अध्यायः 311
भीष्मेण युधिष्ठिरंप्रति
साङ्ख्यप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥
मानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम ।
पश्यामि वाभिसंदिग्धमेतयोर्वै निदर्शनम् ॥
तथाऽबुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥
अक्षरक्षरयोर्युक्तं त्वया यदपि कारणम् ।
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥
तदेत्तच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।
प्रबुद्धमप्रबुद्धं च बुध्यमानं च तत्त्वतः ॥
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।
साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ॥
वसिष्ठ उवाच ।
हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि ।
योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥
योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ॥
एकाग्रता च मनसः प्राणायामस्तथैव च ।
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ॥
मूत्रोत्सर्गपुरीषे च भोजने च नराधिप ।
द्विकालं नाभियुज्जीत शेषं युञ्जीत तत्परः ॥
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
दशद्वादशभिर्वापि चतुर्विशात्परं ततः ॥
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ ।
तिष्ठन्तमजरं यं तु यत्तदुक्तं मनीषिभिः ॥
तैश्चात्मा सततं योज्य इत्येवमनुशुश्रुम् ।
द्रुतं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥
विमुक्तः सर्वसङ्गेभ्यो लध्वाहारो जितेन्द्रियः ॥
पूर्वरात्रेऽपररात्रे च धारयेत मनोऽऽत्मनि ॥
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥
स्थाणुवच्चाप्यकम्पः स्याद्दारुवच्चापि निश्चलः ।
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ॥
न शृणोति न चाघ्राति न रस्यति न पश्यति ।
न च स्पर्शं विजानाति न संकल्पयते मनः ॥
न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत् ।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥
निर्वाते हि यथा दीप्यन्दीपस्तद्वत्प्रकाशते ।
निर्लिङ्गो विचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ॥
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते ।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥
विधूम इव सप्तार्चिरादित्य इव रश्मिमान् ।
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि ॥
संपश्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् ।
तत्तत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् ।
महतस्तमसस्तात पारे तिष्ठन्न तामसः ॥
स च मानस इत्युक्तस्तत्वज्ञैर्वेदपारगैः ।
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञकः ॥
योगमेतत्तु योगानां मन्ये योगस्य लक्षणम् ।
एवं पश्यं प्रपश्यन्ति आत्मस्थमजरं परम् ॥
योगदर्शनमेतावदुक्तं ते तत्वतो मया ।
साङ्ख्याज्ञानं प्रवक्ष्यामि परिसंख्यानदर्शनम् ॥
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः ।
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥
अहंकारस्तु महतस्तृतीय इति नः श्रुतम् ।
पञ्चभूतान्यहंकारादाहुः साङ्ख्यनिदर्शिनः ॥
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश ।
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ॥
एतावदेव तत्त्वानां साङ्ख्या आहुर्मनीषिणः ।
साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ॥
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते ।
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ॥
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः ।
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥
सर्वप्रलय एतावान्प्रकृतेर्नृपसत्तम ।
एकत्वं प्रलये चास्य बहुत्वं च यदाऽसृजत् ॥
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ।
अधिष्ठाता य इत्युक्तस्तस्याप्येतन्निदर्शनम् ॥
एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् ।
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥
बहुधाऽऽत्मानमकरोत्प्रकृतिः प्रसावत्मिका ।
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ॥
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते ।
अव्यक्तके पुरे शेते पुरुषश्चेति कथ्यते ॥
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ॥
अन्यदेव वचो ज्ञानं स्यादन्यज्ज्ञेयमुच्यते ।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥
अव्यक्तं क्षेत्रमित्युक्तं यथासत्वं तथेश्वरम् ।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् ।
साङ्ख्याः प्रकुर्वते चैव प्रकृतिं च प्रचक्षते ॥
तत्त्वानि च चतुर्विशत्परिसंख्याय तत्त्वतः ।
साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥
पञ्चविंशो प्रबुद्धात्मा बुध्यमान इति स्मृतः ।
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ॥
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥
सम्यङ्गिदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणतत्त्वाद्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ॥
न त्वेवं वर्तमानानामवृत्तिर्विद्यते पुनः ।
विद्यतेऽक्षरभावत्वे स परात्परमव्ययम् ॥
पश्येरन्नेकमतयो न सम्पक्तेषु दर्शनम् ।
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम् ॥
सर्वमेतद्विजानन्तो नासर्वस्य प्रबोधनात् ।
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ॥
सर्वमवर्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।
य एनमभिजानन्ति न भयं तेषु विद्यते ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकादशाधिकत्रिशततमोऽध्यायः ॥ 311 ॥
12-311-3 अक्षरक्षरयोरुक्तमिति ट. पाठः । अक्षरक्षरयोगेन
त्वयेति थ. पाठः ॥ 12-311-7 तत्रापि विविधमिति ड. थ. पाठः ॥ 12-311-9 विकारं
नाभियुज्जीतेति ड. थ. पाठः । त्रिकालं नाभियुज्जीतेति झ. पाठः ॥ 12-311-10
मनसात्मनीति ट. पाठः ॥ 12-311-12 द्रुतं ह्यदीनेति ध. पाठः ॥ 12-311-19
दृष्टेति कथ्यत इति ट. ड. थ. पाठः ॥ 12-311-21 यं पश्यन्ति महात्मान इति ट. ध.
पाठः ॥ 12-311-41 तथा तत्वं तथेश्वरमिति ट. ड. थ. पाठः ॥ 12-311-47 विद्यते
क्षरभावत्वं यो नैवं वेत्ति पार्थिव इति ट. ड. थ. पाठः ॥ 12-311-49 न सर्वस्य
प्रबोध नादिति ध. पाठः ॥