अध्यायः 322
याज्ञवल्क्येन जनकंप्रति प्राणिनामुत्क्रमणस्थानविशेषप्रयोज्यफलविशेषकथनम् ॥ 1 ॥ तथा प्राणिनां मरणसूचक दुःशकुनकथनम् ॥ 2 ॥
याज्ञवल्क्य उवाच । 
					तथैवोत्क्रमतां स्थानं शृणुष्वावहितो नृप ।
						पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ॥
					जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् ।
						जानुभ्यां च महाभागान्साध्यान्देवानवाप्नुयात् ॥
					पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् ।
						पृथिवीं जघनेनाथ ऊरुभ्यां च प्रजापतिम् ॥
					पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च ।
						बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥
					ग्रीवया तु मुनिश्रेष्ठं नरमाप्नोत्यनुत्तमम् ।
						विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥
					घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च ।
						भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितृनथ ॥
					ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा ।
						एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ॥
					अरिगनि प्रवक्ष्यामि विहितानि मनीषिभिः ।
						संवत्सराद्धिमोक्षस्तु संभवेत शरीरिणः ॥
					योऽरुन्धतीं न पश्येत दृष्टपूर्वा कदाचन ।
						तथैव ध्रुवमतित्याहुः पूर्णेन्दुं दीपमेव च ॥
					खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ।
						परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिवः ॥
					आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ।
						अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा ॥
					प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ।
						दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते ॥
					कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ।
						शीर्णनाभिं यथा चक्रं छिद्रं सोमं प्रपश्यति ॥
					तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ।
							शवगन्धमुपाघ्राति सप्तरात्रेण मृत्युभाक् ।
						
					कर्णनासावनमनं दन्तदृष्टिविरागितां ॥
						कर्णनासावनमनं दन्तदृष्टिविरागिता ॥
					संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ।
						अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप ॥
					मूर्ध्रतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ।
						एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् ॥
					निशि चाहनि चात्मानं योजयेत्परमात्मनि ।
						प्रतीक्षमाणस्तत्कालं यः कालः प्रकृतो भवेत् ॥
					अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ।
						सर्वगन्धान्रसांश्चैव धारयीत समाहितः ॥
					`तथा मृत्युमुपादाय तत्परेणान्दरात्मना ।'
							स साङ्ख्यधारणं चैव विदित्वा मनुजर्षभ ।
						
						जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥
						
					गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् ।
						शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥ 322 ॥
12-322-8 संवत्सरवियोगस्य संभवे नु इति ध. पाठः ॥ 12-322-10 खण्डभागं दक्षिणत इति थ. पाठः ॥ 12-322-13 छिद्रं छिद्रवन्तम् ॥ 12-322-14 सुरभिद्रव्ये शवगन्धग्रह इत्यर्थः ॥