अध्यायः 009
युधिष्ठिरस्य निर्वेदवचनम् ॥ 1 ॥
मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि ।
धारयन्नपि ते श्रुत्वा रोचते वचनं मम ॥
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः ।
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥
क्षेम्यश्चैकाकिना गम्यः पन्था कोस्तीति पृच्छ माम् ।
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः ।
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चर्मचीरजटाधरः ॥
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः ।
तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥
मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः ।
मुदितानामरण्येषु नदतां मृगपक्षिणाम् ।
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् ॥
नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥
वानप्रस्थजनस्यापि दर्शनं कूलवासिनः ।
नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम् ॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥
अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥
पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः ॥
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः ।
अकुर्वाणः परैः कांचित्संविदं जातु कैरपि ॥
जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान् ।
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीः क्वचित् ।
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥
अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित् ।
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः ॥
गमने निरपेक्षश्च पश्चादनवलोकयन् ।
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः ॥
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि ।
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥
अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित् ।
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीतपात्रसंचारे काले विगतभिक्षुके ॥
एककालं चरन्भैक्षं त्रीनथ द्वे च पञ्च वा ।
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम् ॥
अलाभे सति वा लाभे समदर्शी महातपाः ।
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ॥
जीवितं मरणं चैव नाभिनन्दन्न च द्विपन् ।
वास्यैकं तक्षतो बाहुं चन्दनेनैकपुक्षतः ।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः ।
अपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मपः ॥
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम् ।
तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः ।
कार्यकारणसंश्लिष्टं स्वजनं नाम ब्रिभ्रति ॥
आयुपोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम् ।
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् ।
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् ।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम् ॥
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु ।
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् ।
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥
तस्मात्प्रज्ञामुतमिदं चिरान्मां प्रत्युपस्थितम् ।
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥
एतया संततं धृत्या चरन्नेवंप्रकारया ।
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् ।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवमोऽध्यायः ॥ 9 ॥
12-9-1 मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि ।
धारयन्नपि तच्छुत्वा रोचेत वचनं ममेति झ. पाठः । 12-9-8 पेशलान्रभ्यान् ॥ 12-9-15 आत्मारामः योगेनात्मन्येव रममाणः । प्रसन्नात्मा शुद्धसत्वः ।
केनचिन्निमित्तेन संविदं संवादमकुर्वाणः कृत्याभावात् ॥ 12-9-16 चतुर्विधान्
जंगमस्य जरायुजाण्डजस्वेदजभेदेन त्रैविध्यात् । स्वधर्मस्थाः प्राणभृत
इन्द्रियपोषकाश्च प्रजाः प्रति सम इत्यन्वयः ॥ 12-9-18 केनचिन्मार्गेण ॥ 12-9-19 प्रणिहितोऽन्तर्मुखः ॥ 12-9-21 पूर्वालाभेन पूर्वस्मिन् गृहेऽलाभेः
हेतुना जातु कदाचित् । अन्येष्वपि गृहेषु लाभं लब्धमन्नं चरन्भक्षयन् ॥ 12-9-22
भैक्षकालमाह विधूमे इति । गृहे इति शेषः ॥ 12-9-23 त्रीन्गृहान् ॥ 12-9-24
जिजीविषुवद्धनादिसंग्रहम् । मुमूर्षुवदन्नादित्यागम् ॥ 12-9-25 वासी तक्षायुधं
तया ॥ 12-9-26 निमेषोन्मेषाशनपानादिशारीरनिर्वाहमात्रकर्मस्ववस्थित इतर्थः ॥ 12-9-27 तेष्वपि कर्मसु असक्तः । अपरित्यक्तो नित्यं वशीकृतः संकल्पो मनः
क्रियायेन । दृढमना इत्यर्थः । सुनिर्णिक्तात्मकल्मषः सम्यग्दूरीकृतधीमलः ॥ 12-9-28 वागुराः स्नेहपाशान् ॥ 12-9-30 एके मूढाः कार्यकारणसंश्लिष्टं स्वसुखेन
निमित्तभूतेन संलग्नं स्त्र्यादिकं बिभ्रत्यात्मोपकारकत्वेन पुष्णन्ति ।
कुशलाकुशलान्येवं कृत्वा कर्गाणि मानवः । कार्यकारणसंश्लियः स्वजनं नाभिनन्दति
इति ड. पाठः ॥ 12-9-32 व्याविद्धे भ्राम्यमाणे । समेति संयोगमेति ॥ 12-9-35
विविधं सामाद्युपायवत् विविधलक्षणं नानाविधकपटादिरूपं कर्म कृत्वा स्वल्पैः
पार्थिवैः क्षुद्रराजभिर्तृपतिर्महाराजो बध्यते । कारणैः स्वापमानादिभिर्हेतुभिः
बहवो मिलित्वा एकं महान्तं घ्नन्तीत्यर्थः ॥ 12-9-36 यस्माद्दुःखमयं क्षयिष्णु
च ऐश्वर्यं तस्मात् । स्थानं मोक्षम् । अव्ययमपक्षयशून्यम् । शाश्वतमनादि । ध्रुवं
सदैकरूपम् ॥ 12-9-37 संस्थापयिष्यामि समापयिष्यामि ॥