अध्यायः 236

भीष्मेण युधिष्ठिरंप्रति वैराग्यादिपूर्यकभगवज्ज्ञानस्य श्रेयः साधनत्वपरासितजैगीषव्यसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
किंशीलः किंसमाचारः किंविद्यः किंपराक्रमः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥
भीष्म उवाच ।
मोक्षधर्मेषु नियतो लध्वाहारो जितेन्द्रियः ।
प्राप्नोति ब्रह्मणः स्थानं तत्परं प्रकृतेर्ध्रुवम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
जैगीषव्यस्य संवादमसितस्य च भारत ॥
`महादेवान्तरे वृत्तं देव्याश्चैवान्तरे तथा । यथावच्छृणु राजेन्द्र ज्ञानदं पापनाशनम् ॥'
जैगीषव्यं नहाप्रज्ञं धर्नाणामागतागमम् ।
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥
न प्रीमसे बन्द्यमानो निन्द्यमानो न कुप्यसे ।
का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम् ॥
भीष्म उवाच ।
इति तेनानुयुक्तः स तमृपाच महातपाः ।
महद्वाक्यप्रसंदिग्धं पुष्कलार्थपदं शुचि ॥
जैगीषव्य उवाच ।
या यतियौ परा निष्ठा या शान्तिः पुण्यकर्मणाम् ।
तां तेऽहं सं प्रवक्ष्यामि यां मां पृच्छसि वै द्विज ॥
निन्वत्सु वा सप्ता नित्यं प्रशंसत्सु च देवल ।
निहवन्ति च ये तेषां समयं सुकृतं च यत् ॥
उक्ताश्च न विवक्ष्यन्ति वक्तारमहिते हितम् ।
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते ।
न चातीतानि शोचन्ति न चैतान्प्रतिजानते ॥
संप्राप्तानां च पूज्यानां कामादर्थेषु देवल ।
यथोपपत्तिं कुर्वन्ति शक्तिमन्तो धृतव्रताः ॥
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः ।
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥
अनीर्षवो न चोन्योन्यं विहिंसन्ति कदाचन ।
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य च ।
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः ।
न कुध्यन्ति स हृष्यन्ति नापराध्यन्ति कस्यचित् ॥
विमुच्य हृदयग्रन्थिं चङ्कम्यन्ते यथासुखम् ।
न चैषां बान्धवाः सन्ति ये चान्येषां च बान्धवाः ॥
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ।
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ॥
ये धर्मं चानुरुध्यन्ते धर्मज्ञा द्विजसत्तमाः ।
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् ।
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥
यद्यदिच्छन्ति तत्तस्मादधिगच्छन्ति मानवाः ।
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥
अमृतस्येव संतृप्येदवमानस्य तत्त्ववित् ।
विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ॥
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः ।
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बुध्यते ॥
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः ।
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥
`एतच्छ्रुत्वा मुनेस्तस्य वचनं देवलस्तथा ।
तदधीनो भवच्छिष्यः सर्वद्वन्द्वविनिष्ठितः ॥
अथान्यत्तु पुरावृतं जैगीषव्यस्य धीमतः ।
शृणु राजन्नवहितः सर्वज्ञानसमन्वितः ॥
यमाहुः सर्वलोकेशं सर्वलोकनमस्कृतम् ।
अष्टमूर्ति जगन्मूर्तिमिष्टसंधिविभूषितम् ॥
यं प्राप्ता न विषीदन्ति न शोचन्त्युद्विजन्ति च ॥
यस्य स्वाभाविकी शक्तिरिदं विश्वं चराचरम् ।
याति सज्जति सर्वात्मा स देवः परमेश्वरः ॥
मेरोरुत्तरपूर्वे तु सर्वरत्नविभूषिते ।
अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते ॥
वृक्षैश्च शोभिते नित्यं दिव्यवायुसमीरिते ।
नानाभूतगणैर्युक्तः सर्वदेवनमस्कृतः ॥
तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः ।
लोकपालाः समुद्राश्च नद्यः शैलाः सरांसि च ॥
ऋषयो वालखिल्याश्च यज्ञाः स्तोभाह्वयास्तथा ।
उपासांचक्रिरे देवं प्रजानां पतयस्तथा ॥
तत्र रुद्रो महादेवो देव्या चैव सहोमया ।
आस्ते वृषध्वजः श्रीमान्सोमसूर्याग्निलोचनः ॥
तत्रैवं देवमालोक्य देवी धात्री विभावरी ।
उमा देवी परेशानमपृच्छद्विनयान्विता ॥
अर्थः कोऽथार्थशक्तिः का भगवन्ब्रूहि मेऽर्थितः ।
तयैवं परिपृष्टोऽसौ प्राह देवो महेश्वरः ॥
अर्थोऽहमर्थशक्तिस्त्वं भोक्ताऽहं भोज्यमेव च ।
रूपं विद्धि महाभागे प्रकृतिस्त्वं परो ह्यहम् ॥
अहं विष्णुरहं ब्रह्मा ह्यहं यज्ञस्तथैव च । आवयोर्न च भेदोऽस्ति परमार्थस्ततोऽबले ।
तथापि विद्मस्ते भेदं किं मां त्वं परिपृच्छसि ॥
एवमुक्ता ततः प्राह ह्यधिकं ह्येतयोर्वद ।
श्रेष्ठं वेद महादेव नम इत्येव भामिनी ॥
तदन्तरे स्थितो विद्वान्वसुरूपो महामुनिः ।
जैगीषव्यः स्मयन्प्राह ह्यर्थ इत्येव नादयन् ॥
श्रेष्ठोन्योऽस्मान्महीपिण्डा तल्लीना शक्तिरापरा ।
मुद्रिकादिविशेषेण विस्तृता संभृतेति च ॥
तच्छ्रुत्वा वचनं देवी कोसावित्यब्रवीद्रुषा ।
वाक्यमस्याद्य संभङ्क्त्वा प्रोक्तवानिति शंकरम् ॥
तच्छ्रुत्वा निर्गतो धीमानाश्रमं स्वं महामुनिः ।
स्थानात्स्वर्गगणे विद्वान्योगैश्वर्यसमन्वितः ॥
ततः प्रहस्य भगवान्सर्वपापहरो हरः ।
प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः ॥
भक्तो मम सखा चैव शिष्यश्चात्र महामुनिः ।
जैगीषव्य इति ख्यातः प्रोक्त्वासा निर्गतः शुभे ॥
तच्छ्रुत्वा साऽथ संक्रुद्धा न न्याय्यं तेन वै कृतम् ।
विकृताऽहं त्वया देव मुनिना च तथाकृता ॥
अत*ज्ञादयदेवेश मध्ये प्राप्तं न तच्छ्रुतम् ।
तच्छ्रुत्वा भगवानाह महादेवः पिनाकधृत् ॥
निरपेक्षो मुनिर्योगी मामुपाश्रित्य संस्थितः ।
निर्द्वन्द्वः सततं धीमान्समरूपस्वभावधृत् ॥
तस्मात्क्षमस्व तं देवि रक्षितव्यस्त्वया च सः ॥
इत्युक्ता प्राह सा देवी मुनेस्तस्य महात्मनः ।
निराशत्वमहं द्रष्टुमिच्छाम्यन्तकनाशन ॥
तथेति चोक्त्वा तां देवो वृषमारुह्य सत्वरम् ।
देवगन्धर्वसङ्घैश्च स्तूयमानो जगत्पतिः ॥
अजरामरशुद्धात्मा यत्रास्ते स महामुनिः ।
इतस्ततः समाहृत्य वीरसंघैर्महायशाः ॥
देहप्रावरणार्थं वै संसरन्स तदा मुनिः । प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च ।
पुनः स पूर्ववत्कथां सूच्या सूत्रेण सूचयत् ॥
तमाह भगवाञ्शंभुः किं प्रदास्यामि ते मुने ।
वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि ॥
नावलोकयमानस्तु देवदेवं महामुनिः । अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज ।
कृतार्थः परिपूर्णोऽहं यत्ते कार्यं तु गम्यताम् ॥
प्रहसंस्तु पुनः शर्वो वृणीष्वेति तमब्रवीत् ।
अवश्यं हि वरो प्रत्तः श्राव्यं वरमनुत्तमम् ॥
जैगीषव्यस्तमाहेदं श्रोतव्यं च त्वया मम ।
सूचीमनु महादेव सूत्रं समनुगच्छतः ॥
ततः प्रहस्य भगवान्गौरीमालोक्य शङ्करः ।
स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः ॥
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि । निर्द्वन्द्वा योगिनो नित्याः सर्वशस्ते स्वयंभुवः ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट््त्रिंशदधिकद्विशंततमोऽध्यायः ॥ 236 ॥

12-236-8 या शक्तिः पुण्वकमेणां इति ट. पाठः ॥ 12-236-12 संप्रदानं च पूज्यानां इति ट. थ. पाठः ॥