अध्यायः 219

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति शुभाशुभकर्मणोः सुखदुःखहेतुत्वकथनम् ॥ 1 ॥

उमोवाच ।

भगवन्देवदेवेश मानुषेष्वेव केचन ।
ज्ञानविज्ञानसम्पन्ना बुद्धिमन्तो विचक्षणाः ॥
दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥
ये पुरा मनुजा देवि श्रुतवन्तोपि केवलम् ।
निरा**** निरन्नाद्या भृशमात्मपरायणाः ॥
ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि ।
निष्किञ्चना भवन्त्येव अनुप्तं हि न रोहति ॥
उमोवाच ।
मूर्खा लोके प्रदृश्यन्ते वृथा मूढा विचेतसः । ज्ञानविज्ञानरहिताः समृद्धाश्च समन्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि बालिशा अपि सर्वतः ।
समाचरन्ति दानानि दीनानुग्रहकारणात् ॥
अबुद्धिपूर्वं वा दानं ददत्येव यतस्ततः ।
ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा ॥
पण्डितोऽपण्डितो वाऽपि भुङ्क्ते दानफलं नरः ।
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत्फलत्युत ॥
उमोवाच ।
भगवन्देवदेवेश मानुषेष्वेव केचन । मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम् ।
ज्ञानार्थं ते तु सङ्गृह्य तीर्थतो विधिपूर्वकम् ॥
विधिनैव परांश्चैव ग्राहयन्ति च नान्यथा । अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः ।
विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः ॥
तादृश मरणं प्राप्ताः पुनर्जन्मनि शोभने ।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः ॥
उमोवाच ।
अपरे मानुषा देव यतन्तोपि यतस्ततः । बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धितः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः ।
श्लाघमानाश्च तत्प्राप्य ज्ञानाहङ्कारमोहिताः ॥
वदन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः ।
ज्ञानादसूयां कुर्वन्ति न सहन्ते च चापरान् ॥
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने । मानुष्यं सुचिरात्प्राप्य तत्र बोधविवर्जिताः ।
भवन्ति सततं देवि यतन्तो हीनमेधसः ॥
उमोवाच ।
भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः ।
पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः ॥
परमं बुद्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः ।
व्याधिहीना नबाधाश्च रूपारोग्यबलैर्युताः ॥
धनधान्येन सम्पन्नाः प्रासादैर्यानवाहनैः ।
सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः ॥
ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिनेदिने ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥
ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा ।
श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः ॥
परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः ।
सत्यसन्धाः क्षमाशीला लोभमोहविवर्जिताः ॥
दातारः पात्रतो दानं व्रतैर्नियमसंयुताः । स्वदुःखमिव संस्मृत्य परदुःखविवर्जिताः ।
सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः ॥
एवंशीलसमाचाराः पुनर्जन्मनि शोभने ।
दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः ॥
मानुषेष्वपि ये जातास्तादृशाः सम्भवन्ति ते ।
यादृशास्तु तथा प्रोक्ताः सर्वे कल्याणसंयुताः ॥
रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं बलं श्रुतम् । इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा ।
तपोदानमयं सर्वमिति विद्धि शुभानने ॥
उमोवाच ।
अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः ।
दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः ॥
भयैस्त्रिभिः समाजुष्टा व्याधिक्षुद्भयसंयुताः । दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि आसुरं भावमाश्रिताः ।
क्रोधलोभसमायुक्ता निरन्नाद्याश्च निष्क्रियाः ॥
नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः ।
परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
कथंचित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः ॥
सर्वतः सम्भवन्त्येव पूर्वमात्मप्रमादतः ।
यथा ते पूर्वकथितास्तथा ते सम्भवन्त्युत ॥
शुभाशुभं कृतं कर्म सुखदुःखफलोदयम् ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥

श्रीः