अध्यायः 249
अथ दानधर्मपर्व ॥ 1 ॥
पार्वत्या परमेश्वरंप्रति देवगन्धर्वादियोषितां मध्ये स्त्रीधर्मकथनम् ॥ 1 ॥
नारद उवाच ।
एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात् ।
						ऋषिगन्धर्वयक्षाणां योषितश्चाप्सरोगणाः ॥
					नागभूतस्त्रियश्चैव नद्यश्चैव समागताः ।
						श्रुतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे ॥
					उमादेवी मुदा युक्ता पुज्यमानाऽङ्गनागणैः ।
						आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति ॥
					स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया ।
						वक्तुं वचनमारेभे स्त्रीणां धर्माश्रयान्वितम् ॥
						उमोवाच । 
					भगवन्सर्वभूतेश श्रूयतां वचनं मम ।
						ऋतुप्राप्ता सुशुद्दा या कन्या सेत्यभिधीयते ॥
					तां तु कन्यां पिता माता भ्राता मातुल एव वा ।
						पितृव्यश्चैव पञ्चते दातुं प्रभवतां गताः ॥
					विवाहाश्च तथा पञ्च तासां धर्मार्थकारणात् ।
						कामतश्च मिथो दानमितरेतरकाम्यया ॥
					दत्ता यस्य भवेद्भार्या एतेषां येन केन चित् ।
						दातारः सुविमृश्यैव दातुमर्हन्ति नान्यथा ॥
					उत्तमानां तु वर्णानां मन्त्रवत्पाणिसङ्ग्रहः ।
						विवाहकारणं चाहुः शूद्राणां सम्प्रयोगतः ॥
					यदा दत्ता भवेत्कन्या तस्माद्भार्यार्थिने स्वकैः ।
							तदाप्रभृति सा नारी दशरात्रं विलज्जया ।
						
						मनसा कर्मणा वाचा अनुकूला च सा भवेत् ॥
						
					इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना ।
						तदाप्रभृति सा नारी न कुर्यात्पत्युरप्रियम् ॥
					यद्यदिच्छति वै भर्ता ध्रमकामार्थकारणात् ।
							तथैवानुप्रिया भूत्वा तथैवोपचरेत्पतिम् ।
						
						पतिव्रतात्वं नारीणामेतदेव सनातनम् ॥
						
					तादृशी सा भवेन्नित्यं यादृशस्तु भवेत्पतिः ।
						शुभाशुभसमाचार एतद्वृत्तं समासतः ॥
					दैवतं सततं साध्वी भर्तारं या तु पश्यति ।
						दैवमेव भवेत्तस्याः पतिरित्यवगम्यते ॥
					एतस्मिन्कारणं देव पौराणी श्रूयते श्रुतिः ।
						कथयामि प्रसादात्ते शृणु देव समासतः ॥
					कस्य चित्त्वथ विप्रस्य भार्ये द्वे हि बभूवतुः ।
						तयोरेका धर्मकामा देवानुद्दिश्य भक्तितः ॥
					भर्तारमवमत्यैव देवतासु समाहिता ।
						चकार विपुलं धर्मं पूजयानाऽर्चयाऽन्वितम् ॥
					अपरा धर्मकामा च पतिमुद्दिश्य शोभना ।
						भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम् ॥
					एवं विवर्तमाने तु युगपन्मरणेऽध्वनि ।
							गते किल महादेव तत्रैका या पतिव्रता ।
						
						देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा ॥
						
					देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता ।
						तां यमो लोकपालस्तु बभाषे पुष्कलं वचः ॥
					मा शुचस्त्वं निवर्तस्व न लोकाः सन्ति तेऽनघे ।
						स्वधर्मविमुखा सा त्वं तस्माल्लोका न सन्ति ते ॥
					देवता हि पतिर्नार्याः स्थापिता सर्वदैवतैः ।
						अवमत्य शुभे तत्त्वं कथं लोकान्गमिष्यसि ॥
					मोहेनि त्वं वरारोहे न जानीषे स्वदैवतम् ।
						पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पणस्त्विति ॥
					तस्मात्त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम् ।
							तदा गन्तासि लोकांस्तान्यान्गच्छन्ति पतिव्रताः ।
						
						नान्यथा शक्यते प्राप्तुं पतीनां लोकमुत्तमम् ॥
						
					यमेनैवंविधं चोक्ता निवृत्ता पुनरेव सा ।
						बभूव पतिमालम्ब्य पतिप्रियपरायणा ॥
					एवमेतन्महगादेव दैवतं हि स्त्रियाः पतिः ।
						तस्मात्पतिपरा भूत्वा पतीनुपचरेदिति ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥
श्रीः
