अध्यायः 260

अथ दानधर्मपर्व ॥ 1 ॥

वायुना हैहयार्जुनं प्रति स्वतेजसा दैत्यदाहनरूपागस्त्यवसिष्ठचरित्रकीर्तनम् ॥ 1 ॥

भीष्म उवाच ।

इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्ममस्य ह ॥
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः ।
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा ॥
कर्मज्या मानवानां च दानवैर्हैहयर्षभ ।
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् ।
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम् ॥
अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च ।
इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्चि भ्रंशिताः ।
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गवः ॥
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ।
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये ॥
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा ।
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः ॥
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा ।
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम् ॥
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः ।
येन्येऽधस्ता महीस्थाश्च तेन दग्धा महासुराः ॥
त्यक्तलोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप ।
अथैनमब्रुवन्देवा भूमिष्ठानसु राञ्जहि ॥
इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान् ।
दग्धुं तपो हि क्षीयेन्मे न धक्ष्यामीति पार्थिव ॥
एवं दग्धा भगवता दानवाः स्वेन तेजसा ।
अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ ।
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥
भीष्म उवाच ।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥
`वैखानसविधानेन गङ्गातीरं समाश्रिताः ।' आदित्याः सत्रमासन्त सरो वैखानसं प्रति ।
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्वस्य गोचरम् ॥
यजमानांस्तु तान्दृष्वा सर्वान्दीक्षानुकर्शितान् ।
हन्तुमैच्छन्त शैलाभा बलिनो नाम दानवाः ॥
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः ।
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः ॥
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् ।
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम् ॥
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि ।
ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥
स च तैर्व्यथितः शक्रो वसिष्ठं सरणं ययौ ।
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥
तदा तान्दुःकितान्ज्ञात्वा आनृशंस्यपरो मुनिः ।
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा ॥
कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः ।
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् ।
हताश्च बलिनो यत्र स देशे बलिनोऽभवत् ॥
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः ।
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥
एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ ।
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ 26 ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥

श्रीः