अध्यायः 291
भीष्मेण युधिष्ठिरं प्रत्यध्यात्मकथनम् ॥ 1 ॥
* युधिष्ठिर उवाच । 
					अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते ।
						यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह ॥
						भीष्म उवाच । 
					सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि ।
						तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु ॥
					पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
						महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥
					स तेषां गुणसंघातः शरीरं भरतर्षभ ।
						सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च ॥
					ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः ।
						महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा ॥
					प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा ।
						तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम् ॥
					आकाशात्खलु यो घोषः संघातस्तु महीगुणः ।
						वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते ॥
					इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
						प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः ॥
					महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
						विषयान्कल्पयामास यस्मिन्यदनुपश्यति ॥
					शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम् ।
						रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः ॥
					रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरूच्यते ।
						घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः ॥
					प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः ।
						इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः ॥
					सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत ।
						मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत् ॥
					यदूर्ध्वपादतलयोरवाड्यूर्ध्नश्च पश्यसि ।
						एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे ॥
					इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
						सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः ॥
					इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः ।
						तमः सत्वं रजस्तैव तेऽपि भावास्तदाश्रयाः ॥
					चक्षुरालोचनायैव संशयं कुरुते मनः ।
						बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥
					तमः सत्वं रजश्चेति कालः कर्म च भारत ।
							गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च ।
						
						मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥
						
					येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते ।
						जिघ्रती भवति घ्राणं रसती रसना रसान् ॥
					स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् ।
						यदा प्रार्थयते किंचित्तदा भवति सा मनः ॥
					अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा ।
						इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति ॥
					पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते ।
						कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ॥
					न सुखेन न दुःखेन कदाचिदपि वर्तते ।
						सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते ॥
					सरितां सागरो भर्ता यथा वेलामिवोर्मिमान् ।
						इति भावगता बुद्धिर्भावे मनसि वर्तते ॥
					प्रवर्तमानं तु रजस्तद्भावेनानुर्तते ।
						प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥
					कथंचिदुपपद्यन्ते पुरुषे सात्विका गुणाः ।
						पिरदाहस्तथा शोकः संतापोऽपूर्तिरक्षमा ॥
					लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ।
						अविद्या रागमोहौ च प्रमादः स्तब्धता भयम् ॥
					असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता ।
						कथंचिदुपवर्तन्ते विविधास्तामसा गुणाः ॥
					तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
						वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥
					अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।
						प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत् ॥
					अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
						अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥
					इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह ।
						एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ॥
					सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ।
						सृजतेऽत्र गुणानेक एको न सृजते गुणान् ॥
					पृथग्भूतौ प्रकृत्या तु संप्रयुक्तौ च सर्वदा ।
						यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तो भवेत्तथा ॥
					न गुणा विदुरात्मानं स गुणान्वेद सर्वतः ।
						परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा ॥
					आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना ।
						सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन ॥
					सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति ।
						संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥
					इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा ।
						निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत् ॥
					एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः ।
						अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः ॥
					स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान् ।
						ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥
					प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
						एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥
					इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
						विमुच्य सुखमासीत विशोकश्छिन्नसंशयः ॥
					ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः ।
						यथा गाधमविद्वांसो बुद्धियोगमयं तथा ॥
					नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः ।
						अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः ॥
					न भवति विदुषां महद्भयं
							यदविदुषां सुमहद्भयं भवेत् ।
						
						न हि गतिरधिकाऽस्ति कस्यचि
							त्सकृदुपदर्शयतीह तुल्यताम् ॥
						
					यत्करोति बहुदोषमेकत
							स्तच्च दूषयति यत्पुरा कृतम् ।
						
						नाप्रियं तदुभयं करोत्यसौ
							यच्च दूषयति यत्करोति च ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकनवत्यधिकद्विशततमोऽध्यायः ॥ 291 ॥
* 192 तमाध्यायतया पूर्वं विद्यमान एवायमध्यायः ख. ध. झ. पुस्तकेषु क्वचित्क्वचित्पाठभेदेन पुनरपि दृश्यते न दृश्यते च दाक्षिणात्यबहुकोशेषु ।
