अध्यायः 067

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति शरणागतरक्षणफलप्रतिपादकश्येनकपोतोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
त्वत्तोऽहं श्रोतुमिच्छामि धर्मं भरतसत्तम ॥
शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् ।
किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः ॥
भीष्म उवाच ।
इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः ।
इतिहासं पुरावृत्तं शरणार्थं महाफलम् ॥
प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः ।
वृषदर्भं महाभागं नरेन्द्रं शरणं गतः ॥
स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम् ।
आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज ॥
भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया ।
येन त्वमिह सम्प्राप्तो विसंज्ञो भ्रान्तचेतनः ॥
नवनीलोत्पलापीड चारुवर्ण सुदर्शन ।
दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव ॥
मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत् ।
मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् ॥
काशिराज्यं तदद्यैव त्वदर्तं जीवितं तथा ।
त्यजेयं भव विस्रब्धः कपोत भयं तव ॥
श्येन उवाच ।
ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि ।
अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम् ॥
मांसं च रुधइरं चास्य मज्जा मेदश्च मे हितम् ।
परितोषकरो ह्येष मम माऽस्याग्रतो भव ॥
तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम् ।
मुञ्चैनं नहि शक्ष्यामि राजन्मन्दयितुं क्षुधाम् ॥
मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः ।
किञ्चिदुच्छ्वासनिःश्वासं न राजन्गोप्तुमर्हसि ॥
यदि स्वविषये राजन्प्रभुस्त्वं रक्षणे नृणाम् ।
खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम ॥
यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः ।
विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम ॥
प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते ।
यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि ॥
भीष्म उवाच ।
श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः ।
सम्भाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत ॥
राजोवाच ।
गोवृषो वा वराहो वा मृगो वा महिषोपि वा ।
त्वदथर्मद्य क्रियतां क्षुधाप्रशमनाय ते ॥
शरणागतं न त्यजेयमिति मे व्रतमाहितम् ।
न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज ॥
श्येन उवाच ।
न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान् भक्षयामि महाराज किमन्नाद्येन तेन मे ॥
यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः ।
श्येनाः कपोतान्खादन्ति स्तितिरेषा सनातनी ॥
उशीनर कपोते तु यदि स्नेहस्तवानघ ।
ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् ॥
राजोवाच ।
महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम् ।
बाढमेव करिष्यामीत्युक्त्वाऽसौ राजसत्तमः ॥
उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् ।
अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः ॥
हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः ।
तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च ॥
बभूव सुमहान्नादो मेघगम्भीरनिःस्वनः ।
निरुद्धं गगनं सर्वं व्यभ्रं मेघैः समन्ततः ॥
मही प्रचलिता चासीत्तस्य सत्येन कर्मणा ॥
स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत् । तानि मांसानि सञ्छिद्य तुलां पूरयतेऽशनैः ।
तथापि न समस्तेन कपोतेन बभूव ह ॥
अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः ।
तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन् ॥
ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः ।
र्भर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः ॥
अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः ।
दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनःपुनः ॥
देवगन्धर्वसन्घातैरप्सरोभिश्च सर्वतः ।
नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः ॥
हेमप्रासादसम्बाधं मणिकाञ्चनतोरणम् ।
सवैडूर्यमणिस्तम्भं विमानं समधिष्ठितः ॥
स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम् ।
शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर ॥
भक्तानामनुरक्तानामाश्रितानां च रक्षिता ।
दयावान्सर्वभूतेषु परत्र सुखमेधते ॥
साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति ।
किं न प्राप्तं भवेत्तेनि स्वव्याजेनेह कर्मणा ॥
स राजर्षिर्विशुद्धात्मा धीरः सत्यपराक्रमः ।
काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा ॥
योऽप्यन्यः कारेयदेवं शरणागतरक्षणम् ।
सोपि गच्छेत तामेव गतिं भरतसत्तम ॥
इदं वृत्तं हि राजर्षे वृषदर्भस्य कीर्तयन् ।
पूतात्मा वै भवेल्लोके शृणुयाद्यश्च नित्यशः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

7-67-4 प्रात्यमान आकशादिति शेषः । वृषदर्भमौशीनरं शिबिम् ॥ 7-67-7 नवं नीलं च यदुत्पलं लस्याऽऽपीड इवालङ्कारभूत ॥ 7-67-10 अतिक्रान्तं गत्प्रायजवितम् ॥ 7-67-15 यदि वैर्यादिषु पराक्रमसे तद्युक्तं न त्वाकाशे आकाशचारिषु ॥ 7-67-16 पक्षहरेष्वाज्ञाभङ्गिषु शत्रुषु ॥ 7-67-17 तदथीं कपोतार्थी ॥ 7-67-19 द्विजः पक्षी ॥ 7-67-28 अशनैः शीघ्रम् ॥ 7-67-29 मांसक्षयं मांसालयं शरीरम् ॥ 7-67-32 नृत्तः नृत्येन तोपितः । एवमुपगीतः ॥ 7-67-36 साधुवृत्तः सुशीलः । सद्वृत्तं शिष्टाचारम् । स्वव्याजेन सुतरां नष्कपटेन ॥

श्रीः