अध्यायः 019
अर्जुनंप्रति युधिष्ठिरवचनम् ॥ 1 ॥
वेदाहं तात शास्त्राणि अपराणि पराणि च ।
उभयं वेदवचनं कुरु कर्म त्यजेति च ॥
आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च ।
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि ॥
त्वं तु केवलशास्त्रज्ञो वीरव्रतसमन्वितः ।
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन ॥
शास्त्रार्थतत्त्वदर्शी यो धर्मनिश्चयकोविदः ।
तेनाप्येवं न वाच्योऽयं यदि धर्मं प्रपश्यसि ॥
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया ।
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥
`महेश्वरसमं सत्वं ब्रह्मणा चैव यत्समम् ।
वासुदेवसमं चैव न भूतं न भविष्यति ॥
तथा त्वं योधमुख्येषु सत्वं परममिष्यते ॥
बलमिन्द्रे च वायौ च बलं यच्च जनार्दने ।
तद्वलं भीमसेने च त्वयि चार्जुना विद्यते ॥
त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव ।
दिव्यास्त्रबलसंपन्नः को वाऽन्यस्त्वत्समो नरः ॥
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च ।
न त्वया सदृशः कश्चिन्त्रिषु लोकेषु विद्यते ॥
धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया ।
धर्मसूक्ष्मं तु यद्वाच्यं तत्र दुष्प्रतरं त्वया ।
धनञ्जय न मे बुद्धिमतिशङ्कितुमर्हसि ॥
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् ।
परस्परं ज्याय एषामिति नः श्रेयसी मतिः ॥
यत्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति ।
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥
तपः स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः ।
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥
अजातश्मश्रवो धीरास्तथाऽन्ये वनवासिनः ।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः ॥
उत्तरेण तु पन्थानमार्या विषयनिग्रहात् ।
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते ।
एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः ।
तस्मात्त्यागः प्रधानेष्टः स तु दुःखं प्रवेदितुम् ॥
अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः ।
अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च ।
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते ॥
अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके ।
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ॥
अग्राह्यं चक्षुषा सत्वमनिर्देश्यं च तद्गिरा ।
कर्महेतुपुरस्कारं भूतेषु पस्विर्तते ॥
कल्याणगोचरं कृत्वा मानं तृष्णां निगृह्य च ।
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी ॥
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते ।
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ॥
पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत ।
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः ।
दृढपूर्वे स्मृता मूढा नैतदस्तीति वादिनः ॥
अनृतस्यावमन्तारो वक्तारो जनसंसदि ।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥
पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति ।
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः ॥
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥
12-19-1 अपराणि धर्मशास्त्राणि । पराणि ब्रह्मशास्त्राणि ॥ 12-19-2 अमूलानि च शास्त्राणि हेतुभिश्चित्रितानि च । निश्चयश्चैष यन्मन्त्र इति
ट. ड. पाठः ॥ 12-19-3 त्वं तु केवलमस्त्रज्ञ इति झ.पाठः ॥ 12-19-11 तत्र विषये
दुष्प्रतरं दुरवगाहम् ॥ 12-19-16 अरुणाः केतवः ऋषिप्रभेदाः । अरण्ये बहवश्चैवेति
झ.पाठः ॥ 12-19-21 आरण्यकानि वेदान्तान् ॥ 12-19-24 मनस्तृणां निगृह्य चेति झ.
पाठः ॥ 12-19-26 पूर्वशास्त्रविदः कर्मकाण्डविदोऽपि एवमर्थमनर्थत्वेन पश्यन्ति
किमुत ज्ञानिनः ॥ 12-19-27 दुरावर्ताः दुःखेनापि सिद्धान्तं ग्राहयितुमशक्याः ।
दृढः पूर्वः प्राग्भवीयः संस्कारो येषां ते दृढपूर्वे । बहुव्रीहावप्यार्षी
सर्वनामता ॥ 12-19-29 हे पार्थ यत् यान् लौकिकानप्यर्थान्न वयं विजानीमस्तान्
इतरः को ज्ञातुमर्हति । न कोपि यथा । एवं प्राज्ञा अपि अस्माकमन्येषां च
दुर्ज्ञेया इत्यर्थः ॥ 12-19-30 महद्वैराग्यम् । महत्परंब्रह्म ॥