अध्यायः 254

भीष्मेण युधिष्ठिरंप्रति ज्ञानादिस्ताधनप्रतिपादकव्यासवाक्यनुवादः ॥ 1 ॥

व्यास उवाच ।
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना ॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ॥
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनो गतिः ।
यदा विकुरुते भाव तदा भवति सा मनः ॥
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत् ।
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥
पश्यती भवते दृष्टी रसती रसनं भवेत् ।
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥
इन्द्रियाणीति तान्याहुस्तेष्वदृश्योऽधितिष्ठति ।
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ।
न सुखेन न दुःखेन कदाचिदिह युज्यते ॥
सेयं भावात्मिका भावांस्त्रीनेताननुवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥
यदा प्रार्थयते किंचित्तदा भवति सा मनः । अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत ।
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः ॥
सर्वाण्येवानुपूर्व्येण यद्यदाऽनुविधीयते । अविभागगता बुद्धिर्भावे मनसि वर्तते । 12-254-10c` प्रवर्तमानं तु रजः सत्वमप्यनुवर्तते ॥'
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु ।
अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव ॥
प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥
एवं स्वभावमेवेदमिति विद्वान्न मुह्यति ।
अशोचन्नप्रहृष्यन्हि नित्यं विगतमत्सरः ॥
न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः ॥
तेषां तु मनसा रश्मीन्यदा सम्यङ्क्तियच्छति ।
तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽऽकृतिः ॥
सर्वेषामेव भूतानां मनस्युपरते यथा ।
प्रकाशं भवते सर्वं तथेदमुपधार्यताम् ॥
यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
असज्जमानः सर्वेषु कथंचन न लिप्यते ॥
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽऽत्मनि ।
सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः ॥
सत्वमात्मा प्रसरति गुणान्वाऽपि कदाचन ।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥
परिद्रष्टा गुणानां च परिस्रष्टा यथातथम् ।
क्षेतक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ॥
सृजतेऽत्र गुणानेक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ॥
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तौ तथैव तौ ।
मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सह ॥
इषीका वा यथा मुञ्जे पृथक्च सह चैव च ।
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 254 ॥