अध्यायः 124
भीष्मेण युधिष्ठिरंप्रति दुर्योधनाय
धृतराष्ट्रप्रोक्तेन्द्रप्रह्लादकथानुवादपूर्वकं शीलस्य
धर्मादिकारणत्वप्रतिपादनम् ॥ 1 ॥
इमे जना मनुष्येन्द्र प्रशंसन्ति सदा भुवि ।
धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभूतां वर ।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥
भीष्म उवाच ।
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तवागताम् ॥
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह ।
सभायां चापहसनं तत्सर्वं शृणु भारत ॥
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।
दुर्योधनस्तदा दीनः सर्वं पित्रे न्यवेदयत् ॥
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा ।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥
धृतराष्ट्र उवाच ।
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः ।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यति ॥
यदा त्वां महदैश्वर्यं प्राप्तं परपुरंजय ।
किंकरा भ्रातरः सर्वे मित्रसंबन्धिबान्धवाः ॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्ति त्वां कस्माच्छेचसि पुत्रक ॥
दुर्योधन उवाच ।
दश तात सहस्राणि स्नातकानां महात्मनाम् ।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥
दृष्ट्वा च तां सभां दिव्यपुष्पफलान्विताम् ।
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ॥
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् ।
अमित्राणां सुमहतीमनुशोचामि मानद ॥
धृतराष्ट्र उवाच ।
यदीच्छसि श्रियं तात यादृशी सा युधिष्ठिरे ।
विशिष्टां वा नरश्रेष्ठ शीलवान्भव पुत्रक ॥
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
न हि किंचिदसाध्यंवै लोके शीलवतां सताम् ॥
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥
एते हि पार्थिवाः सर्वे शीलवन्तो यशोन्विताः ।
ततस्तेषां गुणक्रीता वसुधा स्वयमागता ॥
दुर्योधन उवाच ।
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
येन शीलेन संप्राप्ताः क्षिप्रमेव वसुंधराम् ॥
धृतराष्ट्र उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा वृत्तं शीलमाश्रित्य भारत ॥
प्रा--देन हृतं राज्यं महेन्द्रस्य महात्मनः ।
श---माश्रित्य दैत्येन त्रैलोक्यं च वशे कृतम् ॥
त--बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः ।
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥
ततो बृहस्पतिस्तस्मै ज्ञानं नैश्रेयसं परम् ।
कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत ।
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति ॥
बृहस्पतिरुवाच ।
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः ।
तत्रागमय भद्रं ते भूय एव सुरोत्तम ॥
आत्मनस्तु ततः श्रेयो भार्गवः सुमहायशाः ।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥
तेनापि समनुज्ञातो भार्गवेण महात्मना ।
श्रेयोऽस्तीति परं भूयः शुक्रमाह शतक्रतुः ॥
भार्गवस्त्वाह सर्वज्ञः प्रह्लादस्य महात्मनः ।
ज्ञानमस्ति विशेषेणेत्युक्तो हृष्टश्च सोऽभवत् ॥
स तत्र ब्राह्मणो भूत्वा प्रह्लादं पाकशासनः ।
स्तुत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥
प्रह्लादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजोत्तम ।
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते ॥
ब्राह्मणस्त्वब्रवीद्राजन्यस्मिन्काले क्षणो भवेत् ।
तदोपादेष्टुमिच्छामि यदि कार्यान्तरं भवेत् ॥
ततः प्रीतोऽभवद्राजा प्रह्वादो ब्रह्मवादिनः ।
तथेत्युक्त्वा ददौ काले ज्ञानतत्त्वं द्विजे तदा ॥
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् ।
चकार सर्वभावेन यद्यच्च मनसेच्छति ॥
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम् ।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ।
[प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत् ॥]
प्रह्लाद उवाच ।
नासूयामि द्विजान्विप्र राजास्मीति कथंचन ।
काम्यानि वदतां तेषां संयच्छामि वहामि च ॥
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
तेषां कार्यपथे युक्तं शुश्रूषुमनहंकृतम् ॥
धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम् ।
समासिञ्चन्ति शास्त्रज्ञाः क्षौद्रं मध्विव मक्षिकाः ॥
सोऽहं वागग्रविद्यानां रसानामवलेहिता ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मणमुखे हव्यमेतच्छ्रुत्वा प्रवर्तते ॥
एतावच्छेय इत्याह प्रह्लादो ब्रह्मवादिनम् ।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।
वरं वृणीष्व भद्रं ते प्रदाताऽस्मि न संशयः ॥
कृतमित्येव दैत्येन्द्रमुवाच द्विजसत्तमः ।
प्रह्लादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥
ब्राह्मण उवाच ।
यदि राजन्प्रसन्नस्त्वं मम चेदिच्छसि प्रियम् ।
भवतः शीलमिच्छामि प्राप्नुमेष वरो मम ॥
ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत् ।
वरे प्रदिष्टे विप्रेण नाल्पचेतायमित्युत ॥
एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा ।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥
दत्ते वरे गते विप्रे चिन्ताऽसीन्महती तदा ।
प्रह्लादस्य महाराज निश्चयं न च जग्मिवान् ॥
तस्य चिन्तयतस्तावच्छायाभूतं महाद्युतेः ।
तेजोविग्रहवत्तात शरीरमजहात्तदा ॥
तमपृच्छन्महाराजः प्रह्लादः को भवानिति ।
प्रत्याह तं तु शीलोस्मि त्यक्तो गच्छाम्यहं त्वया ॥
तस्मिन्द्विजोत्तमे राजन्वत्स्याम्यहमरिंदम ।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ।
इत्युक्त्वाऽन्तर्हितं तद्वै शक्रं चान्वाविशत्प्रभो ॥
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोपरः ।
शरीरान्निः सृतस्तस्य को भवानिति सोब्रवीत् ॥
धर्मं प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः ।
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥
ततोऽपरो महाराज प्रज्वलन्निव तेजसा ।
शरीरान्निः सृतस्तस्य प्रह्लादस्य महात्मनः ॥
को भवानिति पृष्टश्च तमाह स महाद्युतिः ।
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम् ॥
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः ।
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महातपाः ॥
वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम् ।
तस्मिन्गते महाश्वेता शरीरात्तस्य निर्ययौ ॥
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ।
इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप ॥
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ।
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येनमब्रवीत् ॥
उषिताऽस्मि सुखं नित्यं त्वयि सत्यपराक्रम ।
त्वया युक्ता गमिष्यामि बलं ह्यनुगता ह्यहम् ॥
ततो भयं प्रादुरासीत्प्रह्लादस्य महात्मनः ।
अपृच्छत च तां भूयः क्व यासि कमलालये ॥
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥
श्रीरुवाच ।
स शक्तो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः ।
त्रैलोक्ये ते यदश्वर्यं तत्तेनापहृतं प्रभो ॥
शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः ।
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो ॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम् ।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥
भीष्म उवाच ।
एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर ।
दुर्योधनस्तु पितरं भूय एवाब्रवीत्तदा ॥
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन ।
प्राप्यते च यथा शीलं तं चोपायं ब्रवीहि मे ॥
धृतराष्ट्र उवाच ।
सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना ।
संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नरेश्वर ॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन न तत्कुर्यात्कथंचन ॥
तत्तु कर्म तथा कुर्याद्येन श्लाध्येत संसदि ।
शीलं समासेनैतत्ते कथितं कुरुसत्तम ॥
यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित् ।
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ॥
धृतराष्ट्र उवाच ।
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक ।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ।
`अधिकां चापि राजेन्द्र ततस्त्वं शीलवान्भवा ॥'
भीष्म उवाच ।
एतत्कथितवान्पुत्रे धृतराष्ट्रो महीपतिः ।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्विशत्यधिकशततमोऽध्यायः ॥ 124 ॥
12-124-1 धर्मस्य कारणमिति शेषः ॥ 12-124-8 यदि
सम्यग्भविष्यसाति द. पाठः ॥ 12-124-13 ऋद्धिं वैश्रवणीमिति झ. पाठः ॥ 12-124-22
नैश्रेयचसं मोक्षोपयोगि ॥ 12-124-23 को विशेषः । नैश्रेयसादपि किंश्रेय
इत्यर्थः ॥ 12-124-37 क्षुद्राभिर्मधुमक्षिकाभिर्निर्मितं क्षौद्रं मधु । तत्र
मक्षिकामध्विव मां ते शास्त्रेण सिञ्चन्ति । वागग्रविद्यानां वागग्रे एवं नतु
पुस्तके विद्या येषां तेषाम् । सोऽहं वागन्त्यपुष्टानां मधूनां परिलेहितेति ड.
पाठः ॥ 12-124-43 विप्रेण विप्राय । चेतायमिति संधिरार्षः ॥ 12-124-46
तेजोविग्रहवत् तेजोमयशरीरं शीलम् ॥ 12-124-64 शीलं समधिगच्छामीति थ. पाठः ॥