अध्यायः 347
भीष्मेण युधिष्ठिरंप्रति नारदाय
श्वेतद्वीपस्थहर्युक्तस्वकृतसृष्टिप्रकारानुवादः ॥ 1 ॥
एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः ।
`भगवान्विश्वसृक्सिंहः सर्वमूर्तिमयः प्रभुः ।'
दर्शयामास मुनये रूपं तत्परमं हरिः ॥
किंचिच्चन्द्राद्विशुद्धात्मा किंचिच्चन्द्राद्विशेषवान् ।
कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः ॥
शुकपत्रनिभः किंचित्किंचित्स्फटिकसन्निभः ।
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥
प्रबालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित् ।
क्वचित्सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित् ॥
नीलवैर्दूर्यसदृश इन्द्रनीलनिभः क्वचित् ।
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ॥
एतान्बहुधान्वर्णान्रूपैर्बिभ्रत्सनातनः ।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् ॥
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् ।
ओंकारमुद्गिरन्वक्रात्सावित्रीं च तदन्वयाम् ॥
शेषेभ्यश्चैव वक्रेभ्यश्चतुर्वेदान्गिरन्बहून् ।
आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥
वेदिं कमण्डलुं दर्भान्मणिरूपांस्तथा कुशान् ।
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् ।
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः ।
वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम् ॥
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ॥
श्रीभगवानुवाच ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।
इमं देशमनुप्राप्ता मम दर्शनलालसाः ॥
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन ।
ऋते ह्यैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तम ॥
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज ।
तास्त्वं भजस्व सततं साधयस्व यथागतम् ॥
वृणीष्व च वरं प्रिय मत्तस्त्वं यदिहेच्छसि ।
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ॥
नारद उवाच ।
अद्य मे तपसो देव यमस्य नियमस्य च ।
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ॥
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः ।
भगवन्विश्वदृक् सिंहः सर्वमूर्तिर्महान्प्रभुः ॥
भीष्म उवाच ।
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् ।
उवाच वचनं भूयो गच्छ नारद माचिरम् ॥
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः ।
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ॥
सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन् ।
तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च ।
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥
सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै ।
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति ।
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः ।
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ॥
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः ।
स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥
पश्य देवस्य माहात्म्यं महिमानं च नारद ।
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ॥
सत्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते ।
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते ।
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणातिगः ॥
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥
खे वायुः प्रलयं याति मनस्याकाशमेव च ।
मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते ।
नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात् ॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते तमेकं पुरुषं वासुदेवं सनातनम् ।
सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
ते समेता महात्मानः शरीरमिति संज्ञितम् ॥
तदाविशति यो ब्रह्मन्न दृश्यो लघुविक्रमः ।
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ॥
न विना धातुसंघातं शरीरं भवति क्वचित् ।
न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत ॥
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः ।
तस्मात्सनत्कुमारत्वं योऽलभत्स्वेन कर्मणा ॥
यस्मिंश्च सर्वभूतानि प्रद्युम्नः परिपठ्यते ।
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च ॥
तस्मत्सर्वं संभवति जगत्स्थावरजङ्गमम् ।
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः ।
ज्ञेयः स एव राजेन्द्र जीवः संकर्षणः प्रभुः ॥
संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते ।
प्रद्युम्नाद्योऽनिरूद्धस्तु सोहंकारः स ईश्वरः ॥
मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम् ।
अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम ।
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥
निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः ।
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ॥
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ।
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ॥
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ।
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥
अहं हि जीवसंज्ञो वै मयि जीवः समाहितः ।
मैवं ते बुद्धिरत्राभूर्द्दृषो जीवो मयेति वै ॥
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः ।
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥
सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन् ।
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥
`अहं कर्ता च कार्यं च कारणं चापि नराद ।
न दृश्यश्चक्षुषा देवः स्पृश्यो न स्पर्शनेन च ।
आघ्रेयो नैव गन्धेन रसेन च विसर्जितः ॥
सत्वं रजस्तमश्चैव न गुणास्ते भवन्ति हि ।
स हि सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥'
हिरण्यगर्भो लोकादिश्चतुर्वक्रोऽनिरुक्तगः ।
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥
ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः ।
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् ॥
द्वादशैव तथाऽऽदित्यान्वामपार्श्वे समास्थितान् ।
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् ॥
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ।
सर्वान्प्रजापतीन्पश्य पश्य सप्तऋर्षीस्तथा ॥
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः ।
तपांसि नियमांश्चैव यमानपि पृथग्विधान् ॥
तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् ।
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनी ॥
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ।
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् ॥
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा ।
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम ॥
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते ॥
देवानां च पितृणां च पिता ह्येकोऽहमादितः ।
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे ॥
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम् ।
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम् ॥
ततस्तस्मै वरान्प्रीतो दत्तवानस्म्यनुत्तमान् ।
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च ॥
अहंकारकृतं चैव नामपर्यायवाचकम् ।
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन ॥
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ।
सुरासुरगणानां च ऋषीणां च तपोधन ॥
पितृणां च महाभाग सततं संशितव्रत ।
विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा ।
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे ।
`एवं रुद्राय मनवे इन्द्रायामिततेजसे ।'
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता ।
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।
कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः ॥
हिरण्यगर्भो भगवानेष च्छन्दसि संस्तुतः ।
सोहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ॥
एषोऽहं व्यक्तिमाश्रित्य तिष्ठामि दिवि शाश्वतः ।
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ॥
कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च ।
एकाकी विद्यया सार्धं विहरिष्ये जगत्पुनः ॥
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ।
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम् ॥
स हि संकर्षणः प्रोक्तः प्रद्युम्नः सोप्यजीजनत् ।
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः ॥
अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः ।
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ।
यथा सूर्यस्य गगनादुदयास्तमने इह ।
नष्टे पुनर्वलात्काल आनयत्यमितद्युते ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये
सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 347 ॥
12-347-1 स्तब्यैश्च नामभिरिति थ. पाठः । तं मुनिं
दर्शयामासनारदं विश्वरूपधृदिति झ. ध. पाठः ॥ 12-347-7 गायत्रीं च तदन्वयामिति
ध. पाठः ॥ 12-347-9 वेदिं कमण्डलुं शुभ्रान्मणीनुपानहौ कुशानिति झ. पाठः ॥ 12-347-13 ददृशिरे ददृशुः ॥ 12-347-19 मद्भक्ताः सूर्यवर्चस इति ध. पाठः ॥ 12-347-22 न गुणाः संभवन्ति हीति ध. पाठः ॥ 12-347-35 शरीरं चेन्द्रियाणि चेति
ध. पाठः ॥ 12-347-37 मानसः सर्वभूतानामिति ध. पाठः ॥ 12-347-38 व्यक्तः सर्वेषु
कर्मस्विति ट. पाठः ॥ 12-347-42 मां प्रविश्य भजन्तीहेति ध. पाठः ॥ 12-347-53
वसूनष्टौ समाश्रितानिति थ. पाठः ॥ 12-347-55 वेदान्यज्ञान्पशूंश्चैव स्रुक्च
दर्भमहौषधीरिति थ. पाठः ॥ 12-347-57 ब्रह्मण्यं ज्योतिषां श्रेष्ठमिति ध.
पाठः ॥ 12-347-61 ब्रह्मा मद्यज्ञमयजत्स्वजिति ट. ध. पाठः ॥ 12-347-68
तस्मिन्निवृत्तिमापन्ने चरेत्सर्वत्र विष्ठित इति ध. पाठः । चरेत्सर्वत्र
निस्स्पृह इति ट. पाठः ॥ 12-347-70 हिरण्यगर्भो भगवान्विश्वयोनिः सनातन इति ट.
पाठः ॥ 12-347-71 तिष्ठाममि भुवि शाश्वत इति थ. पाठः ॥ 12-347-75
तत्रादिकमलोद्भवः इति ध. पाठः ॥