अध्यायः 046
अथ दानधर्मपर्व ॥ 1 ॥
कृष्णेन युधिष्ठिरम्प्रति पार्वतीपरमेश्वराभ्यां स्यस्मै वरप्रदानकथनम् ॥ 1 ॥
कृष्ण उवाच ।
मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः ।
परमं हर्षमागत्य भगवन्तमथाब्रवम् ॥
धर्मे दृढत्वं युधि शत्रुघातं
यशस्तथाऽग्र्यं परमं बलं च
योगप्रियत्वं तव सन्निकर्षं
वृणे सुतानां च शतं शतानि ॥
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः ॥
ततो मां जगतो माता धारिणी सर्वपावनी ।
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ।
दत्तो भगवता पुत्रः साम्बो नाम तवानघ ॥
मत्तोप्यष्टौ वरानिष्टान्गृहण त्वं ददामि ते ।
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥
द्विजेष्वकोपं पितृतः प्रसादं
शतं सुतानां परमं च भोगम् ।
कुले प्रीतिं मातृतश्च प्रसादं-
शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥
उमोवाच ।
एवं भविष्यत्यमरप्रभाव
नाहं मृषा जातु वदे कदाचित् ।
भार्यासहस्राणि च षोडशैव
तासु प्रियत्वं च तथाऽक्षयं
प्रीतिं चाग्र्यां बान्धवानां सकाशा-
द्ददामि तेऽहं वपुषः काम्यतां च ।
भोक्ष्यन्ते वै सप्ततिं वै शतानि
गृहे तुभ्यमतिथीनां च नित्यम् ॥
वासुदेव उवाच ।
एवं दत्त्वा वरान्देवो मम देवी च भारत ।
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥
एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे ।
उपमन्यवे मया कृत्स्नं व्याख्यातं पार्थिवोत्तम ।
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत ॥
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ।
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
श्रीः