अध्यायः 018
अर्जुनेन युधिष्ठिरंप्रति जनकतद्भार्यासंवादकथनपूर्वकं
कर्तव्योपदेशः ॥ 1 ॥
तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् ।
संतप्तः शोकदुःखाभ्यां राजवाक्शल्यपीडितः ॥
अर्जुन उवाच ।
कथयन्ति पुरावृत्तमितिहासमिमं जनाः ।
विदेहराज्ञः संवादं भार्यया सह भारत ॥
उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम् ।
विदेहराजमहीषी दुःखिता प्रत्यभाषत ॥
धनान्यपत्यं मित्राणि रत्नानि विविधानि च ।
पन्थानं पावनं हित्वा जनको मौढ्यमास्थितः ॥
तं ददर्श प्रिया भार्या भैक्षवृत्तिमकिंचनम् ।
धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ॥
तमुवाच समामत्य भर्तारमकुतोभयम् ।
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ॥
कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम् ।
कापालीं वृत्तिमास्थाय धान्यमुष्टिमुपाससे ॥
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव ।
यद्राज्यं महदुत्सृज्य स्वल्पे लुभ्यसि पार्थिव ॥
नैतेनातिथयो राजन्देवर्षिपितरस्तथा ।
अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः ॥
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव ।
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥
यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः ।
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भूतिमिच्छसि ॥
श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे ।
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ॥
आश्रिता धर्मकामास्त्वां क्षत्रियाः पर्युपासते ।
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः ॥
तांश्च त्वं विफलान्कृत्वा कं नु लोकं गमिष्यसि ।
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ॥
नैव तेऽस्ति परो लोको नापरः पापकर्मणः ।
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ॥
स्रजो गन्धानलंकारान्वासांसि विविधानि च ।
किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः ॥
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत ।
आढ्यो वनस्पतिर्भूत्वा सोन्यांस्त्वं पर्युपाससे ॥
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत ।
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ॥
य इमां कुण्डिकां भिन्द्यान्त्रिविष्टब्धं च यो हरेत् ।
वासश्चापि हरेत्तस्मिन्कथं ते मानसं भवेत् ॥
यस्त्वं सर्वं समुत्सृज्य धानामुष्टिमनुग्रहः ।
यदनेन कृतं सर्वं किमिदं मम दीयते ॥
धानामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ।
का वाऽहं तव को मे त्वं कश्च ते मय्यनुग्रहः ॥
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ।
प्रासादे शयनं यानं वासांस्याभरणानि च ॥
श्रियां निराशैरधनेस्त्यक्तमित्रैरकिंचनैः ।
सौखिकैः संभृतो योऽर्थः स संत्यजति किंनु तं ॥
योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि ।
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ॥
सदैव याचमानेषु तथा दम्भान्वितेषु च ।
एतेषु दक्षिणा दत्ता दावाग्राविव दुर्हुतम् ॥
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति ।
सदैव याचमानो वै तथा शाम्यति न द्विजः ॥
सतां वै ददतोऽन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा ।
न चेद्राजा भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ॥
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च ।
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ॥
गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः ।
प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते ॥
त्यागान्न भिक्षुकं विन्द्यान्न मौढ्यान्न च याचनात् ।
ऋजुस्तु योऽर्थं त्यजति तं मुक्तं विद्धि भिक्षुकम् ॥
असक्तः शक्तवद्गच्छन्निः सङ्गो मुक्तबन्धनः ।
समः शत्रौ च मित्रे च स वै मुक्तो महीपते ॥
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः ।
सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् ॥
त्रयीं च नामवार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये ।
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ॥
अनिष्कषाये काषायमीहार्थमिति विद्धि तम्् ।
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ॥
काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् ।
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ॥
अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान् ।
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः ॥
अर्जुन उवाच ।
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते ।
सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः ॥
एवं धर्ममनुक्रान्ता सदा दानतपः पराः ।
आनृशंस्यगुणोपेताः कामक्रोधविवर्जिताः ॥
प्रजानां पालने युक्ता दममुत्तममास्थिताः ।
इष्ट्वा लोकानवाप्स्यामो गुरुवृद्धोपचायिनः ॥
देवतातिथिभूतानां निर्वपन्तो यथाविधि ।
स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
12-18-5 धाना भृष्टयवाः । निरीहं वितृष्णम् ॥ 12-18-8 स्वल्पे
मुह्यसीति द.थ. पाठः । प्रतिज्ञाते ते वृथेति ड. पाठः ॥ 12-18-9 एतेन
धानामुष्टिना ॥ 12-18-12 कौसल्या पातिता त्वयेति ट. ड. थ. पाठः ॥ 12-18-13
फलहेतुकाः फलार्थिनः ॥ 12-18-17 निपीयतेऽस्मिन्स्वेच्छया गोभिर्जलमिति निपानं
आहावः । कूपोपान्तस्थक्षुद्रजलाशय इतियावत् । तथा आढ्यः फलवान् ॥ 12-18-18
हस्तिनमपि न्यासे कृते सति क्रव्यादा मांसादाः खादन्ति । अनर्थकं
सर्वपुरुषार्थहीनम् ॥ 12-18-19 त्रिविष्टब्धं त्रिदण्डम् ॥ 12-18-20 अनुग्रहः
अन्वग्रहीः । यदानेन समं सर्वं किमिदं ह्यवसीयते इति झ. पाठः । तत्र अवसीयसे
अध्यवस्यति । अनेन धानामुष्टिना सर्वं राज्यादिकं समम् । सङ्गित्वाविशेषात्
इत्यर्थः ॥ 12-18-23 सौखिकैः संभृतानर्थान्यः संत्यजति किंनु तत् इति झ. पाठः ।
तत्र सौखिकैः परममुखार्थिभिः संन्यासिभिः । संभृतानर्थान् कुण्डिकादीन् वीक्ष्य
यः स्वयमपि तथा करोति स किंनु तद्राज्यादिकं त्यजति । अपितु नैव त्यजति ।
किंतूचितं परिग्रहं त्यक्त्वा दैवोपहतत्वादनुचितं परिग्रहान्तरमेव
करोतीत्यसङ्गत्वमस्य दुर्लभमित्यर्थः ॥ 12-18-25 सदैव वाचमानः परिव्राट् । सदैव
याचमानेषु सत्सु (दण्ड)डम्भविवर्जिषु इति ट.ड. थ. द. पाठः ॥ 12-18-26 सदैव
याचमानो हि तथा शाम्यति वै द्विजः । इति झ. पाठः ॥ 12-18-27 सतां संन्यासिनां
प्रकृतिर्जीवनम् । सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा । अन्नदाता
भवेद्दाता कुशास्त्रं मोक्षकाङ्क्षिणः । इति ट.ड.थ.द. पाठः ॥ 12-18-32
परिव्रजन्ति येऽनर्था इति ट. ड. पाठः ॥ 12-18-34 अनिष्कषाये
रागादिदोषवर्जनाभावे । अनिष्कषायाः काषायमिति ड. थ. द. पाठः ॥