अध्यायः 327
आसुरिंप्रति कपिलेन व्यक्ताव्यक्ततावनिरूपणम् ॥ 1 ॥
`कपिल उवाच ।
यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः ॥
अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं व्यक्तमुपलक्ष्यते
यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते
तद्वद्व्यक्तगुणैरुपलक्ष्यते ॥
प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च
शतश्चानुग्राह्यत्वात्साऽकृतिः ॥
व्यक्त उत्तमो रजः सत्वं तत्प्रधानं तत्वमक्षमजरमित्येवमादीन्यव्यक्तनामानि
भवन्ति ।
एवमाह ॥
अव्यक्तं बीजधर्माणं महाग्राहमचेतनम् ।
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः ॥
तदेतदव्यक्तम् । प्रस्नवा घारणादानस्वभावमापोधारणे प्रजनने दाने
गुणानां प्रकृतिः सपराप्रमत्तं तदेतदस्मिन्कार्यकरणे ॥
यदप्युक्तं किमव्यक्तमिति तत्र ब्रूमः । व्यक्तं नामाऽऽसुरे
यत्पूर्वमव्यक्तादुत्पन्नतत्वमीश्वरमप्रतिबुद्धगुणस्यगेतत्पुरुषसंज्ञिकं
महदित्युक्तं बुद्धिरिति च । सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः
समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याये नामानि वदन्त्येवमाह ॥
मम व्यक्तादुपात्तासिद्धिरागता संयमश्च महद्यतः ।
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा ॥
यदेषोर्ध्यस्रोताभिर्महत्वादप्रतिबुद्धत्वाच्चात्मनः
यकरोत्यहंकारमव्यक्ताव्यक्ततरम् ॥
यदप्युक्तं किमव्यक्ततरमिति अत्र ब्रूमः ॥
व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसंज्ञकम् ।
तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैक उत्पत्तिः ॥
विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो मदो दर्पो
ममकारश्चैतान्यहंकारपर्यायनामानि भवन्त्येवमाह ॥
अहं कर्तेत्यहंकर्ता ससृजे विश्वमीश्वरः ।
तृतीयमेनं पुरुषमभिमानगुणं विदुः ॥
अहंकाराद्युगपदुन्मादयामास पञ्च महाभूतानि
शब्दस्पर्शरूपरसगन्धलक्षणानि । तान्येव बुद्ध्यन्त इत्येवमाह ॥
भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे ।
अभिमानमतिक्रम्य महान्तं प्रतितिष्ठते ॥
भूतेषु चाप्यहंकारमश्वरूपस्तथोच्यते ।
पुनर्विषयहेत्वर्थे स मनस्संज्ञकः स्मृतः ॥
विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति । श्रोत्रं घ्राणं
चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च
बुद्धीन्द्रियाणि वदन्त्येवमाहुराचार्याः ॥
वाग्घस्तौ पादपायुरानन्दश्चेति पञ्चेन्द्रियाणि
विशेषमादित्योश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि
वदन्त्येवमाह ॥
अहंकारात्तथा भूतान्युत्पाद्य महदात्मनोः ।
वैखरत्वं ततो राज्ञा वैखर्यो विषयात्मकः ॥
विकारस्थमहंकारमवबुध्याथ मानवः ।
महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम् ॥' ॥
इति श्रीमन्महाभारते शान्तिपरर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकत्रिशततमोऽध्यायः ॥ 327 ॥