अध्यायः 211
भीष्मेण युधिष्ठिरंप्रति गरुडेनात्मानं प्रत्युक्तश्रीभगवन्महिमानुवादः ॥ 1 ॥
* युधिष्ठिर उवाच ।
देवानुरमनुष्येषु ऋषिमुख्येषु वा पुनः ।
विष्णोस्तत्वं यथाख्यातं को विद्वाननुवेत्ति तत् ॥
एतन्मे सर्वमाचक्ष्व न मे तृप्तिर्हि तत्वतः ।
वर्तते भरतश्रेष्ठ सर्वज्ञोऽसीति मे मतिः ॥
भीष्म उवाच ।
कारितोऽहं त्वया राजन्यदॄत्तं च पुरा मम ।
गरुडेन पुरा मह्यं संवादोऽभूभृतोत्तम् ॥
पुराहं तप आस्थाय वासुदेवपरायणः ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेवच ।
गङ्गद्वीपे समासीनो दशवर्षाणि भारत ॥
माता च मम ता देवी जननी लोकपावनी ।
समासीना समीपे मे रक्षणार्थं ममाच्युत ॥
तस्मिन्कालेऽद्भुतः श्रीमान्सर्ववेदमयः प्रभुः ।
सुपर्णः पततांश्रेष्ठो मेरुमन्दरसन्निभः ।
आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः ॥
तमागतं महात्मानं प्रत्युद्गम्याहमर्थितः ।
प्रणिपत्य यथान्यायं कृताज्जलिरवस्थितः ॥
सोऽपि देवो महाभागामभिनन्द्य च जाह्नवीम् ।
तथा च पूजितः श्रीमानुणेपाविशदासने ॥
ततः कथान्तरे तं वै वचनं चेदमव्रवम् ।
वेदवेद महावीर्य वैनतेग महाबल ॥
नारायणं हृषीकेशं सहमानोऽनिशं हरिम् ।
जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः ।
ममापि तस्य सद्भातं वक्तुमर्हसि सत्तम ॥
गरुड उवाच ।
शृणु भीष्म यथान्यायं पुरा त्वमिह सत्तमाः ।
अनेके पुनयः सिद्धा मानसोत्तरवासिनः ॥
पगच्छुर्मा महाप्राज्ञा वासुदेवपरायणाः ॥
पक्षीन्द्र वासुदेवस्य तत्वं वेत्सि परं पदम् ।
स्वसा सयो न तस्यास्ति सन्निकृष्टप्रियोपि च ॥
तेषामहं वचः श्रुत्वा प्रणिपत्य महाहरिम् ।
अब्रवं च यथावृत्तं मम नारायणस्य च ॥
शृणुध्वं मुनिशार्दूला हृत्वा सोममहं पुरा ।
आकाशे पतमानस्तु वाक्यं तत्र शृणोमि वै ॥
साधुसाधु महाबाहो प्रीतोस्मि तव दर्शनात् ।
वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना ॥
त्वामहं भक्तितत्वज्ञो ब्रवै वचनमुत्तमम् ।
इत्याह स्म ध्रुवं तत्र मामाह भगवान्पुनः ॥
ऋषिरस्मि महावीर्य न मां जानाति वा मयि ।
असूयति च मां मूढ तच्छ्रुत्वा गर्वमास्थितः ॥
अहं देवनिकायानां मध्ये वचनमब्रवम् ।
ऋषे पूर्वं वरं मत्तस्त्वं वृणीष्व ततो ह्यहम् ।
वृणे त्वत्तो वरं पश्चादित्येवं मुनिसत्तमाः ॥
तस्मात्त्वां भगवान्देवः श्रीमाञ्श्रीवत्सलक्षणः ।
अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा ।
वृणेऽहं वरमेतद्धि त्वत्तोऽद्य पतगेश्वर ॥
तथेति तं वीक्ष्य मातामनहंकारमास्थितम् ।
जेतुकामो ह्यहं विष्णुं मायया मायिनं हरिम् ॥
त्वत्तो ह्यहं वृणे त्वद्य वरं ऋषिवरोत्तम ।
तवोपरिष्टात्स्थास्यामि वरमेतत्प्रयच्छ मे ॥
तथेति च हसन्प्राह हरिर्नारायणः प्रभुः ।
ध्वजं च मे भव सदा त्वमेव विहगेश्वर ।
उपरिष्टात्स्थितिस्तेऽस्तु मम पक्षीन्द्र सर्वदा ॥
इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः ।
सहस्रचरणः श्रीमान्सहस्रादित्यसन्निभः ॥
सहस्रशीर्षा पुरुषः सहस्रनयनो महान् ।
सहस्रमकुटोऽचिन्त्यः सहस्रवदनो विभुः ॥
विद्युन्मालानिभैर्दिव्यैर्नानाभरणराजिभिः ।
क्वचित्संदृश्यमानस्तु चतुर्बाहुः क्वचिद्वरिः ॥
क्वचिज्ज्योतिर्मयोचिन्त्यः क्वचित्स्कन्धे समाहितः ।
एवं मम जयन्देवस्तत्रैवान्तरधीयत ॥
ततोऽहं विस्मयापन्नः कृत्वा कार्यमनुत्तमम् ।
अस्याविमुच्य जननीं मया सह मुनीश्वराः ॥
अचिन्त्योऽयमहं भूयः कोऽसौ मामब्रवीत्पुरा ।
कीदृग्विधः स भगवानिति मत्वा तमास्थितः ॥
अनन्तरं देवदेवं स्कन्धे मम समाश्रितम् ।
अद्राक्षं पुण्डरीकाक्षं वहमानोऽहमद्भुतम् ॥
अवशस्तस्य भावेन यत्र यत्र स चेच्छति ।
विस्मयापन्नहृदयो ह्यहं किमिति चिन्तयन् ।
अन्तर्जलमहं सर्वं वहमानोऽगमं पुनः ॥
सेन्द्रैर्देवैर्महाभागैर्ब्रह्माद्यैः कल्पजीविभिः ।
स्तूयमानो ह्यहमपि तैस्तैरभ्यर्चितः पृथक् ॥
क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे ।
वैकर्णनाम सदनं हरेस्तस्य महात्मनः ॥
दिव्यं तेजोमयं श्रीमदचिन्त्यममरैरपि ।
तेजोनिलमयैः स्तम्भैर्नानासंस्थानसंस्थितैः ॥
विभूषितं हिरण्येन भास्वरेण समन्ततः ।
दिव्यं ज्योतिः समायुक्तं गीतवादित्रशोभितम् ॥
शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम् ।
न च स्थलं न चान्यच्च पादयोस्तं समन्ततः ।
वेपमानो ह्यहं तत्र विष्ठितोऽहं कृताञ्जलिः ॥
ततो ब्रह्मादयो देवा लोकपालास्तथैव च ।
सनन्दनाद्या मुनयस्तथाऽन्ये परजीविनः ॥
प्राप्तास्तत्र सभाद्वारि देवगन्धर्वसत्तमाः ।
ब्रह्माणं परतः कृत्वा कृताञ्जलिपुटास्तदा ॥
ततस्तदन्तरे तस्मिन्क्षीरोदार्णवशीकरैः ।
बोध्यमानो महाविष्णुराविर्भूत इवाबभौ ॥
फणासहस्रमालाढ्यं शेषमव्यक्तसंस्थितम् ।
पश्याम्यहं मुदाऽऽकाशे यस्योपरि जनार्दनम् ॥
दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः ।
चर्तुभिर्बाहुभिर्युक्तं------------ ॥
पिताम्बरेण संवीतं कौस्तुभेन विराजितम् ।
वक्षस्थलेन संयुक्तं पद्मयाऽधिष्ठितेन च ॥
ईषदुन्मीलिताक्षं तं सर्वकारणकारणम् ।
क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा ॥
न कश्चिद्वदते कश्चिन्न व्याहरति कश्चन ।
ब्रह्मादिस्तम्बपर्यन्तं माशब्दमिति रोषितम् ।
भ्रुकुटीकुटिलाक्षास्ते नानाभूतगणाः स्थिताः ॥
कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया ।
गच्छध्वमिति मामुक्त्वा गरुडेत्याह मां ततः ॥
ततोऽहं प्रणिपत्याग्रे कृताञ्जलिरवस्थितः ।
आगच्छेति च मामुक्त्वा पूर्वोत्तरपथं गतः ॥
अतीव मृदुभावेन गच्छन्निव स दृश्यते ।
अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा ।
पतमानोऽहमनिशं योजनानि ततस्ततः ॥
ननु तत्वमहं भक्तो विष्ठितोस्मि प्रशास्तु नः ।
आगच्छ गरुडेत्येवं पुनराह स माधवः ॥
ततो भूयो ह्यहं पातं पतमानो विहायसम् ।
आजगाम ततो घोरं शतकोटिसमावृतम् ॥
तामसानीव भूतानि पर्वताभानि तत्र ह ।
समानानीव पद्मानि ततोऽहं भीत आस्थितः ॥
ततो मां किंकरो घोरः शतयोजनमायतम् ।
निगृह्य पाणिना तस्माच्चिक्षेप च स लोष्टवत् ॥
तत्तमोऽहमतिक्रम्य ह्यापं चैव विहायसम् ।
हुङ्कारघोपं तत्राहमशनीपातसन्निभान् ।
कर्णमूले ह्यशृण्वन्तस्ततो भूतैः समास्थितः ॥
ततोऽहं देवदेवेश त्राहि मां पुष्करेक्षण ।
इत्यब्रवमहं तत्र ततो विष्णुरुवाच माम् ॥
सुषिरस्य मुखे कश्चिन्मां चिक्षेप भयङ्करः ।
अतीतोऽहं क्षणादग्निमपश्यं वायुमण्डलम् ॥
आकाशमिव संप्रेक्ष्य क्षेप्तुकाममुपागतः ।
तत्राहं दुःखितो भूतः क्रोशमानो ह्यवस्थितः ॥
क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना ।
स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयङ्करः ॥
-----गरुडकुलं सहस्रादित्यसन्निभम् ।
मां दृष्ट्वाऽप्यथ संस्थेऽथ ह्यल्पकालोऽतिदुर्बलः ॥
अहो विहङ्गमः प्राप्त इति विस्मयमानसाः ।
मां दृष्ट्वोचुरहं तत्र पश्यामि गरुडध्वजम् ॥
सहस्रयोजनायामं सहस्रादित्यवर्चसम् ।
सहस्रगरुडारूढं गरुडास्ते महाबलाः ॥
अत्याश्चर्यमिमं देव वपुषाऽस्मत्कुलोद्भवः ।
स्वल्पप्राणः स्वल्पकायः कोसौ पक्षी इहागतः ॥
तच्छ्रुत्वाऽहं नष्टगर्वो भीतो लज्जासमन्वितः ।
स्वयं बुद्ध्श्च संविग्नस्ततो ह्यशृणवं पुनः ॥
आगच्छ गरुडेत्येव ततोऽहं यानमास्थितः ।
परार्ध्यं च ततो गत्वा योजनानां शतं पुनः ।
तत्रापश्यमहं यो वै ब्रह्माणं परमेष्ठिनम् ॥
तत्रापि चापरं तत्र शतकोटिपितामहान् ।
पुनरेहीत्युवाचोच्चैर्भगवान्मधुसूदनः ॥
महाकुलं ततोऽपश्यं प्रमाणानि तमव्ययम् ।
कपित्थफलसंकाशमन्धकारैः समाश्रितम् ॥
तत्र स्थितो हरिः श्रीमानण्डमेकं बिभेद ह ।
महद्भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत्पुनः ॥
तन्सध्ये सागरान्सप्त ब्रह्माणं च तथा सुरान् ।
पश्याम्यहं यथायोगं मातरं स्वकुलं तथा ॥
एवं मयाऽनुभूतं हि तत्वान्वेषणकाङ्क्षिणा ।
शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः ॥
इत्येवमब्रवं विप्रान्भीष्म यन्मे पुराऽभवत् ।
तत्ते सर्वं यथान्यायमुक्तवानस्मि सत्तम ॥
योगिनस्तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम् ।
नान्यथा शक्यरूपोसौ ज्ञानगम्यः परः पुमान् ॥
अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः ॥
भीष्म उवाच ।
इत्येवमुक्त्वा भगवान्सुपर्णः पक्षिराट् प्रभुः ।
आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत ॥
तस्माद्राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत् ।
ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर्मम ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥
* क्षयमध्यायो ध. पुस्क एव दृश्यते ।