अध्यायः 047
अथानुगीतापर्व-2
ब्रह्मणा महर्षीन्प्रति संन्यासज्ञानतपसां परमपुरुषार्थसाधनत्वोक्तिः ॥ 1 ॥
ब्रह्मोवाच ।
संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः ।
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम् ।
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम् ॥
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम् ।
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः ॥
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम् ।
संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः ॥
तपः प्रदीप इत्याहुराचारो धर्मसाधकः ।
ज्ञानं वै परमं विद्यात्संन्यासं तप उत्तमम् ॥
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् ।
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते ॥
यो विद्वान्सहवासं च विवासं चैव पश्यति ।
तथैवेकत्वनानात्वे स दुःखात्प्रतिमुच्यते ॥
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते ।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥
प्रधानगुणतत्त्वज्ञः सर्व भूतविधानवित् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ।
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति ॥
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् ।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियान्तरकोटरः ॥
महाभूतविशाखश्च विशेषप्रतिशाखवान् ।
सदापत्रः सदापुष्पः शुभाशुभफलोदयः ॥
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः ॥
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥
द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनौ ।
एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते ॥
अचेतनः सत्वसङ्ख्याविमुक्तः
सत्त्वात्परं चेतयतेऽन्तरात्मा ।
स क्षेत्रवित्सर्वसङ्ख्यातबुद्धि-
र्गुणातिगो मुच्यते सर्वपापैः ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
7-47-15 हित्वा चामरतां प्राप्य जह्याद्यो मृत्युजन्मनीति क.ठ.थ. पाठः ॥ 7-47-16 पक्षिणौ जीवेश्वरौ ॥ 7-47-17 अचेतनस्तत्वसंघातयुक्तस्तत्वात्परं चेतयतेन्तरात्मा । स क्षेत्रज्ञस्तत्वसंघातबुद्धिर्गुणातिगो मुच्यते मृत्युपाशादिति क.थ.पाठः ॥
श्रीः