अध्यायः 329
भीष्मेण युधिष्ठिरंप्रति व्यासकृतशुकानुशासनानुवादः ॥ 1 ॥
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
भीष्म उवाच ।
प्राकृतेनैव वृत्तेन चरन्तमकुतोभयम् ।
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥
व्यास उवाच ।
धर्मं पुत्र निपेवस्व सुतीक्ष्णौ च हिमातपौ ।
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥
सत्यमार्जवमक्रोधमनसूयां दमं तपः ।
अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् ।
देवतातिथिशेषेण यात्रां प्राणस्य संलिह ॥
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते ।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु ।
अन्तरं लिप्यमानेषु बालस्त्वं नावबुध्यसे ॥
अहःसु गण्यमानेषु क्षीयमाणे तथाऽऽयुषि ।
जीविते लिख्यमाने च किमुत्थाय न धावसि ॥
ऐहलौकिकनीहन्ते मांसशोणितवर्धनम् ।
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते ॥
ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः ।
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥
उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम् ।
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥
आद्यकालिकया बुद्ध्या दूरेश्च इति निर्भयाः ।
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः ॥
धर्मं निःश्रेणिमास्थाय किंचित्किंचित्समारुह ।
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥
नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम् ।
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धृतम् ॥
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥
मृत्युनाऽभ्याहते लोके जरया परिपीडिते ।
अमोघासु पतन्तीषु धर्मयानेन संतर ॥
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा ।
निर्वृत्तिं लभते कस्मादकस्मान्मृत्युनाऽशितः ॥
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।
वृकीवोरणमासाद्य मृत्युरादायं गच्छति ॥
क्रमशः संचितशिखो धर्मबुद्धिमयो महान् ।
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥
संपतन्देहजालानि कदाचिदिह मानुषे ।
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥
ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते ।
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ॥
ब्राह्मण्यं बहुभिरवाप्यते तपोभि
स्तल्लब्ध्वा न रतिपरेण हेलितव्यम् ।
स्वाध्याये तपसि दमे च नित्ययुक्तः
मोक्षार्थी कुशलपरः सदा यतस्व ॥
अव्यक्तप्रकृतिरयं कलाशरीरः
सूक्ष्मात्मा क्षणत्रुटिका निमेषरोमा ।
यानेतत्समबलशुक्लकृष्णनेत्रो
मासाङ्गो द्रवति वयोहयो नराणाम् ॥
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं
गच्छन्तं सततमिहान्ववेक्षमाणम् ।
यक्षुस्ते यदि न परप्रणेतृनेयं
धर्मे ते रमतु मनः परं निशाम्य ॥
येऽमी तु प्रचलितधर्मकामवृत्ताः
क्रोशन्तः सततमनिष्टसंप्रयोगात् ।
क्लिश्यन्तः परिगतवेदनाशरीरा
बह्वीभिः सुभृशमधर्मवागुराभिः ॥
राजा सदा धर्मपरः शुभाशुभस्य गोप्ता
समीक्ष्य सुकृतिनां दधाति लोकान् ।
बहुविधमपि चरति प्रविशति
सुखमनुपगतं निरवद्यम् ॥
श्वानो भीषणकाया अयोमुखानि वयांसि
बलगृध्रकुररपक्षिणां च संघातम् ।
नरकदने रुधिरपा गुरुवचन
नुदमुपरतं विशन्त्यसन्तः ॥
मर्यादा नियताः स्वयम्भुवा य इहेमाः
प्रभिनत्ति दश गुणा मनोऽनुगत्वात् ।
निवसति भृशमसुखं पितृविषय
विपिनमवगाह्य स पापः ॥
यो लुब्ध सुभृशं प्रियानृतश्च मनुष्यः
सततनिकृतिवञ्चनाभिरतिः स्यात् ।
उपनिधिभिरसुखकृत्स परमनिरयगो
भृशमसुखमनुभवति दुष्कृतकर्मा ॥
उष्णां वैतरणीं महानदीमव
गाढोऽसिपत्रवनभिन्नगात्रः ।
परशुवनशयोनिपतितो
वसति च महानिरये भृशार्तः ॥
महापादनि कत्थसे न चाप्यवेक्षसे परम् ।
चिरस्य मृत्युकारिकामनागतां न बुध्यसे ॥
प्रयस्यतां किमास्यते समुत्थितं महद्भयम् ।
अतिप्रमार्थि दारुणं सुखस्य संविधीयताम् ॥
पुरा मृतः प्रणीयसे यमस्य राजशासनात् ।
त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु ॥
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् ।
कियत्तवेह जीवितं यमे न चास्ति वारकः ॥
पुरा विवाति मारुतो यमस्य यः पुरःसरः ।
पुरैक एव नीयसे कुरुष्व सांपरायिकम् ॥
पुरा स एक एव ते प्रवाति मारुतोऽन्तकः ।
पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥
श्रुतिश्च सन्निरुध्यते पुरा तवेह पुत्रक ।
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥
शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते ।
स्मरन्पुराऽनुतप्यसे निधत्स्व केवलं निधिम् ॥
पुरा जरा कलेवरं विजर्झरीकरोति ते ।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ॥
पुरा शरीरमन्तको भिनत्ति रोगसायकैः ।
प्रसह्य जीवितक्षये तपो महत्समारभ ॥
पुरा वृका भयंकरा मनुष्यदेहगोचराः ।
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ॥
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै ।
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः ।
विचालयन्ति दर्शनाद्धटस्व पुत्र यत्परम् ॥
धनस्य यस्य राजतो भयं न चास्ति चोरतः ।
मृतं च यन्न मुञ्चति समार्जयस्व तद्धनम् ॥
न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।
यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते ॥
परत्र तेन जीव्यते तदेव पुत्र जीयताम् ।
धनं यदक्षरं ध्रुवं समार्जयस्व तत्स्वयम् ॥
न यावदेव पच्यते महाजनस्य यावकम् ।
अपक्व एव यावके पुरा प्रलीयते त्वरम् ॥
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः ।
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम् ॥
यदेव कर्म केवलं पुराकृतं शुभाशुभम् ।
तदेव पुत्र यौतकं भवत्यमुत्र गच्छतः ॥
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः ।
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः ॥
न पुत्र शान्तिरस्ति ते कृताकृतस्य कर्मणः ।
न साक्षिकोऽऽत्मना समो नृणामिहास्ति कश्चन ॥
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः ।
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः ॥
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः ।
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥
अहनिंशेषु सर्वतः स्पृशत्सु सर्वचारिषु ।
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥
अनेकपारिपान्थके विरूपरौद्रमक्षिके ।
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥
न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।
तथा कृतं स्वकर्मजं तदेव भुज्यते फलम् ॥
यथाऽप्सरोगणाः फलं सुखं महर्षिभिः सह ।
तथाऽऽप्नुवन्ति कर्मजं विमानकामगामिनः ॥
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः ।
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ॥
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः ।
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे ।
अबुद्धिमोहनं पुनः प्रभुस्तु तेन पावकः ॥
गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः ।
कुरष्व धर्मसंचयं वयो हि तेऽतिवर्तते ॥
पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम् ।
यथागृहीतमुत्थितस्त्वरस्व धर्मपालने ॥
यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि ।
तथा गतिं गमिष्यतः किमात्मना परेण वा ॥
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् ।
भयेषु सांपरायिकं निधत्स्व केवलं निधिम् ॥
सतूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् ।
न सन्ति यस्य वारकाः कुरष्व धर्मसंनिधिम् ॥
इदं निदर्शनं मया तवेह पुत्र संमतम् ।
स्वदर्शनानुपानतः प्रवर्णितं कुरुष्व तत् ॥
ददाति यः स्वकर्मणा धनानि यस्यकस्यचित् ।
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते ॥
शुभं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः ।
तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम् ॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिदन्ति दुष्कृतः ॥
किं ते धनेन किं बन्धुभिस्ते
किं ते पुत्रैः पुत्रक यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताश्च सर्वे ॥
श्वः कार्यमद्ये कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम् ॥
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः ।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥
नास्तिकान्निरनुक्रोशान्नरान्पापमते स्थितान् ।
वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः ॥
एवमभ्याहते लोके कालेनोपनिपीडिते ।
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः ।
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते ॥
न देहभेदे मरणं विजानतां
न च प्रणाशः स्वनुपालिते पथि ।
धर्मं हि यो बर्धयते स पण़्डितो
य एव धर्माच्च्यवते स दह्यते ॥
प्रयुक्तयोः कर्मपथि स्वकर्मणोः
फलं प्रयोक्ता लभते यथाविधि ।
निहीनकर्मा निरयं प्रपद्यते
त्रिविष्टपं गच्छति धर्मपारगः ॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।
तथाऽऽत्मानं समादध्याद्धश्यते न पुनर्यथा ॥
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी ।
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥
यस्य नोपहता बुद्धिर्निश्चये ह्यवलम्बते ।
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम् ॥
तपोवनेषु ये जातास्तत्रैव निधनं गताः ।
तेषामल्पतरो धर्मः कामभोगानजानताम् ॥
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् ।
न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम् ॥
मातापितृसहस्राणि पुत्रदारशतानि च ।
अनागतान्यतीतानि कस्य ते कस्य वा वयम् ॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं तन्न पश्यामि यो मम ॥
न तेषां भवता कार्यं न कार्यं तव तैरपि ।
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति ॥
इह लोके हि धनिना परोऽपि स्वजनायते ।
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति ॥
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।
ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥
पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा ।
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ॥
तदेतत्संप्रदृश्यैव कर्म भूमिं प्रपश्यतः ।
शुभान्याचरितव्यानि परलोकमभीप्सता ॥
मासर्तुसंज्ञापरिवर्तकेन
सूर्याग्निना रात्रिदिवेन्धनेन ।
स्वकर्मनिष्ठाफलसाक्षिकेण
भूतानि कालः पचति प्रसह्य ॥
धनेन किं यन्न ददाति नाश्नुते
बलेन किं येन रिपुं न बाधते ।
श्रुतेन किं येन न धर्ममाचरे
त्किमात्मना यो न जितेन्द्रियो वशी ॥
भीष्म उवाच ।
इदं द्वैपायनवचो हितमुक्तं निशम्य तु ।
शुको गतः परित्यज्य पितरं मोक्षदैशिकम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 329 ॥
12-329-2 स्वाध्यायमन्वशिक्षयत स्वयमिति ट. थ. ध. पाठः ॥ 12-329-5 हित्वा सङ्गमनार्जवमिति प्राणस्य लेलिहेति च. ध. पाठः । संलिह स्पृश ।
स्वाद्वस्वादुविवेकं मा कार्षीरित्यर्थः ॥ 12-329-6 आमपात्रोपमे इति ध. पाठः ।
स्वपिषि पुरुषार्थसाधने न प्रवर्तसे ॥ 12-329-7 शत्रुषु कामादिषु । अन्तरं
छिद्रम् ॥ 12-329-8 न धावसि देवं गुरुं वा शरणं न यासि । जीविते लिह्यमाने चेति
ध. पाठः । जीविते लुल्यमानेचेति ट. पाठः ॥ 12-329-10 अपथा अपथेन ।
बुद्धिमोहपरायणा इति ट. थ. पाठः ॥ 12-329-13 आद्यकालिकया
वर्तमानमात्रदर्शिन्या ॥ 12-329-15 कूलपातं महानदीपूरम् । रणरेणुमिवोत्थितमिति
ध. पाठः । रथरेणुमिवेति ध.पाठः । रथरेणुं यथा वामतः कुर्वन्ति वामभागे कुर्वन्ति
वर्जयन्तीत्यर्थ इति रत्नगर्भः । खररेणुमिति ट. थ. पाठः ॥ 12-329-17 अमोघासु
आयुर्हरणेन सफलासु रात्रिषु । धर्मपोतेन संचरेति ध. पाठः । जरया परिवारित इति ट.
थ. पाठः ॥ 12-329-18 मृत्युरन्वेति ते यदेति ट. थ. ध. पाठः । निवृत्तिं लम्भसे
यस्मात्तस्मात्त्वं मृत्युनाशित इति ध. पाठः ॥ 12-329-19 संचिन्वानकं
धनादिसंचयपरम् ॥ 12-329-20 अन्धकारे संसारे । दीपो ज्ञानम् ॥ 12-329-22 इह
क्लेशाय महते प्रेत्यानन्तसुखाय चेति ध. पाठः ॥ 12-329-24 शुक्लकृष्णौ पक्षौ ॥ 12-329-25 चक्षुर्ज्ञानं परप्रणेतृनेयम् । अन्धवत् यदि न भवसीत्यर्थः । परं
परलोकं आत्मानं वा ॥ 12-329-26 परिगतं प्राप्तं वेदनाशरीरं यमलोके यातनाशरीरं
यैस्ते तथाभूता भवन्तीति शेषः ॥ 12-329-28 श्नान इति नराणां कदनं यत्र
तस्मिन्नरके । रुधिरपाः कीटाः । गुरूणां मातृपि तृप्रभृतीनां वचनं नुदति
दूरीकरोति तं उपतरं मृतम् । श्वानोभीषिकयेति ध. पाठः ॥ 12-329-29 पितृविषये
यमलोके विपिनमसिपत्रवनं तदेवावगाह्य तत्रैव निवसति ॥ 12-329-30 निकृतिर्नीचकर्म
वञ्चनाचौर्यादि । उपनिधिभिश्छलेन । अपकीर्तिभिरशुभकृतः कृत्स्नं
परमनिरययातनाभृशमसुखमनुभवति दुष्कृतकर्मेति ट. पाठः ॥ 12-329-32 महापदानि
ब्रह्मादीनां स्थानानि दृष्ट्वा कत्थसे धन्योऽहमिति श्लाघसे परंतु ब्रह्म
नावेक्षसे । मृत्युकारिकां जराम् ॥ 12-329-33 प्रयास्यतां मोक्षमार्गेण
प्रस्थातव्यम् । सुखस्य प्रमाथि संविधीयतां प्रयत्यताम् ॥ 12-329-34 अन्तकाय
अयतिसुखाय । दारुणैः कृच्छ्रादितपोभिः ॥ 12-329-42 वृकाः कामादयः ॥ 12-329-43
हिरण्मयवृक्षदर्शनं मरणचिह्नम् ॥ 12-329-44 ते त्वाम् ॥ 12-329-45 तद्धनं
विद्याम् ॥ 12-329-46 यौतकं विवाहाप्तंधनं दायादाग्राह्यम् ॥ 12-329-48 यावके
घृतखण्डमिश्रे यवपिवष्टविकारे त्वरं त्वरायुक्तं यथा स्यात्तथा प्रलीयसे
म्रियसे । भोगान्भुक्त्वा मोक्षे यत्नं करिष्यामीति न मन्तव्यमिति भावः ॥ 12-329-55 यथेन्द्रियेषु सर्वतः श्रुतेष्विति ध. पाठः ॥ 12-329-58
तथाऽऽप्नुवन्ति कर्मतो वियुद्धिमोहनं पुनरिति ट. ध. पाठः ॥ 12-329-66 कुरुष्व
धर्मसंचयमिति ध. पाठः ॥ 12-329-72 नहि तद्वेद कस्याद्यमृत्युसेनाभिवीक्षते इति
ध. पाठः । को हि तद्वेद यस्याद्यमृत्युसेनाभिवीक्षत इति ट. थ. पाठः ॥ 12-329-79
सृज्यते न पुनर्यथेति ध. पाठः । म्रियते न पुनर्यथेति ट. पाठः ॥ 12-329-83 तदेव
बहुलं मतमिति ट. ध. पाठः ॥ 12-329-93 हितयुक्तमिति ध. पाठः । मोक्षदैशिकं
मोक्षोपदेष्टारम् ॥