अध्यायः 192
अथ दानधर्मपर्व ॥ 1 ॥
लोमशेन धर्मरहस्यकथनम् ॥ 1 ॥
[लोमश उवाच ।
परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम् ।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै ॥
परदाररतिर्यश्च यश्च वन्ध्यामुपासते ।
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते ॥
असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः ।
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः ॥
तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम् ।
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता ॥
श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् ।
श्रद्दधानेन कर्तव्यं गुरुणां वचनं सदा ॥
द्वादश्यां पौर्णमास्यां च मासिमासि घृताक्षतम् ।
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत ॥
सोमश्च वर्धते तेन समुद्रश्च महोदधिः ।
अश्वमेधचतुर्भागं फलं सृजति वासवः ॥
दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः ।
प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति ॥
श्रूयतां चापरो धर्मः सरहस्यो महाफलः ।
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः ॥
कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा ।
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः ॥
तिलोदकं च यो दद्यात्पितॄणां मधुना सह ।
दीपकं कृसंर चैव श्रूयतां तस्य यत्फलम् ॥
तिलपात्रे फलं प्राह भगवान्पाकशांसनः ।
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम् ॥
अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् ।
तिलपात्रं सहैतेन समं मन्यन्ति देवताः ॥
तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम् ।
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः ॥
स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् ।
एवमेतन्मयोद्दिष्टपिदृष्टं पुरातनम् ॥] ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥
7-192-7 महान्त्युदकानि धीयन्तेऽस्मिन्निति । यद्वा महानामुत्सवानामुदधिरिव ॥
श्रीः