अध्यायः 182

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति विद्यातपोदानानां मध्ये दानप्रशंसनपरव्यासमैत्रेयसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

विद्या तपश्च दानं च किमेतेषां विशिष्यते ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् ।
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥
तमुपच्छन्नमासीनं ज्ञात्वा स मुनिसत्तमः ।
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् ।
उत्तिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥
तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् । कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते ।
तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥
एतदिच्छामि ते विद्वन्नभिवाद्य प्रणम्य च ।
आत्मनश्च तपोभाग्यं सुखभाग्यं ममेह च ॥
`तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च ।' पृथगाचरितं तात पृथगाचरितात्मनः ।
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात् ॥
व्यास उवाच ।
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः ।
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं प्रति ।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परान्वदेत् ॥
इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम् ।
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम् ॥
अल्पोऽपि तादृशो न्यासो भवत्युत महाफलः ।
तृषिताय च यद्दत्तं हृदयेनानसूयता ॥
तोषितास्त्रिदशा यत्ते दत्त्वैतद्दर्शनं मम ।
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो ॥
ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च ।
दूरात्पुण्यवतो गन्धः पुण्यस्यैव च दर्शनात् ॥
पुण्यश्च वातिगन्धस्ते मन्ये कर्म विधानजम् ।
अथ कर्मार्जितस्तात यथाचैवानुलेपनात् ॥
शुभं सर्वपवित्रेब्यो दानमेव परं द्विज । [नोचेत्सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥]
यानीमान्युत्तमानीह वेदोक्तानि प्रशंसति ।
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः ॥
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः ।
सर्वत्यागो यता चेह तता दानमनुत्तमम् ॥
त्वं हि तात सुखादेव शुभमेष्यसि शोभनम् ।
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥
तन्नः प्रत्यक्षमेवेदमुपलक्ष्यमसंशयम् ।
श्रीमन्तः प्राप्नुवन्त्यर्थान्दानं यज्ञं तथा सुखम् ॥
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् ।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥
विविधानीह वृत्तानि नरस्याहुर्मनीषिणः ।
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पातकम् ।
यथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥
यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः ।
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः ॥
द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च ।
ततोऽन्यत्कर्म यत्किंचिन्न पुण्यं न च पातकम् ॥
`नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचतः । भाग्यक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः ॥'
रमस्वैधस्व मोदस्व देहि दाने रमस्व च ।
न त्वामतिभविष्यन्ति वैद्या न च तपस्विनः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

7-182-3 मैत्रेयमपि अज्ञातचरितं चरन्तमित्यर्थः । स्वं ईरयति धर्माय प्रेरयति स्वैरिणी मुनिश्रेणी तस्याः कुले गृहे । स्वैरिणं कुल इति थ. पाठः ॥ 7-182-5 अस्मयत विस्मयं प्राप्तवान् ॥ 7-182-6 कुतश्च ते प्रमोद इति सम्बन्धः ॥ 7-182-7 इच्छामि ज्ञातुमिति शेषः ॥ 7-182-9 अतिच्छेदोऽत्यन्तमन्तरं मशकेन समुद्रशोषणमिव अतिवादस्तस्यैवार्थस्य कथनं लोके ताभ्यां विस्मयो मे भवेत् । इदं स्थानं क्रतुशतं विना न प्राप्यत इति वेदवचनमसत्यम् । जलमात्रदानेन तव तत्प्राप्तिदर्शनात् । देशकालपात्रश्रद्धाविशेषादल्पमपि महत्तमत्वं जलमौक्तिकन्यायेन प्राप्नोतीति दर्शनात् । कस्माद्वेदोऽनृतं वदेदिति उक्तम् ॥

श्रीः