अध्यायः 238

भीष्मेण युधिष्ठिरंप्रति सृष्ट्यादिप्रतिपादकव्यासशुकसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव ।
ध्यानं कर्म च कालं च तथैवायुर्युगेयुगे ॥
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् ।
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ॥
`भेदकं भेदतत्वं च तथाऽन्येषां मतं तथा । अवस्थात्रितयं चैव यादृशं च पितामह ॥'
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर ।
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ॥
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् ॥
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ॥
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता ।
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ॥
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा ।
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ॥
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः ।
पप्रच्छ संशयमिमं छिन्नधर्मार्थसंशयम् ॥
श्रीशुक उवाच ।
भूतग्रामस्य र्क्तारं कालज्ञाने च निश्चितम् ।
`ज्ञानं ब्रह्म च योगं च गवात्मकमिदं जगत् ॥
त्रितये त्वेनमायाति तथा ह्येषोऽपि वा पुनः ।
केनैव च विभागः स्यात्तुरीयो लक्षणैर्विना ॥
ज्ञानज्ञेयान्तरे कोसौ कोयं भावस्तु भेदवत् । यज्ज्ञानं लक्षणं चैव तेषां कर्तारमेव च ।'
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते ।
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ॥
`पृच्छतस्तव सत्पुत्र यथावत्कीर्तयाम्यहम् ।
शृणुष्वावहितो भूत्वा यथाऽऽवृतमिदं जगत् ॥
कार्यादि कारणान्तं यत्कार्यान्तं कारणादिकम् ।
ज्ञानं तदुभयं वित्त्वा सत्यं च परमं शुभम् ॥
ब्रह्मेति चाभिविख्यातं तद्वै पश्यन्ति सूरयः ।
ब्रह्मतेजोमयं भूतं भूतकारणमद्भुतम् ॥
आसीदादौ ततस्त्वाहुः प्राधान्यमिति तद्विदः ।
त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः ॥
तदीदृशमनाद्यन्तमव्यक्तमजरं ध्रुवम् ।
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे वैकृतं च तत् ॥
तद्वै प्रधानमुद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम् ।
सम्यग्योगगुणं स्वस्थं तदिच्छाक्षोभितं महत् ॥
शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका ।
अस्वतन्त्रा च सततं विदधिष्ठानसंयुता ॥
स्वभावाख्यं समापन्ना मोहविग्रहधारिणी ।
विविधस्यास्य जीवस्य भोगार्थं समुपागता ॥
यथा संनिधिमात्रेण गन्धक्षोभाय जायते ।
मनस्तद्वदशेषस्य परात्पर इति स्मृतः ॥
सृष्ट्वा प्रविश्य तत्तस्मिन्क्षोभयामास विष्ठितः ।
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥
प्रधानतत्वादुद्भूतो महत्वाच्च महान्स्मृतः ।
प्रधानतत्वमुद्भूतं महत्तत्वं समावृणोत् ॥
कालात्मनाऽभिभूतं तत्कालोंऽशः परमात्मनः ।
पुरुषश्चाप्रमेयात्मा स एव इति गीयते ॥
त्रिगुणोसौ महाज्ञातः प्रधान इति वै श्रुतिः ॥
सात्विको राजसश्चैव तामसश्च त्रिधात्मकः ।
त्रिविधोऽयमहङ्कारो महत्तत्वादजायत ॥
तामसोऽसावहङ्कारो भूतादिरिति संज्ञितः ।
भूतानामादिभूतत्वाद्रक्ताहिस्तामसः स्मृतः ॥
भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः ।
ससर्ज शब्दं तन्मात्रमाकाशं शब्दलक्षणम् ॥
शब्दलक्षणमाकाशं शब्दतन्मात्रमावृणोत् ।
तेन संपीड्यमानस्तु स्पर्शमात्रं ससर्ज ह ॥
शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत् ।
ससर्ज वायुस्तेनासौ पीड्यमान इति श्रुतिः ॥
स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत् ।
तेन संपीड्यमानस्तु ससर्जाग्निमिति श्रुतिः ॥
रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत् ।
तेन संपीड्यमानस्तु रसमात्रं ससर्ज ह ॥
रुपमात्रगतं तेजो रसमात्रं समावृणोत् ।
तेन संपीड्यमानस्तु ससर्जाम्भ इति श्रुतिः ॥
रसमात्रात्मकं भूयो रसं तन्मात्रमावृणोत् ।
तेन संपीड्यमानस्तु गन्धं तन्मात्रकं ततः ॥
ससर्ज गन्धं तन्मात्रमावृणोत्करकं ततः ।
तेन संपीड्यमानस्तु काठिन्यं च ससर्ज ह ॥
पृथिवी जायते तस्माद्गन्धतन्मात्रजात्तथा ॥
अम्मयं सर्वमेवेदमापस्तस्तम्भिरे पुनः ।
भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः ॥
भूतानां मूर्तिरेवैषामन्नं चैषां मता बुधैः ।
तस्मिंस्तस्मिंस्तु तन्मात्रा तन्मात्रा इति ते स्मृताः ॥
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥
एषामुद्धर्तकः कालो नानाभेदवदास्थितः । परमात्मा च भूतात्मा गुणभेदेन संस्थितः ।
एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः ॥
ब्रह्मा सृजति भूतानि पाति नारायणोऽव्ययः ।
रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः ॥
कालोपि तन्मयोचिन्त्यस्त्रिगुणात्मा सनातनः ।
अव्यक्तोसावचिन्त्योसौ वर्तते भिन्नलक्षणः ॥
कालात्मना त्विदं भिन्नमभिन्नं श्रूयते हि यत् । अनाद्यन्तमजं दिव्यमव्यक्तमजरं ध्रुवम् ।'
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे संप्रवर्तते ॥
काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत्कलां ताम् ।
त्रिंशत्कलश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात् ॥
त्रिंशन्मुहूर्तं तु भवेदहश्च रात्रिश्च सङ्ख्या मुनिभिः प्रणीता ।
मासः स्मृतो रात्र्यहनी च त्रिंशु त्संवत्सरो द्वादशमास उक्तः ॥
संवत्सरं द्वे अयने वदन्ति सङ्ख्याविदो दक्षिणमुत्तरं च ॥
पहोरात्रौ विभजते सूर्यो मानुषलौकिकौ ।
रात्रिः स्वप्नाय संयाति चेष्टायै कर्मणामहः ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ।
शुक्लोऽहः कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी ॥
दैवे रात्र्यहनी ह्यब्दः प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥
ये ते रात्र्यहनी पूर्वं कीर्तिते दैवलौकिके ।
तयोः सङ्ख्याय वर्षाग्रं ब्राह्ने वक्ष्याम्यहः क्षपे ॥
तेषां संवत्सराग्नाणि प्रवक्ष्याम्यनुपूर्वशः ।
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥
इतरेषु ससंध्येषु संध्यांशेषु ततस्त्रिषु ।
एकापायेन संयान्ति सहस्राणि शतानि च ॥
एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान् ।
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् ॥
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युग ।
नाधर्मेणागमः कश्चिद्युगे तस्मिन्प्रवर्तते ॥
इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते । `सत्यं शौत्रं तथायुश्च धर्मश्चापैति पादशः ।'
चौर्यकानृतमायाभिरधर्मश्चोपचीयते ॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः ॥
वेदवादाश्चानुयुगं ह्रसन्तीतीह न श्रुतम् ।
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥
तपः परं कृतयुगे त्रेतायां सत्यमुत्तमम् ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥
एतां द्वादशसाहस्त्रीं युगाख्यां कवयो विदुः ।
सहस्रपरिवर्तं तद्ब्राह्मं दिवसमुच्यते ॥
रात्रिस्तु तावती ब्राह्मी तदादौ विश्वमीश्वरः ।
प्रलयेत्मानमाविश्य सुप्त्वासोऽन्ते विबुध्यते ॥
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणे विदुः ।
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये ।
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात्तस्य शब्दे गुणो मतः ॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ॥
वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम् ।
रोचनं जनयेच्छुद्धं तद्रूपगुणमुच्यते ॥
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः ।
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते ॥
`ब्रह्मतेजोमयं शुक्लं यस्य सर्वमिदं जगत् ।
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम् ॥
अहर्मुखे विवुद्धं तत्सृजते विद्यया जगत् ।
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः ॥
अभिभूयेह चातिष्ठद्व्यसृदत्सप्त मानसान् ।
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥
मनः सृष्टिं न कुरुते चोद्यमानं सिसृक्षया ।
आकाशोजायते तस्मात्तस्य शब्दो गुणो मतः ॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
बलवाञ्जायते वायुस्तस्य स्पर्शगुणं विदुः ॥
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् ।
रोचिष्णुर्जायते तत्र तद्रूपगुणमुच्यते ॥
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः । अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते ॥'
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।
तेषां यावद्गुणं यद्यत्तत्तावद्गुणकं स्मृतम् ॥
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रयुरनैपुणात् ।
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम् ॥
एते सप्तविधात्मानो नानावीर्याः पृथक्पृथक् ।
नाशक्नुवन्प्रजाः स्रष्टुभसमागम्य कृत्स्नशः ॥
ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः ।
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥
श्रयणाच्छरीरी भवति मूर्तिमान्षोडशात्मकः ।
तमाविशन्ति भूतानि महान्ति सह कर्मणा ॥
सर्वभूतान्युपादाय तपसश्चरणाय हि ।
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ॥
स वै सृजति भूतानि स एव पुरुषः परः ।
अजो जनयते ब्रह्मा देवर्षिपितृमानवान् ॥
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् । नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृत्तानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।
विनियोगं च भूतानां धातैव विदधात्युत ॥
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः ।
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
त्रय एतेऽपृथग्भूता अविवेकः कथंचन ॥
एवमेतच्च दैवं च द्भूतं सृजते जगत् ।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥
ततो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥
तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।
अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ॥
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः ।
नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ॥
वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः । नामधेयानि चर्षीणां याश्च वेदेषु सृष्टयः ।
शर्वर्यन्तेषु जातानामन्येभ्यो विदधात्यजः ॥
नामभेदतपः कर्मयज्ञाख्या लोकसिद्धये ।
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ॥
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः ।
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ॥
कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तो हि देहिनः ।
आत्मसिद्धिस्तु विज्ञानाज्जहाति प्रायशो बलम् ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥
आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः ।
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥
त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे ।
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च ।
काम्या इष्टीः पृथक्दृष्ट्वा तपोभिस्तप एव च ॥
त्रेतायां तु समस्ता ये प्रादुरासन्महाबलाः ।
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥
त्रेतायां संहता वेदा यज्ञा वर्णास्तथैव च ।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः ।
उत्सीदन्ते सयज्ञाश्च केवला धर्मपीडिताः ॥
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते ।
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥
स धर्मः प्रैति संयोगं यथाधर्मं युगेयुगे ।
विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम् ॥
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि ।
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगेयुगे ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु ॥
विहितं कालनानात्वमनादिनिधनं तथा ।
कीर्तितं यत्पुरस्तात्ते तत्सूते चाति च प्रजाः ॥
ददाति भवनस्थानं भूतानां संयमो यमः ।
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः ॥
सर्वकालक्रिया वेदाः कर्ता कार्यं क्रियाफलम् ।
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥

12-238-9 संशयं संशयविषयम् । छिन्नधर्मार्थसंशयं व्यास म् ॥ 12-238-45 दशपञ्च च स्थात् इति ट. थ. ध. पाठः ॥ 12-238-54 एकपादेन हीयन्ते इति झ. पाठः ॥ 12-238-60 अन्ये कलियुगे नॄणां युगह्ना सानुरूपतः इति झ. पाठः ॥ 12-238-68 रोचिष्णु जायते शुक्रं इति झ. थ. पाठः ॥ 12-238-89 अविवेकं तु केचन इति झ. पाठः ॥ 12-238-94 याश्च लोकेषु सृष्टयः इति ट. थ . पाठः ॥ 12-238-95 याश्च लोकेषु सृष्टयः इति ट. थ. पाठः ॥ 12-238-97 कर्मयोगेषु लक्ष्यते इति ध. पाठः ॥ 12-238-100 आलम्भः पशुहिंसा । हविर्व्रीह्यादिकम् । परिचारस्त्रैवर्णिकसेवा । तपो ब्रह्मोपासनम् । आरम्भयज्ञा राजानः इति ट. पाठः । आरम्भयज्ञा वैश्वस्य हविर्यज्ञा नृपस्य तु । इति ध. पाठः ॥ 12-238-101 विधिरप्रवृत्तप्रवर्तनम् । तत्र त्रेतायामेव नतु कृते । स्वतएव तत्र तत्सिद्धेः ॥ 12-238-108 तिष्ठन्तीति स्थानि स्थावराणि जङ्गमानि च स्थानि च जङ्गमस्थानि । भूयांसि वृद्धिमत्तराणि ॥ 12-238-111 एतद्धि प्रभवस्थानं इति झ. ट. पाठः । दधाति भवति स्थानं भूतानां समयो मतं । इति झ. पाठः ॥ 12-238-112 सर्गः सृष्टिः । कालो दर्शादिः । क्रियां यज्ञश्राद्धादिः । वेदास्तत्प्रकाशकाः । कर्ता तदनुष्ठाता । कार्यं देहादिपरिस्पन्दः । क्रियाफलं स्वर्गः ॥