अध्यायः 164
अथ दानधर्मपर्व ॥ 1 ॥
युधिष्ठिरेणि भीष्मंप्रति दरिद्राणां यज्ञस्य बहुद्रव्यसाध्यत्वेन
दुष्करतया तत्फलप्राप्त्यै तत्प्रतिनिधिकथनप्रार्थना ॥ 1 ॥ भीष्मेण
युधिष्ठिरंप्रति एकैकदिनवृद्ध्या मासावध्युपवासस्य यज्ञप्रतिनिधित्वकथनम् ॥ 2 ॥
युधिष्ठिर उवाच ।
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना ।
गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः ॥
न तै शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह ।
बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह ।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् ।
अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ।
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ।
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः ॥
तप्तकाञ्चनवर्णं च विमानं लभते नरः ।
देवस्त्रीणामधीवासे नृत्तगीतनिनादिते ।
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसन्निभे ॥
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ।
धर्मत्नीरतो नित्यमग्निष्टोमफलं लभेत् ।
यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत् ॥
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः ।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥
पाण्डुराभ्रपतीकाशे विमाने हंसलक्षणे ।
द्वे समाप्ते ततः पद्मे सोप्सरोभिर्वसेत्सह ॥
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
हंससारसयुक्तं च विमानं लभते नरः ।
इन्द्रलोके च वसते वरस्त्रीभिः समावृतः ॥
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः ।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥
मयूरहंसयुक्तं च विमानं लभते नरः ।
सप्तर्षीणां सदा लोके सोप्सरोभिर्वसेत्सह ।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नीत्यनुत्तमम् ।
इन्द्रिकन्याभिरूढं च विमान लभते नरः ।
सागरस्य च पर्यन्ते वासवं लोकमावसेत् ।
देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥
दिवसे पञ्चमे यस्तु प्राश्नीयादैकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥
अलुब्धः । सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ।
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ।
सूर्यमालासमाभासमारोहेत्पाण्डुरं गुहम् ॥
आवर्तनानि चत्वारि तथा पद्मानि द्वादश ।
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ।
गवामयनयज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ।
शातकुम्भसमायुक्तं साधयेद्यानमुत्तमम् ॥
तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते ।
नूपुराणां निनादेन मेखलानां च निःस्वनैः ॥
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ।
पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥
अयुतानि च पञ्चशदृक्षचर्मशतस्य च ।
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ।
सुमनोवर्णकं चैव मधु मांसं च वर्जयन् ॥
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ।
तत्रतत्र हि सिद्धार्थो देवकन्याभिरुह्यते ॥
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ।
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ।
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
पद्मवर्णनिभं चैव विमानमधिरोहति ॥
मृष्टाः कनकगौर्यश्च नार्यः श्यामास्तथा पराः ।
वयोरूपविलासिन्यो लभते नात्र संशयः ॥
यस्तु संवत्सरं भुङ्क्ते नवमेनवमेऽहनि ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ।
पुण्डरीकप्रकाशं च विमानं लभते नरः ॥
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ।
नीयते रुद्रकन्याभिः सोन्तरिक्षं सनातनम् ॥
अष्टादशसहस्राणि वर्षाणां कल्पमेव च ।
कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गतेगते ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥
ब्रह्मकन्यानिवासे स सर्वभूतमनोहरे ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् ।
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥
विमानं मण्डलावर्तमावर्तगहनाकुलम् ।
सागरोर्मिप्रतीकाशं स लभेद्यानमुत्तमम् ॥
विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः ।
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ।
आरोहति महद्यानं हंससारसवाहनम् ॥
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥
परिस्त्रियं नाभिलषेद्वाचाथ मनसाऽपि वा ।
अनृतं च न भाषेत मातापित्रोःक कृतेऽपि वा ।
अभिगच्छेन्महादेवं विमानस्थं महाबलम् ॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ।
स्वायंभुवं च पश्येत विमानं समुपस्थितम् ॥
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् ।
कोटीशतसहस्रं च दशकोटिशतानि च ॥
रुद्रं नित्यं प्रणमते देवदानवसम्मतम् ।
स तस्मै दर्शनं प्राप्तो दिवसेदिवसे भवेत् ॥
दिवसे द्वादशे यस्तु प्राप्तो वै प्राशते हविः ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥
नियमेन समायुक्तः सर्वमेधफलं लभेत ।
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते ॥
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ।
हंसभासा परिक्षिप्तं नागवीथीसमाकुलम् ॥
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ।
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ॥
नित्यमावसथं राजन्नरनारीसमावृतम् ।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मिवित् ॥
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः ।
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥
रक्तपद्मोदयं नाम विमानं साधयेन्नरः ।
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ॥
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् ।
पुण्यगन्धोदयं दिव्यं वादित्रैरुपशोभितम् ॥
तत्र शङ्कुपताके द्वे युगान्तं कल्पमेव च ।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥
गीतगन्धर्वघोषैश्च भेरीपणवनिःस्वनैः ।
सदा प्रह्लादितस्ताभिर्देवकन्याभिरीड्यते ॥
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः ।
सदा द्वादशमासांस्तु महामेधफलं लभेत् ॥
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः ।
मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम् ॥
कलहंसविनिर्घोषैर्नूपुराणां च निःखनैः ।
काञ्चीनां च समुत्कर्षैस्तत्रतत्र निबोध्यते ॥
देवकन्यानिवासे च तस्मिन्वसति मानवः ।
जाह्नवीवालुकाकीर्णं पूर्णं संवत्सरं नरः ॥
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ।
यानमारोहते दिव्यं हंसबर्हिणलक्षणम् ॥
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ।
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् ॥
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।
वैजयन्तीसहस्रैश्च शोभितं गीतनिःस्वनै ।
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ॥
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः ।
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत् ॥
सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः ।
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च ।
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ।
आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः ॥
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥
स्थानं वारुणमैन्द्रं च रौद्रं वाऽप्यधिगच्छति ॥
मारुतं शयनं चैव ब्रह्मलोकं स गच्छति ।
तत्र दैवतकन्याभिरासनेनोपचर्यते ॥
भूर्भुवःस्वश्च देवर्षिर्विश्वरूपमवेक्षते ।
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् ।
द्वात्रिंशद्रूपदारिण्यो मधुराः समलङ्कृताः ॥
चन्द्रादित्यावुभौ यावद्गगते चरतः प्रभो ।
तावच्चरत्यसौ धीरः सुधातुल्यरसाशनः ॥
अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति ॥
रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ।
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः ॥
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् ।
विमानमुत्तमं दिव्यं सुसुखि ह्यधिरोहति ॥
तत्र कल्पसहस्रं स कन्याभिः सह मोदते ।
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥
एकोनविंशदिवसे यो भुङ्क्ते एकभोजनम् ।
सदा द्वादशमासान्वै सप्त लोकान्स पश्यति ॥
उत्तमं लभते स्थानमप्सरोगणसेवितम् ।
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ।
दिव्याम्बरधरः श्रीमानयुतानां शतंशतम् ॥
पूर्णेऽथ विंशे दिवसे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः ॥
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः ।
स लोकान्विपुलान्रम्यानादित्यानामुपाश्नुते ॥
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः ।
विमानैः काञ्चनैर्हृद्यैः पृष्ठतश्चानुगम्यते ॥
एकविंशो तु दिवसे यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ।
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ॥
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ।
अनभिज्ञश्च दुःखानां विमानवरमास्थितः ।
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् ।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥
अहिंसानिरतो धीमान्सत्यवागनसूयकः ।
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥
कामचारी सुधाहारो विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ।
सदा द्वादशमासांस्तु मिताहारो जितेन्द्रियः ।
वायोरुशनसस्चैव रुद्रलोकं च गच्छति ॥
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ।
अनेकयुगपर्यन्तं विमानवरमास्थितः ।
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥
चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासांश्च जुह्वानो जातवेदसम् ।
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे ।
रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादशमासांस्तु पुष्कलं यानमारुहेत् ॥
सिंहव्याग्रप्रयुक्तैस्तु मेघनिःस्वननादितैः ।
स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते ।
देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः ॥
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ।
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ।
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥
षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम् ।
सदा द्वादशमासांस्तु नियतो नियताशनः ।
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ॥
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ।
सप्तानां मरुतां लोकान्वसूनां चापि सोश्नुते ॥
विमानैः स्फाटिकैर्दिव्यैःइ सर्वरत्नैरलङ्कृतैः ।
गन्धर्वैरप्सरोभिश्चि पूज्यमानः प्रमोदते ।
द्वेऽर्बुदानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥
सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम् ।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥
फलं प्राप्नोति विपुलं देवलोके च पूज्यते ।
अमृताशी वसंस्तत्र स वितृपः प्रमोदते ॥
देवर्षिचरिताँल्लोकान्राजर्षिभिरनुष्ठितान् ।
अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥
स्त्रीभिर्मिनोभिरामाभी रममाणो मदोत्कटः ।
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ।
सदा द्वादशमासांस्तु जितात्मा विजितेन्द्रियः ॥
फलं देवर्षिचरितं विपुलं समुपाश्नुते ।
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ।
पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥
रमयन्ति मनःकान्ता विमाने सूर्यसन्निबे ।
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥
एकोनत्रिंशदिवसे यः प्राशेदेकभोजनम् ।
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ॥
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ॥
विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति ।
जातरूपमयं युक्तं सर्वरत्नसमन्वितम् ।
अप्सरोगणसङ्कीर्णं गन्धर्वैरभिनादितम् ॥
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ।
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ।
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ।
रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति ॥
यस्तु मासे गते भुङ्क्ते एकभक्तं समाहितः ।
सदा द्वादश मासान्वै ब्रह्म्लोकमवाप्नुयात् ॥
सुधारसकृताहार श्रीमान्सर्वमनोहरः ।
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
सुखेष्वभिरतो भोगी दुःखानामविजानकः ॥
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते ।
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥
नानारमणरूपाभिर्नानारागाभिरेव च ।
नानामधुरभाषाभिर्नानारतिभिरेव च ॥
विमाने गगनाकारे सूर्यवैडूर्यसन्निभे ।
पृष्ठतः सोमसङ्करो उदर्के चाभ्रसन्निभे ॥
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ।
ऊर्ध्वं विचित्रसङ्काशे नैको वसति पूजितः ॥
यावद्वर्षसहस्रं वै जम्बूद्वीपे प्रवर्षति ।
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः ॥
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ।
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ।
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा ।
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ॥
बहुभिर्नियमैरेवं शुचिरश्नाति यो नरः ।
अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः ॥
दिवं गत्वा शरीरेण स्वेन राजन्यथाऽमरः ।
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते तथाविधः ॥
एथ ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ।
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ।
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ॥
देवद्विजातिपूजायां रतो भरतसत्तमम् ॥
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः ।
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत ।
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥
7-164-3 अवगुणैर्निर्गुणैः । एकात्मभिरेकाकिभिः । अत
एवासंहतैरसहायैः ॥ 7-164-6 कल्यं प्रातः ॥ 7-164-10 सगाप्ते सम्पूर्णे द्वे
पद््मे वर्षाणीति शेषः । शतकोटय एकं पद्मम् ॥ 7-164-16 निवर्तनं नियमेन
वर्तनम् ॥ 7-164-22 आवर्तनानि वर्षाणि चत्वारि द्वादशचेति षोडश पद्मानि । तथा
शराग्निरिति पञ्चत्रिंशत् । एवमेकपञ्चाशत्पद्मानि ॥ 7-164-27 पताका
महापद्माख्यसंख्याविशेषः ॥ 7-164-30 सुमनोवर्णकं स्रक्च्न्दनादि ॥ 7-164-59
शङ्कुपताके संख्याविशेषौ ॥ 7-164-82 सुधा अमृतम् । अमृतं देवभोग्यं तदुपमम् ॥
श्रीः