अध्यायः 085
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति महद्दर्शनसहवासयोर्गवां च प्रभावबोधनाय
						च्यवनोपाख्यानकथनारम्भः ॥ 1 ॥ गङ्गायमुना सङ्गमेऽन्तर्जले निमज्य
						तपस्यतश्च्यवनस्य दाशैर्जालेन जलचरैः सह कूलप्रापणम् ॥ 2 ॥ दाशैः प्रार्थितेन
						तेन तान्प्रति मत्स्यै सह स्वस्य प्राणजालान्यतरस्मान्मोचनचोदना ॥ 3 ॥ 
					
						युधिष्ठिर उवाच । 
					
						दर्शने कीदृशः स्नेहः संवासे च पितामह ।
						महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि ॥
						भीष्म उवाच । 
					 
					
						हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते ।
						नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥
					 
					
						पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ ।
						उदवासकृतारम्भो बभूव स महाव्रतः ॥
					 
					
						निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च ।
						वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥
					 
					
						आदधत्सर्वभूतेषु विस्रम्यं परमं शुभम् ।
						जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः ॥
					 
					
						स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।
						गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ॥
					 
					
						गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् ।
						प्रतिजग्राह शिरसा वातवेगसमं जवे ॥
					 
					
						गङ्गा च यमुना चैव सरितश्च सरांसि च ।
						प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥
					 
					
						अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः ।
						ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥
					 
					
						जलौकसां ससत्वानां बभूव प्रियदर्शनः ।
							उपाजिघ्नन्त च तदा मत्स्यास्तं हृष्टमानसाः ।
						
						तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥
						
					 
					
						ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ।
						तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥
					 
					
						निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः ।
							व्यायता बलिनः शूराः सलिलेष्वनुवर्तिनः ।
						
						अभ्याययुश्च तं देशं निश्चिता जालकर्म्णि ॥
						
					 
					
						जालं ते योजयामासुर्नवसूत्रकृतं दृढम् ।
						मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम ॥
					 
					
						ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः ।
						गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते ॥
					 
					
						जालं सुविततं तेषां नवसूत्रकृतं तथा ।
						विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ॥
					 
					
						ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् ।
						अवतीर्य ततः सर्वे जालं चकृषिरे तदा ॥
					 
					
						अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः ।
						बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः ॥
					 
					
						तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् ।
						आकर्षयन्महाराज जालेनाथ यदृच्छया ॥
					 
					
						नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् ।
							लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम् ।
						
					 
					
						तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् ।
						सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥
					 
					
						परिखेदपरित्रासाज्जालस्याकर्षणेन च ।
						मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च ॥
					 
					
						स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् ।
						बभूव कृपयाविष्टो निःश्वसंश्च पुनःपनः ॥
						निषादा ऊचुः । 
					 
					
						अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु ।
						करवाम प्रिय किं ते तन्नो ब्रूहि महामुने ॥
					 
					
						इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।
						यो मेऽद्य परमः कामस्तं शृणुध्वं मसाहिताः ॥
					 
					
						प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह ।
						संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युपितानहम् ॥
					 
					
						इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः ।
						सर्वे विवर्णवदना नहुषाय न्यवेदयन् ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पश्चाशीतितमोऽध्यायः ॥ 85 ॥ 
					 7-85-1 परपीडादर्शने परैः सह संवासे च कीदृशः स्नेह आतृशंस्यं
						च कर्तव्यम् । गवां माहात्म्यं च ब्रूहीति प्रश्नदूयम् ॥ 7-85-8 सरितश्च तथानुगा
						इति ट.थ.ध.पाठः ॥ 7-85-9 ऊर्ध्वस्थितः उपविष्टः ॥ 7-85-10 आसतः आसीनस्य ॥ 7-85-19 शङ्खानां जलजन्तुविशेषाणां नखानि तैः ॥ 
					
					
					
					
					श्रीः