अध्यायः 181

अथ दानधर्मपर्व ॥ 1 ॥

कीटेन व्यासचोदनया राज्यपालनपूर्वकं जन्मान्तरे ब्राह्मण्यलाभेन तपश्चर्यादिना ब्रह्मसालोक्याधिगमः ॥ 1 ॥

भीष्म उवाच ।

क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान् ।
त्यक्त्वा हि कीटतां राजंश्चचार विपुलं तपः ॥
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः ।
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥
व्यास उवाच ।
क्षात्रादेव व्रतात्कीट भूतानां परिपालय ।
क्षात्रं देवव्रतं ध्यासंस्ततो विप्रत्वमेष्यसि ॥
पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान् ।
शुभैः संविभजन्कामैरशुभानां च भावनैः ॥
आत्मवान्भव सुप्रीतः स्वधर्माचरणे रतः ।
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥
भीष्म उवाच ।
सोऽप्यरण्यादभिप्रेत्य पुनरेव युधिष्ठिर ।
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पालयन् ॥
अचिरेणैव कालेन कीटः पार्थिवसत्तम ।
प्रजापालनधर्मेणि प्रेत्य विप्रत्वमागतः ॥
ततस्तं ब्राह्मणं द्रष्टुं पुनरेव महायशाः ।
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥
व्यास उवाच ।
भोभो ब्रह्मर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन ।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥
उपपद्यति धर्मज्ञ यथाधर्मं यथाव्रतम् । तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन ।
धर्मलाभात्परं न स्यात्तस्माद्धर्मं चरोत्तमम् ॥
कीट उवाच ।
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् ।
धर्ममूलं शुभं प्राप्य पाप्मा नष्ट इहाद्य मे ॥
भीष्म उवाच ।
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् । अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ।
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥
अथ पापहरं कीटः पार्त ब्रह्म सनातनम् ।
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥
कुरुक्षेत्रे युद्धहताः पुण्ये क्षत्रियपुङ्गवाः ।
सम्प्राप्तास्ते गतिं पुण्यां तन्मा त्वं शोच पुत्रक ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

श्रीः