अध्यायः 145

अथ दानधर्मपर्व ॥ 1 ॥

जमदग्निना सौरातपतापनिवारणोपायकल्पनं चोदितेन सूर्येण तस्मै छत्रोपानत्प्रदानम् ॥ 1 ॥ एवं भीष्मेण युधिष्ठिरंप्रति तत्प्रवृत्तिकथनपूर्वकं तद्वानप्रशंसनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

एवं प्रयाचति तदा भास्करे मुनिसत्तमः ।
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥
भीष्म उवाच ।
स तथा याचमानस्य मुनिरग्निसमप्रभः ।
जमदग्निः शमं नैव जगाम कुरुनन्दन ॥
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् ।
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते ॥
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः ।
कतं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥
जमदग्निरुवाच ।
स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा ।
अवस्यं विनयाधानं कार्यमद्य मया तव ॥
मध्याह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर ।
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥
सूर्य उवाच ।
असंशयं मां विप्रर्षे भेत्स्यसे धन्विनांवर ।
अपकारिणं मां विद्दि भगवञ्शरणागतम् ॥
भीष्म उवाच ।
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् ।
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले ।
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥
दीप्तिमग्नेः प्रभां मेरोः प्रतापं धनदस्य च ।
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥
भवेत्स गुरुतल्पी च ब्रह्मिहा च स वै भवेत् ।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम् ॥
एतस्य त्वपनीतस्य समाधिं तात चिन्तय ।
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥
भीष्म उवाच ।
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः ।
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै ॥
सूर्य उवाच ।
महर्षे शिरसस्त्राणां छत्रं मद्रश्मिवारणम् । प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ।
अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति ।
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च ॥
भीष्म उवाच ।
उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम् ।
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥
तस्मात्प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम् ।
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥
छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये ।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिः ।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥
उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ ।
स्नातकाय महाबाहो संशिताय द्विजातये ॥
सोपि लोकानवाप्नोति देवतैरभिपूजितान् ।
गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् ।
छत्रोपानहदानस्य फलं भरतसत्तम ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥

7-145-4 निमित्तं लक्ष्यम् ॥ 7-145-9 ब्राह्मणेष्वपि यज्झानमिति ट.ध.पाठः ॥ 7-145-12 अपनीतस्यापनयस्य सन्तापनरूपस्य समाधिं समाधानम् ॥

श्रीः