अध्यायः 051

अथानुगीतापर्व-2

कृष्णेनार्जुनंप्रति मुक्त्युपायप्रतिपादकगुरुशिष्यसंवादानुवादसमापनपूर्वकं स्वस्य निजनगरजिगमिषानिवेदनम् ॥ 1 ॥

ब्रह्मोवाच ।

भूतानामथ पञ्चानामथेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतानां मन एव च ॥
अधिष्ठातृमनो नित्यं भूतानां महतां तथा ।
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते ॥
इनद्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः ।
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा ॥
महदश्वसमायुक्तं बुद्धिसंयमनं रथम् ।
समारुह्य स भूतात्मा समन्तात्परिधावति ॥
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च ।
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥
अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम् ॥
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥
नदीपर्वतजालैश्च सर्वतः परिभूषितम् ।
विविधाभिस्तथा चाद्भिः सततं समलंकृतम् ॥
अजितं सर्वभूतानां सर्वप्राणभृतां गतिः ।
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित् ॥
लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च । तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ।
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः ॥
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः ।
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥
एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः । तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ।
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः ।
भूतेब्यश्चापि पञ्चभ्यो भुक्तो गच्छेत्परां गतिम् ॥
प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः ।
तथैव देवानृषयस्तपसा प्रतिपेदिरे ॥
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा ।
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥
औषधान्यगदादीनि नानाविद्याश्च सर्वशः ।
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम् ॥
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥
सुरापो ब्रह्महा स्तेनो भ्रूणहागुरुतल्पगः ।
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः ॥
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः ।
यानि चान्यानि भूतानि चराणि स्थावराणि च ॥
तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा ।
तथैव तपसा देवा महाभागा दिवं गताः ॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ॥
ध्यानयोगेन शुद्वेन निर्ममा निरहंकृताः ।
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥
ध्यानयोगमुपागम्य प्रसन्नमतयः सदा ।
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः ॥
ध्यानयोगादुपागम्य निर्ममा निरहंकृताः ।
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम् ॥
अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः ।
तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम् ॥
निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः ।
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥
चित्तं चित्तादुपागम्य मुनिरासीत संयतः ।
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम् ॥
अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम् ।
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत ॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥
कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः ।
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः ।
पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम् ॥
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः ।
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥
य एवममृतं नित्यमग्राह्यं शश्वदक्षरम् ॥
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत् ॥
अपूर्वमकृतं नित्यं य एनमविचारिणम् । य एवं विन्देदात्मानमग्राह्यममृताशनम् ।
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः ॥
आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि ।
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥
प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात् ।
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः ।
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥
एषा गतिर्विरक्तानामेष धर्मः सनातनः ।
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥
समेन सर्वभूतेषु निस्पृहेण निराशिषा ।
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः ।
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥
गुरुरुवाच ।
इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा ।
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन् ॥
त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः ।
सम्यगाचर शुद्धात्भंस्ततः सिद्धिमवाप्स्यसि ॥
वासुदेव उवाच ।
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् ।
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह ।
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥
अर्जुन उवाच ।
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन ।
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥
वासुदेव उवाच ।
अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे ।
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनंजय ॥
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह ।
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥
ततस्त्वं सम्यगाचीर्णो धर्मेऽस्मिन्नरिकर्शन ।
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम् ॥
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।
मया तव महाबाहो तस्मादत्र मनः कुरु ॥
मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः ।
तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन ॥
वैशम्पायन उवाच ।
इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः ।
`यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय ॥
नमस्ते सर्वलोकात्मन्नारायण परात्पर । मनोमलात्तपोशक्यं कर्म चाविद्यया हतम् ।
दानमप्यर्थदोषेणि नाम तस्मात्कलौ स्मरेत् ॥
यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते ।' गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥
समेत्य तत्रि राजानं धर्मात्मानं युधिष्ठिरम् ।
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

7-51-13 महाभूतानि गच्छतीति क.ट.थ.पाठः ॥ 7-51-31 विममो यः स पुरुष इति क.पाठः ॥ 7-51-35 अपोह्य सर्वान्संकल्पान्संयतात्मानमात्मनीति थ.पाठः ॥

श्रीः