अध्यायः 203
अथ दानधर्मपर्व ॥ 1 ॥
कृष्णेन पुत्रार्थं कैलासे तपश्चरणम् ॥ 1 ॥ तत्र कृष्णदर्शनाय नारदादीनामागमनम् ॥ 2 ॥ कृष्णेन स्वमुखनिःसृताग्निना तत्पर्वतस्य भस्मीकरणम् ॥ 3 ॥ तथा पुनः प्रसन्नदृष्ट्या गिरेरुज्जीवनम् ॥ 4 ॥ तथा नारदादीन्प्रति तत्कारणकथनम् ॥ 5 ॥
भीष्म उवाच ।
अयं नारायणः श्रीमान्पुत्रार्थे व्रतकाङ्क्षया ।
दीक्षितोऽभून्महाबाहुः पुरा द्वादशवार्षिकम् ॥
दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः ।
सेवित्वा च महात्मानः प्रीयमाणं जनार्दनम् ॥
नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा ।
देवलः काश्यपश्चैव हस्तिकाश्यप एव च ।
जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च ॥
अपरेऽपि तपःसिद्धाः सत्यव्रतपरायणाः ।
शिष्यैरनुगताः सर्वे ब्रह्मविद्भिरकल्मषैः ॥
केशवस्तानभिगतान्प्रीत्या सम्परिगृह्य च ।
तेषामतिथिसत्कारं पूजनार्थं कुलोचितम् ।
देवकीतनयो हृष्टो देवतुल्यमकल्पयत् ॥
उपविष्टेषु सर्वेषु विष्टरेषु तदाऽनघ ।
विश्वस्तेष्व्नभितुष्टेषु केशवार्चनया पुनः ॥
परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः ।
विष्णोर्नारायणस्यैव प्रसादात्कथयामि ताः ॥
तस्यैव व्रतचर्यायां मुनिभिर्विस्मितं पुरा ।
यत्र गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः ॥
यत्र देवी महादेवमपृच्छत्संशयान्पुरा ।
कथयामास सर्वांस्तान्देव्याः प्रियचिकीर्षया ॥
उमापत्योश्च संवादं शृणु तात मनोरमम् ।
वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः ॥
ऋषिधर्मश्च निखिलो राजधर्मस्च पुष्कलः ।
गृहस्थधर्मश्च शुभः कर्मपाकफलानि च ॥
देवगुह्यं च विविधं दानधर्मविधिस्तथा ।
विधानमत्र प्रोक्तं यद्यमस्य नियमस्य च ॥
यमलोकविधानं च स्वर्गलोकगतिस्तथा ।
प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला ॥
मोक्षधर्मविधानं च साङ्ख्ययोगसमन्वितम् ।
स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः ॥
एवमादि शुभं सर्वं तत्र तात समाहितम् ।
रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते ॥
धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम् ।
पुष्टियोगमिमं दिव्यं कथ्यमानं मया शृणु ॥
इतिहासमिमं दिव्यं पवित्रं परमं शुभम् ।
सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता ॥
भीष्म उवाच ।
ततो नारायणो देवः संक्लिष्टो व्रतचर्यया ।
वह्निर्विनिःसृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः ॥
अग्निना तेन महता निःसृतेन मुखाद्विभोः ।
पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः ॥
मृगपक्षिगणाकीर्णः श्वापदैरपि सङ्कुलः ।
वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः ॥
पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा ।
स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः ॥
सिद्धचारणसङ्घैश्च प्रसन्नैरुपशोभितः ।
मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः ।
तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम् ॥
तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास्तदा ।
विस्तिताः परमायत्ताः साध्यसाकुललोचनाः ।
न किञ्चिदब्रुवंस्तत्र शुभं वा यदि वेतरत् ॥
ततो नारायणो देवो मुनिसङ्घे तु विस्मिते ।
तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः ॥
किमर्थं मुनिसङ्घेऽस्मिन्विस्मयोऽयमनुत्तमः ।
एतन्मे संशयं सर्वे याथातथ्येन नन्दिताः ।
ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः ॥
केशवस्य वचः श्रुत्वा तुष्टुवुर्मुनिपुङ्गवाः ।
भवान्सृजति वै लोकान्भवान्संहरति प्रजाः ।
भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः ॥
भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते ।
स्थावरं जङ्गमं सर्वं त्वमेव पुरुषोत्तम ॥
त्वत्तः सर्वमिदं तात लोकचक्रं प्रवर्तते ।
त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम् ॥
एतन्नो विस्मयकरं बभूव मधुसूदन ।
ततो विगतसंत्रासा भवाम पुरुषोत्तम ।
यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः ॥
श्रीभगवानुवाच ।
नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः ।
तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः ॥
असुरः साम्प्रतं कश्चिदहितो लोकनाशनः ।
मायास्त्रकुशलश्चैव बलदर्पसमन्वितः ॥
बभूव स मया बद्धो लोकानां हितकाम्यया ।
पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुङ्गवाः ॥
तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः ।
आत्मनः सदृशं पुत्रमहं जनयितुं व्रतैः ॥
एवं व्रतपरीतस्य तपस्तीव्रतया मम ।
अथात्मा मम देहस्थः सोग्निर्भूत्वा विनिःसृतः ॥
विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम् ।
ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वेन प्रकल्पितः ।
अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम् ॥
एवं मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् ।
तत्तेजसा निर्मथितः पुरतोऽयं गिरिः स्थितः ॥
दृष्ट्वा दाहं गिरेस्तस्य सौम्यभावतया मम ।
पुनः स दृष्टमात्रेण गिरिरासीद्यथा पुरा ॥
एतद्गुह्यं यथातथ्यं कथितं वः समासतः ।
भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः ॥
ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥
श्रीः