अध्यायः 097

भीष्मेण युधिष्ठिरंप्रति सयुक्तिकं युद्धस्य धर्म्यत्वसमर्थनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप ।
अपयाने च युद्धे च राजा हन्ति महाजनम् ॥
अथ स्म कर्मणा केन लोकाञ्जयति पार्थिवः ।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥
भीष्म उवाच ।
निग्रहेण च पापानां साधूनां संग्रहेण च ।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः ।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥
अपविध्यन्ति पापानि दानयज्ञतपोबलैः ।
अनुग्रहेण भूतानां पुण्यमेषां विवर्धते ॥
यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च ।
हिनस्ति धान्यकक्षं च न च धान्यं विनश्यति ॥
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा ।
तस्यैषा निष्कृतिर्दृष्टा भूतानां भावनं पुनः ॥
यो भूतानि सदाऽनर्थाद्वधात्क्लेशाच्च रक्षति ।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥
स सर्वयज्ञारीजानो राजाऽथाभयदक्षिणैः ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥
ब्राह्मणार्थे समुत्पन्ने योऽभिनिष्पत्य युध्यति ।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ॥
अभीतो विकिरञ्शत्रून्प्रतिगृह्य शरांस्तथा ।
न तस्मान्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन ॥
तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे ।
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥
यदस्य रुधिरं गात्रादाहवे संप्रवर्तते ।
सह तेनैव स्रावेण सर्वपापैः प्रमुच्यते ॥
यानि दुःखानि सहते प्राणानामतिपातने ।
न तपोऽस्ति ततो भूय इति धर्मविदो विदुः ॥
पृष्ठतो भीरवः सङ्ख्ये वर्तन्ते धर्मपूरुषाः ।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥
यदि शूरं तथा क्षेमे प्रतीक्षेरन्यथा भये ।
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् ।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥
पुरुषाणां समानानां दृश्यते महदन्तरम् ।
संग्रामेऽनीकवेलायामुत्कृष्टेषु पतत्सु च ॥
पतत्यभिमुखं शूरः परान्भीरुः पलायते ।
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥
मा स्म तांस्तादृशांस्तात जनिष्टाऽधर्मपूरुषान् ॥
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ।
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ॥
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति । तं हन्युः काष्ठलोहैर्वा दहेयुर्वा कटाग्निना ।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥
अविक्षतेन देहेन प्रलयं योऽधिगच्छति ।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते ।
शौण्डीराणामशौण्डीर्यमधर्मं कृपणं च तत् ॥
इदं कृच्छ्रमहो दुःखं पापीय इति निष्टनन् ।
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन् ॥
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति ।
वीरो दृप्तो मनस्वी च नेदृशं मृत्युमर्हति ॥
रणेषु कदनं कृत्वा सुहृद्भिः प्रतिपूजित ।
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मुत्युमर्हति ॥
शूरो हि सत्वमन्युभ्यामाविष्टो युध्यते मशम् ।
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् ।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥
सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः ।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥
यत्रयत्र हतः शूरः शत्रुभिः परिवारितः ।
अक्षयांल्लभते लोकान्यदि दैन्यं न सेवते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥

12-97-1 महाजनं कटकाश्रितं वैश्यादिजनम् ॥ 12-97-2 केन तद्वधप्रायश्चित्तं कृत्वा पुण्यफलमाप्नोतीत्यर्थः ॥ 12-97-4 उपरुन्धन्ति पीडयन्ति ॥ 12-97-5 अपविध्यन्ति दूरीकुर्वन्ति ॥ 12-97-6 निर्याता तृणाद्यपनयेन शोधकः । कक्षं तृणं । क्षेत्रनिर्वाहो निर्दहेत्क्षेत्रमेकदा इति द. पाठः ॥ 12-97-7 भावनं वर्धनम् । पावनं महदिति द. पाठः ॥ 12-97-10 आत्मानं देहयूपं यज्ञस्तम्भं उत्सृज्य उच्छ्रित्य । यज्ञो युद्धयज्ञः ॥ 12-97-18 अनीकवेलायां अनीकानां संघट्टकाले ॥ 12-97-19 विषमे प्राणसंकटे त्यजन् भीरुरिति संबन्धः ॥ 12-97-22 ते तृणमये कटे बद्ध्वा दहनं कटाग्निना दाहः ॥ 12-97-25 शौण़्डीराणां शूरत्वाभिमानवताम् ॥ 12-97-26 निष्टनञ्शब्दं कुर्वन् । पूतिः दुर्गन्धिः । अमात्यान्पुत्रान् ॥