अध्यायः 278
भीष्मेण युधिष्ठिरंप्रति हिंसाहेतुतया यज्ञस्याप्यप्राशस्त्यप्रतिपादकनारदवचनानुवादः ॥ 1 ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥ 278 ॥
12-278-3 कश्चित्स च यज्ञं समादध इति ट. थ. पाठः ॥ 12-278-4 श्यामाकमशनमदनीय । सूर्यपर्णी सुवर्चलेति शाकविशेषौ । त्रयमेतद्वन्यं यज्ञियद्रव्यम् । सूर्यपत्री सुवर्चलेति ट. थ. ध. पाठः ॥ 12-278-6 पुष्करमालिनी नामतः । सत्ये सत्यसंज्ञे भर्तरि नानुविधीयते हिंसा यज्ञमश्रेयस्त्वेन मन्यमाना अनुविधानमानुकूल्यं न करोति ॥ 12-278-7 तथापि शापाद्भीता सती भर्तुः स्वभावमनुरुध्यास्ते इत्यर्थः । मयूरपञ्छैः सन्निवेशविशेषेण गुम्फितैस्तस्या वस्त्रं वर्णितं विस्तारितम् ॥ 12-278-8 शुक्रस्य पुनराज्ञाभिः पर्णादो नाम धर्मविदिति झ. पाठः ॥ 12-278-9 सहचारिको यजमानस्य सत्यसंज्ञस्य प्रतिवेशी स मृगोऽभून्मृगो भूत्वा च सत्यं मुनिमव्रवीत् । दुष्कृतमिति । सतिसामर्थ्ये मन्त्राङ्गहीनं यज्ञं कुर्वतां दुष्कृतं भवतीत्यर्थः ॥ 12-278-10 ननु दरिद्रेण मयानुकल्पेनैव श्यामाकचरुणा पशुकार्यं क्रियत इत्याशङ्क्याह यदीति । होत्रे हूयतेऽस्मिन्निति व्युत्पत्त्या अग्नौ । मां पर्णादं मृगभूतम् ॥ 12-278-11 सावित्री सवितृमण्डलाधिष्ठात्री देवता प्रत्यक्षमेत्य संन्यमन्त्रयत् मदर्तेऽयं पशुरग्नौ होतव्य इत्युक्तवती । प्रत्युक्ता प्रत्याख्याता । तत्र हेतुः न हन्यामिति ॥ 12-278-12 रसातलं दिदृक्षुः प्रवृत्ता तिरोभूदित्यर्थः ॥ 12-278-13 सत्यं सत्यसंज्ञम् । अयाचत मामग्नौ प्रक्षिपेति प्रार्थितवान् । ततो हिंसायां दोषं पश्यता संदिष्ट आज्ञप्तः ॥ 12-278-16 हिंसायां कृतायामेव स्वर्गवासं प्राप्नोतीति समर्थयत् समर्थितवानिति संबन्धः ॥ 12-278-17 केनचिन्निमित्तेन मृगतां प्राप्तो धर्मस्तस्य निमित्तस्य निष्कृतिं प्रतीकारमाधत्त स्वात्मानं मोचितवान्नत्वसौ यज्ञस्य समीचीनो विधिहिसामयत्वात् ॥ । 12-278-18 अनुभावेन पशुं हत्वा स्वर्गं प्राप्स्यामीत्यभिप्रायेण । यज्ञिया यज्ञाय हिता ॥ 12-278-19 याजयत अडभाव आर्षः । याजितवान् । भार्यायाः पुष्करमालिन्याः हिंसामययज्ञमनिच्छन्त्याः ॥ 12-278-20 तथा तेन स्वर्गप्रदत्वेन रूपेण हितः । सत्यवादिनां ब्रह्मवादिनां त्वसौ नो धर्मः अहिंसा सकलो धर्म इति झ. पाठः ॥