अध्यायः 261
भीष्मेण युधिष्ठिरंप्रति पृथिव्यादिभूदगुणप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वँणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥
12-261-2 धर्मवत्सल इति ड. पाठः ॥ 12-261-4 जिह्वा रसनेन्द्रियम् । विस्यन्दनं प्रस्रवणम् । भौमानां तण्डुलादीनां श्रपणं पाचनम् । विष्यन्दनं चैव भूमावास्रवणं तथेति थ. पाठः । विष्यन्दनं भूमेर्देहेष्वाश्रयणं तथेति ध. पाठः ॥ 12-261-5 ज्योतिर्ज्वलनकर्म । लघुः शीघ्रगामित्वम् । दशमश्चोर्ध्वभागितेति थ.ध. पाठः ॥ 12-261-6 अनियमस्पर्शोऽनुष्णाशीतस्पर्शः । वादस्थानं वागिन्द्रियगोलकानि । स्वतन्त्रता गमनादौ । मोक्षो मूत्रादेः । कर्म उत्क्षेपणादि । चेष्टा श्वासप्रश्वासादिः । भवो जन्ममरणे । वायोस्तिर्यग्गतिः स्पर्शे इति ड. थ. पाठः । चलं शैघ्र्यं च गमनं चेष्टा कर्मात्मता तथा इति ड. थ. पाठः ॥ 12-261-7 अनाश्रयमाश्रयत्वाभावः । अनालम्बनमाश्रयान्तरशून्यत्वम् । अव्यक्तं रूपस्पर्शशून्यत्वात् । अविकारिता द्रव्यान्तरानारम्भकत्वम् ॥ 12-261-8 पञ्चभूतात्मभाविताः पञ्चानां भूतानामात्मा प्रातिस्विकं स्वरूपं तत्र लक्षिताः ॥ 12-261-9 व्यक्तिः स्मरणम् । विसर्गो विपरीतः सर्गो भ्रान्तिः । कल्पना मनोरथवृत्तिः । क्षमा प्रसिद्ध । सत् वैराग्यादि । असत् रागद्वेषादि । आशुता अस्तिरत्वम् ॥ 12-261-10 इष्टानिष्टानां वृत्तिविशेषाणां विपत्तिर्नाशो निद्रारूपा वृत्तिरित्यर्थः । व्यवसाय उत्साहः । समाधिता चित्तस्थैर्यं निरोध इत्यर्थः । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः ॥