अध्यायः 092
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति तत्तद्दानानां विशिष्यफलकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
मुह्यामीति निशम्याद्य चिन्तयानः पुनःपुनः ।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥
प्राप्य राज्यानि शतशो महीं जित्वाऽपि भारत ।
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति ।
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥
वयं हि तान्कुरुन्हत्वा ज्ञातींश्च सुहृदोऽपि च ।
अवाक्शीर्षाः पतिष्यामो नरके नात्रं संशयः ॥
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते ॥
वैशम्पायन उवाच ।
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥
रहस्यमद्भुतं चैव शृणु वक्ष्यामि भारत ।
या गतिः प्राप्यते वेन प्रेत्यभावे विशाम्पते ॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च ।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥
धं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।
फलमूलाशनाद्राज्यं स्वर्गः पर्णशनाद्भवेत् ॥
पयोभक्षो दिवं याति दानेन द्रविणाधिकः ।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।
स्त्रियस्त्रिषवण्सनानाद्वायुं पीत्वा क्रतुं लभेत् ॥
नित्यस्नायी दीर्घजीवी सन्ध्ये तु द्वे जपन्द्विजः ।
मन्त्रं साधयतो राजन्नाकपृष्ठमनाशने ॥
स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
चीरवल्कलवासोभिर्वासांस्याभाणानि च ॥
शय्यासनानि यानानि योगयुक्ते तपोधने ।
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।
आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत् ॥
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥
कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया ।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ॥
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।
अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः ॥
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।
देवशुश्रूषया राज्यं दिव्यं रूपं निगच्छति ॥
दीपालोकप्रदानेन चक्षुष्मान्बुद्धिमान्भवेत् ।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥
गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला ।
केशश्मश्रू धारंयतामग्र्या भवति सन्ततिः ॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च ।
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।
लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः ॥
सुवर्णशृङ्गैस्तु विराजितानां
गवां सहस्रस्य नरः प्रदानात् ।
प्राप्नोति पुण्यं दिवि देवलोक-
मित्येवमाहुर्दिवि वेदसङ्घाः ॥
प्रयच्छते यः कपिलां सवत्सां
कांस्योपदोहां कनकाग्रशृङ्गीम् ।
तैस्तैर्गुणैः कामदुघाऽस्य भूत्वा
नरं प्रदातारमुपैति सा गौः ॥
यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावत्फलं प्राप्य स गोप्रदानात् ।
पुत्रांश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र ॥
सदक्षिणां काञ्चनचारुशृङ्गीं
कांस्योपदोहां द्रविणोत्तरीयाम् ।
धेनुं तिलानां ददतो द्विजाय
लोका वसूनां सुलभा भवन्ति ॥
स्वकर्मभिर्मानवं संनिरुद्धं
तीव्रान्धकारे नरके पतन्तम् ।
मंहार्णवे नौरिव वायुयुक्ता
दानं गवां तारयते परत्र ॥
यो ब्रह्मदेयां तु ददाति कन्यां
भूमिप्रदानं च करोति विप्रे ।
ददाति चान्नं विधिवच्च यश्च
स लोकमाप्नोति पुरंदरस्य ॥
नैवेशिकं सर्वगुणोपपन्नं
ददाति वै यस्तु नरो द्विजाय ।
स्वाध्यायचारित्र्यगुणान्विताय
तस्यापि लोकाः कुरुषूत्तरेषु ॥
धुर्यप्रदानेन गवां तथा वै
लोकानवाप्नोति नरो वसूनाम् ।
स्वर्गाय चाहुस्तु हिरण्यदानं
ततो विशिष्टं कनकप्रदानम् ॥
छत्रप्रदानेन गृहं वरिष्ठं
यानं तथोपानहसम्प्रदाने ।
वस्रप्रदानेन फलं सुरूपं
गन्धप्रदानात्सुरभिर्नरः स्यात् ॥
पुष्पोपगं वाऽथ फलोपगं वा
यः पादपं स्पर्शयते द्विजाय ।
सश्रीकमृद्धं बहुरत्नपूर्णं
लभत्ययत्नोपगतं गृहं वै ॥
भक्ष्यान्नपानीयरसप्रदाता
सर्वान्समाप्नोति रसान्प्रकामम् ।
प्रतिश्रयाच्छानसम्प्रदाता
प्राप्नोति तान्येव न संशयोऽत्र ॥
स्रग्धूपगन्धाननुलेपनानि
स्नानानि माल्यानि च मानवो यः ।
दद्याद्द्विजेभ्यः स भवेदरोग-
स्तथाऽभिरूपश्च नरेन्द्रलोके ॥
बीजैरशून्यं शयनैरुपेतं
दद्याद्गृहं यः पुरुषो द्विजाय ।
पुण्याभिरामं बहुरत्नपूर्णं
लभत्यधिष्ठानवरं स राजन् ॥
सुगन्धचित्रास्तरणोपधानं
दद्यान्नरो यः शयनं द्विजाय ।
रूपान्वितां पक्षवतीं मनोज्ञां
भार्यामयत्नोपगतां लभेत्सः ॥
पितामहस्यानवरो वीरशायी भवेन्नरः ।
नाधिकं विद्यते यस्मादित्याहुः परमर्षयः ॥
वैशम्पायन उवाच ।
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः ।
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥
ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ ।
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥
7-92-7 या गतिः फलं, येन साधनेन, प्रेत्यभावे मरणानन्तरम् ॥ 7-92-10 जीवितं आयुः ॥ 7-92-13 क्रतुं प्रजापतिम् । प्रणायामैः प्रजापतिलोकं
प्राप्नोतीत्यर्थः ॥ 7-92-14 अनाशनं अनाहारः । नित्यस्नायी भवेद्दक्ष इति
झ.पाठः ॥ 7-92-17 प्रतिसंहारात्यागात ॥ 7-92-24 उपवार्सः सर्वभोगत्यागः । दीक्षा
जपादिनियमखीकारः । अभिषेकस्त्रिषवणं स्नानम् ॥ 7-92-33 नैवेशिकं गृहोपस्करं
शय्यादि ॥ 7-92-40 पक्षवतीं महाकुलोद्भवाम् ॥ 7-92-41 अनवरः रामानः । यस्मात्
पितामहात् ॥
श्रीः