अध्यायः 269

तुलाधारेण जाजलये धर्मरहस्योपदेशः ॥ 1 ॥

जाजलिरुवाच ।
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया ।
स्वर्गद्वारं च वत्तिं च भूतानामवरोत्स्यते ॥
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जिवसि ।
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ॥
ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि ।
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम् ॥
तुलाधार उवाच ।
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः ।
न यज्ञं च विनिन्दामि यज्ञवित्तु सुदुर्लभः ॥
नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः ।
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमनुष्ठिताः ॥
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम् ।
वेदवादानभिज्ञानां सत्याभासमिवानृतम् ॥
इदं देयमिदं देयमिति नान्यच्चिकीर्षति ।
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ॥
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः । नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा ।
पूजा स्याद्देवतानां हि यथाशास्त्रनिदर्शनम् ॥
इष्टापूर्तादसाधूनां विदुषां जायते प्रजा ।
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः ॥
यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः ।
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ॥
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
तस्मात्सुनिष्ठिताः पूर्वे सर्वान्कामांश्च लेभिरे ।
अकृष्टपच्या पृथिवी आशीर्भिर्वीररुधोऽभवन् ॥
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन ।
शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन ॥
जानन्तः सर्वथा साधु लुब्धा वित्तप्रयोजनाः ।
स स्म पापकृतां लोकान्गुच्छेदशुभकर्मणा ॥
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः ।
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ॥
कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम् ।
ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः ॥
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम् ।
सर्वभूतोपकारश्च फलभावे च संयमः ॥
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मवृत्तयः ।
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ॥
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः ।
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यपरानपि ॥
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम् ।
तृप्यन्ति तृप्यतो देवास्तृप्ताऽतृप्तस्य जाजले ॥
यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन ।
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया ॥
धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा ।
अस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते ॥
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः ।
अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम् ॥
यत्र गत्वा न शोचन्ति च च्यवन्ति व्यथन्ति च ।
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्विकाः ॥
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनाः ।
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ॥
वनस्पतीनोषधीश्च फलमूलानि ते विदुः ।
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः ॥
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः ।
परिनिष्ठितकर्माणाः प्रजानुग्रहकाम्यया ॥
तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान् । प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै ।
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ॥
प्रयुञ्जते येन यज्ञे सदा प्राज्ञा द्विजर्षभाः ।
तेन ते देवयानेन पथा यान्ति महामुने ॥
आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणाः ।
उभौ तौ देवयानेन गच्छतो जाजले यथा ॥
स्वयं चैषामनडुहो युञ्जन्ति च वहन्ति च ।
स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः ॥
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणाः ।
यस्तथा भावितात्मा स्यात्स गामालब्धुमर्हति ॥
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते न तादृशाः ।
श्रद्धया गां पुरस्कृत्य तदृतं प्रब्रवीमि ते ॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च । काम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले ।
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥
जाजलिरुवाच ।
[न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि ते वाणिज कष्टमेतत् ।
पूर्वेपूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति ॥
यस्मिन्नेवात्मतीर्थेन पशवः प्राप्नुयुर्मखम् ।] अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम् ।
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ॥
तुलाधार उवाच ।
उत यज्ञा उतायज्ञा मस्वं नार्हन्ति ते क्वचित् । आज्येन पयसा दध्ना सत्कृत्यामिक्षया त्वचा ।
बालैः शृङ्गेण पादेन संभरत्येव गौर्मखम् ॥
पत्नीव्रतेन विधिना प्रकरोति नियोजयन् ।
इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते । सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ।
जाजले तीर्थमात्मेव मा स्म देशातिथिर्भव ॥
एतानीदृशकान्धर्मानाचरन्निह जाजले ।
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान् ॥
भीष्म उवाच ।
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति ।
उपपत्त्याऽभिसंपन्नान्नित्यं सद्भिर्निषेवितान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥

12-269-3 नास्तिक्यं हिंसात्मकत्वेन यज्ञनिन्दा ॥ 12-269-9 विगुणा जायते प्रजेति झ. पाठः ॥ 12-269-25 यजन्ते चाविहिंसयेति झ. पाठः ॥ 12-269-38 अशक्तानां तु बालैर्गोपुच्छे पितृतर्पणादिना । शृङ्गेण गोशृङ्गेणाभिषेकादिना । पाद्देनेति पादरजसेत्यर्थः । एतेषां गोस्पर्शनादीनां च सद्यः पापनाशकत्वं परलोकप्रदत्वं च स्मृत्युक्तं दर्शितम् ॥ 12-269-41 ईदृशकानहिंस्रान् । कारणैरर्थित्वसमर्थत्वविद्वत्त्वतारतम्यैः ॥ 12-269-42 उपपत्त्या युत्तया ॥