अध्यायः 356
नरनारायणानुज्ञानेन नारदेन स्वाश्रमंप्रति गमनम् ॥ 1 ॥ वैशंपायनेन
जनमेजयंप्रति श्रीव्यासमाहात्म्यकथनम् ॥ 2 ॥ सौतिना श्रीनारायणगुणवर्णनपूर्वकं
शौनकादिभ्यस्तदनुग्रहाशंसनम् ॥ 3 ॥
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् ।
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥
उषित्वा वर्षसाहस्रं नरनारायणाश्रमे ।
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् ।
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम् ॥
तावपि ख्यातयशसौ नरनारायणावृषी ।
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम् ॥
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः ।
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥
नैव तस्यापरो लोको नायं पार्थिवसत्तम ।
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् ।
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः ॥
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः ।
तेनैतत्कथितं तात माहात्म्यं परमात्मनः ।
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥
एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ।
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥
वर्ततां ते महायज्ञो यथासंकल्पितस्त्वया ।
संकल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः ॥
सौतिरुवाच ।
एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः ।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥
नारायणीयमाख्यानमेतत्ते कथितं मया ।
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु ॥
नारदेन पुरा यद्वै गुरवे तु निवेदितम् ।
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥
स हि परमर्षिर्जनभुवनपतिः
पृथुधरणिधरः श्रुतिविनयपरः ।
शमनियमनिधिर्यमनियमपरो द्विजवर
सहितस्तव च भवतु गतिर्हरिरमरहितः ॥
असुरवधकरस्तपसांनिधिः
सुमहतां यशसां च भाजनम् ।
एकान्तिनां शरणदोऽभयदो गतिदो
गतिदोस्तु वः सुखभागकरः ।
मधुकैटभहा कृतधर्मविदां गतिदो
भयदो मखभागहरोस्तु शरणं स ते ॥
त्रिगुणो विगुणश्चतुरात्मधरः
पूर्तेष्टयोश्च फलभागहरः ।
विदधातु नित्यमजितोऽतिचलो
गतिरात्मवतां सुकृतिनामृषीणाम् ॥
तं लोकसाक्षिणमजं पुरुषं पुराणं
रविवर्णमीश्वरं गतिं बहुशः ।
प्रणमध्वमेकमतयो यतः
सलिलोद्भवोपि तमृषिं प्रणतः ॥
स हि लोकयोनिरसृतस्य पदं
सूक्ष्मं परायणमचलं हि पदम् ।
तत्साङ्ख्ययोगिभिरुदाहृतं तं
बुद्ध्या यतात्मभिरिदं सनातनम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये
षट््पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 356 ॥
12-356-15 गुरवे बृहस्पतये ॥ 12-356-16 स नारायणः ॥ 12-356-17
कृतधर्मः कृतयुगधर्मः सत्यादिस्तद्विदाम् ॥ 12-356-18 चत्वारो
वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्या आत्मानस्तान्धारयति स तथा ।
त्रिगुणातिगश्चतुष्पथधरः इति ध. पाठः ॥ 12-356-19 सलिलमुद्भवो यस्य स नारायणः
शेषशायी तमृषिं वासुदेवम् ॥ 12-356-20 लोकस्याव्यक्तादेर्योनिः । अमृतस्य
मोक्षस्य पदं स्थानम् । पदं पदनीयम् ॥