अध्यायः 153
भीष्मेण युधिष्ठिरंप्रति बलवति रिपौ मोहाद्वैरमुत्पादितवता
कर्तव्यविषये निदर्शनतया शाल्मलिचरितकथनोपक्रमः ॥ 1 ॥ हिमवति पर्वते
महाशाल्मलिं दृष्टवता नारदेन तद्वर्णनम् ॥ 2 ॥
बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः ।
उण्कारापकाराभ्यां समर्थस्योद्यतस्य च ॥
मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः ।
वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह ॥
आत्मनो बलमास्थाय कथं वर्तेत मानवः ।
आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणकाम्यया ॥
भीष्म उवाच ।
अत्राप्युदाहन्तीममितिहासं पुरातनम् ।
संवादं भरतश्रेष्ठ शाल्मलेः पवनस्य च ॥
हिमवन्तं समासाद्य महानासीद्वनस्पतिः ।
वर्षपूगाभिसंवृद्धः शाखामूलपलाशवान् ॥
तत्र स्म मत्तमातङ्गा घर्मार्ताः श्रमकर्शिताः ।
विश्राम्यन्ति महाबाहो तथाऽन्या मृगजातयः ॥
नल्वमांत्रपरीणाहो घनच्छायो वनस्पतिः ।
शुकशारिकसंघुष्टः पुष्पवान्फलवानपि ॥
सार्थका वणिजश्चापि तापसाश्च वनौकसः ।
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे ॥
तस्य ता विपुलाः शाखा दृष्ट्वा स्कन्धं च सर्वशः ।
अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥
अहो नु रमणीयस्त्वमहो चासि मनोहरः ।
प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मके ॥
सदैव शकुनास्तात मृगाश्चाथ तथा गजाः ।
वसन्ति तव संहृष्टा मनोहरतरास्तथा ॥
तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा ।
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन ॥
किंनु ते पवनस्तात प्रीतिमानथवा सुहृत् ।
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम् ॥
भगवान्पवनः स्थानाद्वृक्षानुच्चावचानपि ।
पर्वतानां च शिखराण्याचालयति वेगवान् ॥
शोषयत्येव पातालं वहन्गन्धवहः शुचिः ।
सरांसि सरितश्चैव सागरांश्च तथैव च ॥
संरक्षति त्वां पवनः सखित्वेन न संशयः ।
तस्मात्त्वं बहुशाखोऽपि पर्णवान्पुष्पवानपि ॥
इदं च रमणीयं ते प्रतिभाति वनस्पते ।
य इमे विहगास्तात रमन्ते मुदितास्त्वयि ॥
एषां पृथक्समस्तानां श्रूयते मधुरस्वरः ।
पुष्पसंमोदने काले वाशन्ते हरियूथपाः ॥
तथेमे गर्जिता नागाः स्वयूथगणशोभिताः ।
घर्मार्तास्त्वां समासाद्य सुखं विन्दति शाल्मके ।
तथैव मृगजातीभिरन्याभिरभिशोभसे ।
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम् ॥
ब्राह्मणैश्च तपः सिद्धैस्तापसैः श्रमणैस्तथा ।
त्रिविष्टपसमं मन्ये तवायतनमेव हि ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥
12-153-7 शुककोकिलसंधुष्ट इति ध. पाठः । नल्वः हस्तानां
शतचतुष्टयम् । परीणाहः स्थूलत्वं वैपुल्यमितियावत् ॥ 12-153-14 प्रवाति च
वनस्थानां वृक्षाणां च वनान्यपि । पर्वतानां च शिखराण्याका लयति वेगवान् । इति ट.
ड. पाठः ॥