अध्यायः 094

अश्वमेधपर्व ॥ 1 ॥

वैशंपायनेन जनमेजयंप्रति पशुहिंसां विनैव ध्यानदानादिभिरेव यज्ञफलसंसिद्धौ दृष्टान्ततयाऽगस्त्ययज्ञप्रकारकथनम् ॥ 1 ॥

जनमेजय उवाच ।

धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥
तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् ।
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम् ॥
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् ।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥
वैशम्पायन उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥
पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् ।
प्रविवेश महाराज सर्वभूतहिते रतः ॥
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः ।
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः ॥
परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च ।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः ।
दमे स्थिताश्च सर्वे ते हिंसादंभविवर्जिताः ॥
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः ।
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः ॥
यथाशक्त्या भगवता तदन्नं समुपार्जितम् ।
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत् ॥
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः । एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे ।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः ।
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥
अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः ।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् ।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥
एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः ।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् ।
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन् ॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः ॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः ॥
बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः ।
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति ॥
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन ।
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति ॥
अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः ।
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥
यो यदाहारजातश्च स तथैव भविष्यति ।
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् ।
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम् ॥
दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः ।
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम् ॥
उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते ।
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु ॥
स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु । इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः ।
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः ॥
ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम् ।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम् ।
तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम् ॥
यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे । `तयोस्संधर्षितैर्यज्ञैर्नान्यतो मृगयामहे ॥'
न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम् ।
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् ।
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥
भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता ।
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥
प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम ।
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥
तथा कथयतां तेषां देवराजः पुरंदरः ।
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥
आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः ।
निकामवर्षी पर्जन्यो बभूव जनमेजय ॥
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः ।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् ।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

7-94-6 मरीचिपाश्चन्द्रमरीचिपानमातृप्ताः ॥ 7-94-7 परिपृष्टं चेदेव गृह्णन्ति नान्यथा मे परिपृष्टिकाः । प्रसंख्यानास्तत्कालमात्रसंग्रहाः ॥ 7-94-17 चिन्तायज्ञं मानसं यज्ञम् । संकल्पमात्रेणैव देवानृषीश्च तर्पयिष्यामीत्यर्थ ॥ 7-94-18 स्पर्शयज्ञं उपाहृतद्रव्यस्य व्ययमकृत्वा तत्स्पर्शेनैव तांस्तर्पयिष्यामि । एवं दृष्टियज्ञोपि ज्ञेयः ॥ 7-94-19 व्यायामेन शरीरक्लेशेन । ध्येयात्मना हरिष्यामि हति झ.पाठः ॥ 7-94-29 न त्विच्छामस्तपोव्ययमिति झ.पाठः ॥

श्रीः