अध्यायः 218
भीष्मेण युधिष्ठिरंप्रति शिष्याय
गुरूक्तवार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥
निष्कल्मषं ब्रह्मचर्यमिच्छताचरितुं सदा ।
निद्रा सर्वात्मना त्याज्या स्वप्नदोषमवेक्षता ॥
स्वप्ने हि रजसा देही तमसा चाभिभूयते ।
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ॥
ज्ञानाभ्यासाज्जागरिता जिज्ञासार्थमनन्तरम् ।
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा ॥
अत्राह कोन्वयं भावः स्वप्ने विषयवानिव ।
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ॥
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः ।
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ॥
इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं मनः ।
`तन्मयानीन्द्रियाण्याहुस्तावद्गच्छन्ति तानि वै ॥
अत्राहुस्त्रितयं नित्यमतथ्यमिति चेच्च न ।
प्रथमे वर्तमानोऽसौ त्रितयं चेति सर्वदा ॥
नेतरावुपसंगम्य विजानाति कथंचन ।
स्वप्नावस्थागतो ह्येष स्वप्न इत्येव वेत्ति च ॥
तदप्यसदृशं युक्त्या त्रितयं मोहलक्षणम् ।
यदात्मत्रितयान्मुक्तस्तदा जानात्यसत्कृतः ॥'
मनसस्त्वप्रलीनत्वात्तत्तदाहुर्निदर्शनम् ।
कार्ये चासक्तमनसः संकल्पो जाग्रतो ह्यपि ।
यद्वन्मनोरथैश्चर्यं स्वप्ने तद्वन्मनोगतम् ॥
संसाराणामसंख्यानां कामात्मा तदवाप्नुयात् ।
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ॥
गुणानामपि यद्येतत्कर्मणा चाप्युपस्थितम् ।
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ॥
ततस्तमुपसर्पन्ति गुणा राजसतामसाः ।
सात्विका वा यथायोगमानन्तर्यफलोदयम् ॥
ततः पश्यन्त्यसंबन्धान्वातपित्तकफोत्तरान् ।
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरत्ययम् ॥
प्रसन्नैरिन्द्रियैर्यद्यत्संकल्पयति मानसम् ।
तत्तत्स्वप्नेप्युपरते मनो बुद्धिर्निरीक्षते ॥
व्यापकं सर्वभूतेषु वर्तते दीपवन्मनः ।
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥
मनस्यन्तर्हितं द्वारं देहमास्थाय मानुषम् ।
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् ॥
`व्यक्तभेदमतीतोऽसौ चिन्मात्रं परिदृश्यते ।'
सर्वभूतात्मभूतस्थं तमध्यात्मगुणं विदुः ॥
लिप्सेन मनसा यश्च संकल्पादैश्वरं गुणम् ।
आत्मप्रसादात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥
एवं हि तपसा युञ्ज्यादर्कवत्तमसः परम् ।
त्रैलोक्यप्रकृतिर्देही तमसोन्ते महेश्वरम् ॥
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः ।
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ॥
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः ।
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ॥
`सत्त्वं मनस्तथा बुद्धिर्देवा इत्यभिशंब्दिताः ।
तैरेव हि वृतस्तस्माज्ज्ञात्वैवं परमं----- ॥
निद्राविकल्पेन सतां---- विशति लोकवत् ।
स्वस्थो भवति गूढात्मा कलुषैः परिवर्जितः ॥
निशादिका ये कथिता लोकानां कलुषा मताः ।
तैर्हीनं यत्पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम् ।
सदानन्दमयं नित्यं भूत्वा तत्परमन्वियात् ॥
एवमाख्यातमत्यर्थं ब्रह्मचर्यमकल्मषम् ।
सर्वसंयोगहीनं तद्विष्ण्वाख्यं परमं पदम् ।
अचिन्त्यमद्भुतं लोके ज्ञानेन परिवर्तते ॥'
ब्रह्म तत्परमं ज्ञानममृतं ज्योतिरक्षरम् ।
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ॥
हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा ।
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥
12-218-2 अपगतस्पृहः इति झ. पाठः ॥ 12-218-11 वेद
सोऽन्तरपूरुषः इति ट. पाठः ॥ 12-218-16 अप्रतिमं मनः इति ध. पाठः । अप्रतिधं मनः
इति झ. पाठः ॥ 12-218-21 गुप्तं ज्ञानाज्ञानस्य लक्षणमिति थ. ध. पाठः ॥ 12-218-27 ब्रह्म तत्परमं वेद्यं इति ट. थ. पाठः । ये विदुः सात्विकात्मानः इति
थ. पाठः ॥