अध्यायः 189
भृगुणा भरद्वाजंप्रति चतुराश्रमधर्मनिरूपणम् ॥ 1 ॥
दानस्य किं फलं प्रोक्तं धर्मस्य चरितस्य च ।
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य वा ॥
भृगुरुवाच ।
हुतेन शाम्यते पापं स्वाध्यायैः शान्तिरुत्तमा ।
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ॥
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ।
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठते ॥
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते ।
यादृशं दीयते दानं तादृशं फलमुच्यते ॥
भरद्वाज उवाच ।
किं कस्य धर्माचरणं किं वा धर्मस्य लक्षणम् ।
धर्मः कतिविधो वाऽपि तद्भवान्वक्तुमर्हति ॥
भृगुरुवाच ।
स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः ।
तेषां स्वर्गफलावाप्तिर्योऽन्यथा स विमुह्यते ॥
भरद्वाज उवाच ।
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।
तस्य स्वंस्वं समाचारं यथावद्वक्तुमर्हसि ॥
भृगुरुवाच ।
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्ठता
धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः । तत्र गुरुकुलवासमेव
प्रथममाश्रममुदाहरन्ति । सम्यग्यत्र शौचसंस्कारनियमव्रतविनियतात्मा
उभेसन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय निद्रालस्ये
गुरोरभिवादननवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा [त्रिषवणमुपस्पृश्य
ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यभिक्ष्यादिसर्वनिवेदितान्तरात्मा]
गुरुवचनिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः
स्यात् ॥
भवति चात्र श्लोकः ।
गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् ।
तस्य स्वर्गफलावाप्तिः शुध्यते चास्य मानसमिति ॥
गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति । तस्य समुदाचारलक्षणं
सर्वमनुव्याख्यास्यामः । समावृत्तानां सदाचाराणां सहधर्मचर्याफलार्थिनां
गृहाश्रमो विधीयते । धर्मार्थकामावाप्त्यर्थं
त्रिवर्गसाधनमपेक्ष्यागर्हितेन कर्मणा धनान्यादाय
स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिर्मितेन वा ।
हव्यकव्यनियमाभ्यां दैवतपूजासमाधिप्रसादविध्युपलब्धेन धनेन गृहस्थो
गार्हस्थ्यं वर्तयेत् । तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति ।
गुरुकुलनिवासिनः परिव्राजका ये चान्ये
संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेपामष्यत एव भिक्षाबलिसंविभागाः
प्रवर्तन्ते ॥
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः
साधुपथ्याशिनः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं
पर्यटन्ति तेषां
प्रत्युत्थानाभिगमनाभिवादनानसूयवाक्प्रदानसुखशक्त्यासनसुखशयनाभ्यवहारसत्क्रियाचेति ॥
भवति चात्र श्लोकः ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्य दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो
वेदविद्याभ्यासश्रवणधारणेन ऋषय अपत्योत्पादनेन प्रजापतिरिति ॥
श्लोकौ चात्र भवतः ।
वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः ।
परिवादापवादौ च पारुष्यं चात्र गर्हितम् ॥
अवज्ञानमहंकारो दम्भश्चैव विगर्हितः ।
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥
अपि चात्र
माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामदर्शनानां
प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्याणां विविधानामुपभोगः
स्वविहारसंतोषः कामसुखावाप्तिरिति ॥
श्लोकौ चात्र भवतः ।
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे ।
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥
उञ्छवृत्तिर्गृहस्थो यः स्वधर्माचरणे रतः ।
त्यक्तकामसुखारम्भः स्वर्गस्तस्य न दुर्लभः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥
12-189-2 शान्तिरुपरतिः ॥ 12-189-7 चतुर्णामाश्रमाणां
धर्मश्चातुराश्रम्यम् ॥ 12-189-9 सिध्यते चास्य मानसं इति झ. पाठः ॥ 12-189-10
समावृत्तानां समापितगुरुकुलवासानां स्नातकानाम् । सहोभौ चरतां धर्ममिति दंपत्योः
सहाधिकारिकं धर्मं तच्चर्याफलं पुत्रजन्म ॥ 12-189-11 द्रव्योपस्कारो
धनवर्जनम् । सुखशक्त्या सुखवत्या शक्त्या न तु देहपीडया । सत्क्रिया च कर्तव्येति
शेषः ॥ 12-189-13 निवापने पितृतर्पणेन ॥ 12-189-14 वात्सल्यात्सर्बभूतेभ्यः इति
परितापोपतापश्चेति च. झ. पाठः ॥ 12-189-18 उञ्छः कणश आदानं तेन
वृत्तिर्जीवनमस्य । कामसुखमारम्भाश्चेतिद्वन्द्वः ॥