अध्यायः 042
युधिष्ठिरेण नामशतकेन श्रीकृष्णस्तवनम् ॥ 1 ॥
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः ।
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ॥
तव कृष्ण प्रसादेन नयेन न बलेन च ।
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ॥
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया ।
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम ॥
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् ।
नामभिस्त्वां बहुविधैः स्तुवन्ति प्रयता द्विजाः ॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥
अदित्याः सप्तधा त्वं तु पुराणो गर्भतां गतः ।
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ॥
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यते ।
त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च ॥
वराहोऽग्निर्बृहद्भानुर्वृषभस्तार्क्ष्यलक्षणः ।
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ॥
वरिष्ठ उग्रसेनानीः सत्यो वाजसनिर्गुहः ।
अच्युतश्च्यावनोऽरीणां संस्कृतो विकृतिर्वृषः ॥
कृष्णधर्मस्त्वमेवादिर्वृषदर्भो वृषाकपिः ।
सिन्धुर्विधूर्मिस्त्रिककुप् त्रिधामा त्रिवृदच्युतः ॥
सम्राड् विराट् स्वराट् चैव स्वराड््भूतमयो भवः ।
विभूर्भूरतिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ॥
स्विष्टकृद्भिषजावर्तः कपिलस्त्वं च वामनः ।
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ॥
शिखण्डी नहुषो बभ्रुर्दिविस्पृक् त्वं पुनर्वसुः ।
सुबभ्रू रुक्मयज्ञश्च सुषेणो दुन्दुभिस्तथा ॥
गभस्तिनेमिः श्रीपझः पुष्करः शुष्मधारणः ।
ऋभुर्विभुः सर्वसूक्ष्मस्त्व धरित्री च पठ्यसे ॥
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धामवित् ।
हिरण्यगर्भः पुरुषः स्वधा स्वाहा च केशवः ॥
योनिस्त्वमस्य प्रलयश्च कृष्ण
त्वमेवेदं सृजसि विश्वमग्रे ।
विश्वं चेदं त्वद्वशे विश्वयोने
नमोस्तु ते शार्ङ्गचक्रासिपाणे ॥
वैशंपायन उवाच ।
एवं स्तुतो धर्मराजेन कृष्णः
सभामध्ये प्रीतिमान्पुष्कराक्षः ।
तमभ्यनन्दद्भारतं पुष्कलाभि
र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ॥
`एतन्नामशतं विष्णोर्धर्मराजेन कीर्तितम् ।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
12-42-6 सप्तधा विष्ण्वाख्य आदित्यो वामनश्चेति द्वेधा
अदित्यामेव जन्म । ततोऽदिते रूपान्तरेषु पृश्निप्रभृतिषु क्रमात्पृश्निगर्भः
परशुरामः दाशरधीरामः यादवौ रामकृष्णौ चेति । सर्वेषु गर्भेषु एकएव त्वम् । त्रिषु
कृतादिषु युगेषु भवं त्रियुगम् । आदित्याः सप्तरात्रं त्वा पुराणे धर्मतो गतः ।
इति थ. पाठः ॥ 12-42-7 नृचक्षुः शंभुरिति थ. द. पाठः ॥ 12-42-8
वरुणोऽग्निर्वृहिद्भानुर्वृषण इति थ.द. पाठः ॥ 12-42-9 वाचिष्ठ उग्रसेनानीरिति
ड. थ. द. पाठः । संकृतिः प्रकृतिर्विभुरिति ड. थ. पाठः ॥ 12-42-10 त्रिककुप्
ऊर्ध्ववर्त्मा त्वमेवेति थ. द. पाठः ॥