विभोः ॥
बह्वृचं सामगं चैव वाजिनं च विवर्जयेत् ।
बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः ।
अध्वर्युर्बलनाशाय प्रोक्तो वाजसनेयकः ॥
अब्राह्मणेषु वर्णेषु मन्त्रान्वाजसनेयकान् ।
शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत् ॥
ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः ।
वेदाश्चत्वार इत्येते ब्राह्मणा ये च तद्विदुः ॥
पौरोहित्ये प्रमाणं तु ब्राह्मणश्च महीपतेः ।
जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः ॥
चातुर्वर्ण्यबहिष्ठोऽपि स एव क्षत्रियः स्मृतः ।
भार्गवाङ्गिरसैर्मन्त्रैस्तेषां कर्म विधीयते ॥
वैतानं कर्म यच्चैव गृह्यकर्म च यत्स्मृतम् ।
द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते ॥
राजधर्मप्रवृत्तानां हितार्थं त्रीमि कारयेत् ।
शान्तिकं पौष्टिकं चैव तथाऽभिचरणं च यत् ॥
अग्निष्टोममुखैर्यज्ञैर्दूषिता भूपकर्मभिः ।
न सम्यक्फलमृच्छन्ति ये यजन्ति द्विजातयः ॥
पौरोहित्यं तु कुर्वाणा नाशं यास्यन्ति भूभृताम् ।
यज्ञकर्माणि कुर्वाणा ऋत्विजस्तु विरोधिनः ॥
ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः ।
तदभावे च पारक्यं निर्दिष्टं राजकर्मसु ॥
ऋषिणा याज्ञवल्क्येन तत्तथा न तदन्यथा ।
भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित् ॥
यज्ञकर्मविधिज्ञस्तु विधिज्ञः पौष्टिकेषु च ।
अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम् ॥
सर्वरोगविहीनश्च संयतः संयतेन्द्रियः ।
श्वित्रकुष्ठक्षयक्षीणैर्ग्रहापस्मारदूषितैः ॥
अशस्तैर्वातदुष्टैश्च दूरस्थैः संवदेन्नृपः ।
रोगिणं ऋत्विजं चैव वर्जयेच्च पुरोहितम् ॥
नचान्यस्य कृतं येन पौरोहित्यं कदाचन ।
यस्य याज्यो मृतश्चैव भ्रष्टः प्रव्रजितो यथा ॥
युद्धे पराजितश्चैव सर्वांस्तान्वर्जयेन्नृपः ।
नक्षत्रस्यानुकूल्येन यः संजातो नरेश्वरः ॥
राजशास्त्रविनीतश्च श्रेयान्राज्ञः पुरोहितः ।
अधन्यानां निमित्तानामुत्पातानामथार्थवित् ॥
शत्रुपक्षक्षयज्ञश्च श्रेयान्राज्ञः पुरोहितः ।
वाजिनं तदभावे च चरकाध्वर्यवानपि ॥
बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान् ।
कृतिनोऽथर्वणो वेदे स्थापयेत्तु पुरोहितान् ॥
हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर्द्विजैः ।
न तानुच्चारयेत्प्राज्ञः क्षात्रधर्मविरोधिनः ॥
प्रजागुणाः पुरोधाश्च पुरोहितगुणाः प्रजाः ।'
राजा वै सगुणो येषां कुशलं तेषु सर्वशः ॥
उभौ प्रजा वर्धयतो देवान्पूर्वापरान्पितॄन् ।
यौ भवेतां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥
परस्परस्य सुहृदौ विहितौ समचेतसौ ।
ब्रह्मक्षत्रस्य समानात्प्रजा सुखमवाप्नुयात् ॥
विमाननात्तयोरेव प्रजा नश्येयुरेव हि ।
ब्रह्मक्षत्रं हि सर्वासां प्रजानां मूलमुच्यते ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥
ऐल उवाच ।
यदा हि ब्रह्म प्रजहाति क्षत्रं
क्षत्रं यदा वा प्रजहाति ब्रह्म ।
अन्वग्बलं कतमेऽस्मिन्भजन्ते
तथा बलं कतमेऽस्मिन्ध्रियन्ते ॥
कश्यप उवाच ।
द्विधा हि राष्ट्रं भवति क्षत्रियस्य
ब्रह्म क्षत्रं यत्र विरुध्यतीह ।
अन्वग्बलं दस्यवस्तद्भजन्ते
तथा वर्णं तत्र विदन्ति सन्तः ॥
नैषां ब्रह्म च वर्धते नोत पुत्रा
न गर्गरो मथ्यते नो जयन्ते ।
नैषां पुत्रा देवमधीयते च
यदा ब्रह्म क्षत्रियाः संत्यजन्ति ॥
नैषामर्थो वर्धते जातु गेहे
नाधीयते तत्प्रजा नो यजन्ते ।
अपध्वस्ता दस्युभूता भवन्ति
ये ब्राह्मणान्क्षत्रियाः संत्यजन्ति ॥
एतौ हि नित्यं संयुक्तावितरेतरधारणे ।
क्षत्रं वै ब्रह्मणो योनिर्योनिः क्षत्रस्य वै द्विजः ॥
उभावेतौ नित्यमभिप्रपन्नौ
संप्रापतुर्महतीं संप्रतिष्ठाम् ।
तयोः सन्धिर्भिद्यते चेत्पुराण
स्ततः सर्वं भवति हि संप्रमूढम् ॥
नात्र पारं लभते पारगामी
महोदधौ नौरिव संप्रभिन्ना ।
चातुर्वण्यं भवति हि संप्रमूढं
प्रजास्ततः क्षयसंस्था भवन्ति ॥
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति ।
अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥
अब्रह्मचारी चरणादपेतो
यदा ब्रह्म ब्रह्मणि त्राणमिच्छेत् ।
आश्चर्यतो वर्षति तत्र देव
स्तत्राभीक्ष्णं दुष्प्रभाश्चाविशन्ति ॥
स्त्रियं हत्वा ब्राह्मणं वाऽपि पापः
सभायां यत्र लभते साधुवादम् ।
राज्ञः सकाशे न विभेति चापि
ततो भयं विद्यते क्षत्रियस्य ॥
पापैः पापे क्रियमाणेऽतिवेलं
ततो रुद्रो जायते देव एषः ।
पापैः पापाः संजनयन्ति रुद्रं
ततः सर्वान्साध्वसाधून्हिनस्ति ॥
ऐल उवाच ।
कुतो रुद्रः कीदृशो वाऽपि रुद्रः
सत्वैः सत्वं दृश्यते वध्यमानम् ।
एतत्सर्वं कश्यप मे प्रचक्ष्व
यतो रुद्रो जायते देव एषः ॥
कश्यप उवाच ।
आत्मा रुद्रो हृदये मानवानां
स्वं स्वं देहं परदेहं च हन्ति ।
वातोत्पातैः सदृशं रुद्रमाहु
र्देवं जीमूतैः सदृशं रूपमस्य ॥
ऐल उवाच ।
न वै वातः परिवृणोति कश्चि
न्न जीमूतो वर्षति तत्र देवः ।
तथा युक्तो दृश्यते मानुषेषु
कामद्वेषाद्वध्यते मुह्यते च ॥
कश्यप उवाच ।
यथैकगेहाज्जातवेदाः प्रदीप्तः
कृत्स्नं ग्रामं दहते च त्वरावान् ।
विमोहनं कुरुते देव एप
ततः सर्वं स्पृश्यते पुण्यपापैः ॥
ऐल उवाच ।
यदि दण्डः स्पृशतेऽपुण्यपापं
पापं पापे क्रियमाणे विशेषात् ।
कस्य हेतोः सुकृतं नाम कुर्या
द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥
कश्यप उवाच ।
असंत्यागात्पापकृतामपापां
स्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
शुष्केणार्द्रं दह्यते मिश्रभावा
न्न मिश्रः स्यात्पापकृद्भिः कथंचित् ॥
ऐल उवाच ।
साध्वसाधून्धारयतीह भूमिः
साध्वसाधूंस्तापयतीह सूर्यः ।
साध्वसाधूंश्चापि वातीह वायु
रापस्तथा साध्वसाधून्वहन्ति ॥
कश्यप उवाच ।
एवमस्मिन्वर्तते लोक एष
नामुत्रैवं वर्तते राजपुत्र ।
प्रेत्यैतयोरन्तरावान्विशेषो
यो वै पुण्यं चरते यश्च पापम् ॥
पुण्यस्य लोको मधुमान्घृतार्चि
र्हिरण्यज्योतिरमृतस्य नाभिः ।
तत्र प्रेत्य मोदते ब्रह्मचारी
न तत्र मृत्युर्न जरा नोत दुःखम् ॥
पापस्य लोको निरयोऽप्रकाशो
नित्यं दुःखं शोकभूयिष्ठमेव ।
तत्रात्मानं शोचति पापकर्मा
वह्वीः समाः प्रतपन्नप्रतिष्ठः ॥
मिथोभेदाद्ब्राह्मणक्षत्रियाणां
प्रजा दुःखं दुःसहं चाविशन्ति ।
एवं ज्ञात्वा कार्य एवेह विद्वान्
पुरोहितो नैकविद्यो नृपेण ॥
तं चैव लब्ध्वाभिषिञ्चेत्तथा धर्मो विधीयते ।
अग्रं हि ब्राह्मणः प्रोक्तं सर्वस्यैवेह धर्मतः ॥
पूर्वं हि ब्रह्मणः सृष्टिरिति ब्रह्मविदो विदुः ।
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तमम् ॥
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् ।
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धीमतः ॥
अवश्यमेतत्कर्तव्यं राज्ञा बलवताऽपि हि ।
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ।
राज्ञः सर्वस्य चान्यस्य स्वामी राज्ञः पुरोहितः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
12-73-14 निर्णुदे मोचयेत् । राजानमिति शेषः ॥ 12-73-46 क्षत्र
कर्तृ । तत्र क्षत्रे सन्तः वर्णं विन्दन्ति । ब्राह्मणानामवमन्ता
म्लेच्छजातीयोऽयं राजेत्यनुमानाज्जानन्ति । यथोक्तंभोगेन ज्ञायते कर्म कर्मणा
ज्ञायते जनिरिति । तथा बलं तद्भियन्ते च सन्त इति ट. ड. थ. पाठः ॥ 12-73-50
अभिप्रपन्नौ अन्योन्यशरणौ । क्षत्रशरणं ब्रह्म तपस्यति ब्रह्मशरणं क्षत्रं
जयतीति भावः ॥ 12-73-52 मधु सुखम् । अश्रु दुःखम् । पापं नरकम् ॥ 12-73-53 ब्रह्म
ब्राह्मणजातिः । ब्रह्मचरणादपेतत्वादब्रह्मचारी वेदाध्ययनशून्यः सन् त्राणं
रक्षणं इच्छेत्तदा देवस्तत्र आश्चर्यतो वर्षति । तत्र वर्षः अत्यन्तं
दुर्लभमित्यर्थः ॥ 12-73-55 रुद्रो हिंस्रः । देवो राजा । रुद्रं कलिम् ॥ 12-73-57 मानवानां हृदये य आत्मा जीवोऽस्ति स एव रुद्रः संहर्ता भवति । ननु कुतः
शान्तस्यात्मनो रुद्रत्वमत आह वातेति । यथा उत्पातवात आकाशोत्थ आकाशोत्थां
मेघदेवतामितस्ततो नयति गर्जयति विद्युदशनिवारीणि च तत
आविर्भावयत्येवमात्मोत्थिताः काप्नक्रोधादयः सर्वं हिंस्रं कारयन्तीत्यर्थः ॥ 12-73-58 यथा आकाशेन युक्तास्ततः पृथग्भूताः वातो मेघाश्च मेघप्रवर्तकदेवता च
प्रत्यक्षेण शास्त्रज्ञानेन च दृश्यन्ते नैवं जीवो वा तदभिभावकः कामादिर्वा
पृथक् दृश्यते किंत्वात्मन्येव वह्यौष्ण्यवत्कामद्वेषौ वर्तेते तौ चैतस्य
संबन्धकौ मोहको च भवत इत्यर्थः ॥ 12-73-59 यथाऽल्पोऽपि वह्निरधिकमधिकं
काष्ठभारमुपारुह्य कृत्स्नं ग्रामं दहति तत्र न केवलं काष्ठानां दाहकत्वं नापि
काष्ठान्यनुपारूढस्याग्नेः किंतु तदुभयसंघातस्यैव । तत्रापि विवेके क्रियमाणे
वह्नेरेवोपाध्यावेशाद्दाहकत्वम् । एवमात्मानमारुह्याहंकारवह्निः
कामक्रोधादिवातैरुद्दीपितो रुद्रत्वं प्रतिपद्यते ॥ 12-73-60
अपुण्यपापमप्यात्मानं यदि विशेषात् क्रियमाणे पापे निमित्तभूते सति दण्डः पापं
दण्डात्मकं पापं गालनताडनादि दुःखं कर्तृ स्पृशते मोहादिति ब्रवीषि तर्हि
पुण्यकरणं पापवर्जनं च शास्त्रचोदितं वृथैव स्यात् ॥ 12-73-67 तं पुरोहितं
लब्ध्वा आत्मानं राज्येऽभिषिञ्चेत् ॥ 12-73-70 एवं राज्ञा विशेषेण पूज्या वै
ब्राह्मणाः सदा इति झ. पाठः ॥