अध्यायः 011
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति शुकवासवसंवादानुवादेनानृशंस्यप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
आनृशंस्यस्य धर्मज्ञ गुणान्भक्तजनस्य च ।
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं शुकस्य च महात्मनः ॥
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः ।
सविषं काण्डमादाय मृगयामास वै मृगम् ॥
तत्र चामिषलुब्धेन लुब्धकेन महावने ।
अविदूरे मृगान्दृष्ट्वा बाणः प्रतिसमाहितः ॥
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा ।
महान्वनतरुस्तत्र विद्धो मृगजिघांसया ॥
स तीक्ष्णविषदिग्धेन शरेणातिबलात्क्षतः ।
उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः ।
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि ।
कृतज्ञः सह वृक्षेण धर्मात्मा सोप्यशुष्यत ॥
तमुदारं महासत्वमतिमानुषचेष्टितम् ।
समदुःखसुखं दृष्ट्वा विस्मितः पाकशासनः ॥
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः ।
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः ॥
अथवा नात्र चित्रं हीत्यभवद्वासवस्य तु ।
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते ॥
ततो ब्राह्मणवेषेणि मानुषं रूपमास्थितः ।
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥
शुक भो पक्षिणांश्रेष्ठ दाक्षेयी सुप्रजास्त्वया ।
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि द्रुमम् ॥
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् ।
स्वागतं देवराज त्वं विज्ञातस्तपसा मया ॥
ततो दशशताक्षेण साधुसाध्विति भाषितम् ।
अहो विज्ञानमित्येवं मनसा पूजितस्ततः ॥
तमेवं शुभकर्माणं शुकं परमधार्मिकम् ।
जानन्नपि च तत्पापं पप्रच्छ बलसूदनः ॥
निष्पत्रमफलं शुष्कमशरण्यं पतत्त्रिणाम् ।
किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥
अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः ।
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ॥
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् ।
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥
भीष्म उवाच ।
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् ।
सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह ॥
अनतिक्रमणीयानि दैवतानि शचीपते ।
यत्राभवंस्तत्र भवांस्तन्निबोध सुराधिप ॥
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युते ।
चालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः ॥
किमनुक्रोश्यं वैफल्यमुत्पादयसि मेऽनघ ।
`अनुरक्तस्य भक्तस्य संस्पृशे न च पावकम् ।'
आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च ॥
अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम् ।
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयात् ।
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः ॥
नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् ।
समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत् ॥
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः ।
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः ।
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ॥
विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम् ।
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥
ततः फलानि पत्राणि शाखाश्चापि मनोहराः ।
शुकस्य दृढभक्तित्वाच्छ्रीमत्तां प्राप स द्रुमः ॥
शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै ।
आयुषोन्ते महाराज प्राप शक्रसलोकताम् ॥
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः ।
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशोऽध्यायः ॥ 11 ॥
7-11-3 विषये देशे । काण्डं बाणम् ॥ 7-11-4 तत्र मृगयायाम् ॥ 7-11-5 दुर्वारितास्त्रेण दुर्वार्यशस्त्रेण । निमित्ताल्लक्ष्याच्चपलश्चलित
इषुर्यस्य तेन । निमित्तविफलेषुणेति ध. पाठः ॥ 7-11-6 दिग्धेन लिप्तेन ॥ 7-11-10
द्विजः पक्षी । आनृशंस्य परदुःखेन दुःखित्वम् ॥ 7-11-11 सर्वेषां
नृतिर्यगादीनाम् । सर्वत्र जातौ । सर्वं कृपाऽनैष्टुर्यादिकं दृश्यते इति वासवस्य
बुद्धिरभवदिति सम्बन्धः ॥ 7-11-13 दाक्षेयो दक्षदौहित्री शुकीनाम ॥ 7-11-14
तपसा ज्ञानदृष्ट्या ॥ 7-11-23 अनुक्रोश्य कृपायित्वा । वैफल्यं जन्मन इति शेषः ॥ 7-11-25 संशयात् संशयं प्राप्य । अतः संशयच्छेत्तृत्वात् ॥ 7-11-28 सम्भवं
सम्यगौश्वर्यं वरं वव्रे ॥
श्रीः