अध्यायः 196
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण देवादीन्प्रति गोप्रशंसनम् ॥ 1 ॥
[महेश्वर उवाच ।
सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः ।
धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह ॥
येषां धर्माश्रिता बुद्धिःक श्रद्दधानाश्च ये नराः ।
तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः ॥
निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम् ।
एकभक्तं तथाऽश्नीयाच्छ्रूयतां तस्य यत्फलम् ॥
इमा गावो महाभागाः पवित्रं परमं स्मृताः ।
त्रीन्लोकान्धानयन्ति स्म सदेवासुरमानुपान् ॥
तासु चैव महापुण्यं शुश्रूषा च महाफलम् ।
अहन्यहनि धर्मेण युज्यते वै गवाह्निकः ॥
मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे ।
ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना ॥
तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः ।
रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः ॥
महाप्रभावा वरदा वरं दद्युरुपासिताः ।
ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु युत्फलम् ॥
तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् ॥] ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥
श्रीः