अध्यायः 162
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरंप्रति ज्येष्ठकनिष्ठयोः
						परस्परस्मिन्वर्तनप्रकारादिकथनम् ॥ 1 ॥ 
					
						युधिष्ठिर उवाच । 
					
						कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ ।
						कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥
						भीष्म उवाच । 
					 
					
						ज्येष्ठवत्तात वर्तस्व ज्येष्ठोसि हि तथा भवान् ।
						गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥
					 
					
						न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् ।
						गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत ॥
					 
					
						अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः ।
						परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥
					 
					
						प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः ।
							`श्रियाऽभितप्तास्तद्भेदान्नभिन्नाः स्युः समाहिताः'
						
						श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः ॥
						
					 
					
						ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
						हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह ॥
					 
					
						अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः ।
						अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥
					 
					
						निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् ।
						विफलं तस्य पुत्रत्वं मोघं जनयितुः स्मृतम् ॥
					 
					
						पित्रोरनर्थायक कुले जायते पापपूरुषः ।
						अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥
					 
					
						सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः ।
							ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः ।
						
						नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम् ॥
						
					 
					
						अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः ।
						स्वयमीहेत लब्धं तु नाकामो दातुमर्हति ॥
					 
					
						भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह ।
							न पुत्रभागं विषमं पिता दद्यात्कदाचन ।
						
					 
					
						न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा ।
						गुरूणामपराधो हि शक्यः क्षन्तव्य एव च ॥
					 
					
						यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत् ।
						धर्मार्थः श्रेय इत्याहुस्त्रयो ज्ञाता विधायकाः ॥
					 
					
						दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ।
							दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ।
						
						गौरवेणाभिभवति नास्ति मातृसमो गुरुः ॥
						
					 
					
						माता गरीयसी यच्च तेनैतां मन्यते गुरुम् ।
						ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ॥
					 
					
						स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत् ।
						कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ॥
					 
					
						तमेव चोपजीवेरन्यथैव पितरं तथा ।
						शरीरमेतौ सृजतः पिता मता च भारत ॥
					 
					
						आचार्यशिष्टा या जातिः सा सत्या साऽजरामरा ।
							ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ ।
						
					 
					
						भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 
					 7-162-2 या च शिष्यस्य गुरौ वृत्तिस्तां वर्तस्व ॥ 7-162-4
						तेषां गुरूणाम् ॥ 7-162-7 यवीयसः कनिष्ठान् ॥ 7-162-8 विदुलस्येव तत्पुष्पं
						मोघमिति झ.पाठः ॥ 7-162-10 ज्येष्ठः कुर्वीत यौतकमिति झ.पाठः ॥ 7-162-11
						जङ्घाश्रम एव फलं धनं यस्य । अध्वगः प्रवासी । अनुपघ्नन्पितुर्दायं इति झ.पाठः ॥ 7-162-12 उत्थानं भोजनादौ विभागे वा ॥ 7-162-14 यदि स्त्री यदि वा कनिष्ठो
						दुष्कृतस्तथापि तस्य श्रेय आचरेत् ॥ 
					
					
					
					
					श्रीः