अध्यायः 304
भीष्मेण युधिष्ठिरंप्रति
श्रेयःसाधनकलापप्रतिपादकपराशरगीतानुवादसमापनम् ॥ 1 ॥
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः ।
पराशरं महात्मानं धर्मे परमनिश्चयम् ॥
जनक उवाच ।
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति ।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामते ॥
पराशर उवाच ।
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा ।
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ॥
छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते ।
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते ॥
यो ददाति सहस्राणि गवामश्वशतानि च ।
अभयं सर्वभूतेभ्यः सदा तमभिवर्तते ॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् ।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥
नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत् ।
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत् ॥
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति ।
कर्ता खलु यथाकालं ततः समभिपद्यते ॥
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ।
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते ।
शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद्भयम् ॥
वीतरागो जितक्रोधः सम्यग्भवति यः सदा ।
विषये वर्तमानोऽपि न स पापेन युज्यते ॥
मर्यादायां वर्तमानोऽपि नावसीदति ।
पुष्टस्रोत इवासक्तः स्फीतो भवति संचयः ॥
यथा भानुगतं तेजो मणिः शुद्धः समाधिना ।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥
यथा तिलानामिह पुण्यसंश्रया
त्पृथक्पृथग्याति गुणोऽतिसाम्यताम् ।
तथा नराणां भुवि भावितात्मनां
यथाश्रयं सत्वगुणः प्रवर्तते ॥
जहाति दारान्विविधाश्च संपदः
पदं च यानं विविधाश्च सत्क्रियाः ।
त्रिविष्टपे जातमतिर्यदा नर
स्तदाऽस्य बुद्धिर्विषयेषु भिद्यते ॥
प्रसक्तबुद्धिर्विषयेषु यो नरो
न बुध्यते ह्यात्महितं कथंचन ।
स सर्वभावानुगतेन चेतसा
नृपाऽऽमिषेणेव झषो विकृष्यते ॥
संघातवन्मर्त्यलोकः परस्परमपाश्रितः ।
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥
न धर्मकालः पुरुषस्य निश्चितो
न चापि मृत्युः पुरुषं प्रतीक्षते ।
सदा हि धर्मस्य क्रियैव शोभना
तदा नरो मृत्युमुखान्निवर्तते ॥
यथाऽन्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति ।
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् ।
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ॥
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ।
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः ।
परार्थं विस्तराः सर्वे त्यागमांत्महितं विदुः ॥
यथा मृणालानुगतमाशु मुञ्चति कर्दमम् ।
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते ॥
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति ।
युक्तो यदा स भवति तदा तं पश्यते परम् ॥
परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते ।
इन्द्रियार्थेषु सक्तः स स्वकार्यात्परिहीयते ॥
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् ।
प्राप्नोति सुकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥
मृन्मये भाजने पक्वे यथा वै नश्यति द्रवः ।
तथा शरीरं तपसा तप्तं विषयमश्नुते ॥
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् ।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥
नीहारेण हि संवीतः शिश्नोदरपरायणः ।
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् ।
तथा मर्त्यार्णवाज्जन्तोः कर्मविज्ञानतो गतिः ॥
अहोरात्रमये लोके जरारूपेण संचरन् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते ।
नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम् ॥
सयानं यान्तमासीनं प्रवृत्तं विषयेषु च ।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति ।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥
यथा भावावसन्ना हि नौर्महाम्भसि तन्तुना ।
यथा मनोभियोगाद्वै शरीरं प्रचिकीर्षति ॥
यथा समुद्रमभितः संश्रिताः सरितोऽपराः ।
तथाऽन्याप्रकृतिर्योगादभिसंश्रियते सदा ॥
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः ।
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ॥
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः ।
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥
विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः ।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥
संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुञ्जते ॥
न माता न पिता किंचित्कस्यचित्प्रतिपद्यते ।
दानपथ्यौदनो जन्तु स्वकर्मफलमश्नुते ॥
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा ।
अष्टापदपदस्थाने लाक्षामुद्रेव लक्ष्यते ॥
सर्वाणि कर्माणि पुराकृतानि
शुभाशुभान्यात्मनो यान्ति जन्तोः ।
उपस्थितं कर्मफलं विदित्वा
बुद्धिं तथा चोदयतेऽन्तरात्मा ॥
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति ।
न तस्य कश्चिदारम्भः कदाचिदवसीदति ॥
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् ।
न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः ॥
आस्तिक्यव्यवसायाभ्यामुपायान्वितया धिया ।
य आरभत्यनिन्द्यात्मा न सोऽर्थात्परिसीदति ॥
सर्वःस्वानि शुभाशुभानि नियतं कर्माणि जन्तुःस्वयं
गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् ।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिना
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत्
स्वरूपतामात्मकृतं च विस्तरं
कुलान्वयं द्रव्यसमृद्धिसंचयम् ।
नरो हि सर्वो भलते यथाकृतं
शुभाशुभेनात्मकृतेन कर्मणा ॥
भीष्म उवाच ।
इत्युक्तो जनको राजन्याथातथ्यं मनीषिणा ।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरधिकत्रिशततमोऽध्यायः ॥ 304 ॥
12-304-2 श्रेयः श्रेयः साधनम् । क्व गत्वा न निवर्तन्त इति ड.
थ. पाठः ॥ 12-304-3 ज्ञानं चैव परा गतिरिति ड. थ. पाठः । न प्रणश्येत्संसिद्धो न
निवर्तते इति ड. थ. पाठः ॥ 12-304-5 स दानमतिवर्तते इति ध. पाठः ॥ 12-304-11
यथा नद्यां बद्धः सेतुर्नैव सीदति स्रोतःपुष्टिं करोति एवमसक्तो धर्म एव
सेतुर्यस्य सः । मर्यादायां बद्धो नैव सीदति । संचयस्तपावृद्धिश्च स्फीता
भवतीत्यर्थः ॥ 12-304-13 यथानिलानामिह पुष्पसंचयादिति ध. पाठः ॥ 12-304-14
जहाति राजन्विहितेन संपदा सदश्वयानं विविधाश्च शय्याः इति ध. पाठः ॥ 12-304-15
आमिषेण बडिशमर्भितेन । झषो मत्स्यः । न विन्दते ह्यात्मपदं कदाचनेति ड. थ. पाठः ॥ 12-304-16 संघातवद्देहेन्द्रियादिसमुदायवत् । मर्त्यलोकः
स्त्रीपुत्रपश्वादिसमुदायः । अपाश्रित उपकारकः ॥ 12-304-19 जन्मनि
जन्मनिमित्तम् ॥ 12-304-20 विस्तराः वैतानिकान्यग्रिहोत्रादीनि ।
संक्षेपास्त्यागादयः ॥ 12-304-23 स्वकार्यं यो निवर्तते इति थ. ध. पाठः ॥ 12-304-25 मृण्मये भाजने बह्नौ यथा वै शुष्यते द्रवमिति ड. थ. पाठः ॥ 12-304-41
वान्ति फलं दातुमिति शेषः ॥ 12-304-42 व्यपसायमुद्योगम् ॥ 12-304-43 अद्वैधमनसं
एकाग्रचित्तम् ॥ 12-304-45 गर्भात् गर्भप्रवेशमारभ्य । यत् यस्मात्तदुभयं
शुभाशुभम् । अपरिहारवान््परिहर्तुमशक्यः । कालेन प्राप्तेन विच्छेदिना जीवननाशकेन
सहायेन सृत्युः कर्मान्तिकं दिष्टान्तं विनाशाख्यं प्रापयेत् । दारोः काष्ठस्य
चूर्णं अश्मसारविहितं ककचकृतम् । समा सीतोष्णसाम्यवती गतिर्यस्य स समगतिर्वायुः ।
दारुचूर्णमिव मृत्युर्नरं कालेनान्तं नयतीत्यर्थः । कर्मान्तरं प्रापयेदिति ध.
पाठः ॥ 12-304-46 स्वरूपतां स्वस्य रूपं हिरण्यं पशवो विवाहा इति श्रुतं रूपमिव
रूपं यस्य स्वकुलानुसारि विवाहादिकं तदेव तत्ता ताम् । आत्मकृतं विस्तरं
पुत्रसंतत्यादिपौष्कल्यम् । कुलान्वयं सत्कुले जन्म । यथाकृतं कृतमनतिक्रम्य
सर्वं प्राक्कर्मवशादेव लभ्यते ॥