अध्यायः 006

अश्वमेधपर्व ॥ 1 ॥

बृहस्पतिना इन्द्रे स्वेन मरुत्तस्यायाजनप्रतिज्ञानश्रवणामर्षिणा मरुत्तेनि स्वयाजनप्रार्थेन तत्प्रत्याख्यानम् ॥ 1 ॥ ततः प्रतिनिवृत्तस्य मरुत्तस्य मध्येमार्गं नारदसमागमः ॥ 2 ॥ नारदचोदनया मरुत्तेन वाराणसीद्वारे स्वेन स्थापितकुणपावलोकनेन प्रलायमानं संवर्तं प्रत्यनुगमनम् ॥ 3 ॥ संवर्तेन तत्प्रतिनिवर्तनाय पांसुकदमप्रक्षेपेप्यनिवर्तमानं तमवलोक्यं विजने न्यग्रोधमूले समुपवेशः ॥ 4 ॥

व्यास उवाच ।

अत्राप्युदाहरन्तीमममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः ॥
देवराजस्य समयं कृतमाङ्गिरसेन ह ।
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम् ॥
सङ्कल्प्य मनसा यज्ञं करंधमसुतात्मजः ।
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥
भगवन्यन्मया पूर्वमभिगम्य तपोधन ।
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो ॥
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे ।
याज्योस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥
बृहस्पतिरुवाच ।
न कामये याजयितुं त्वामहं पृथिवीपते ।
वृतोस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥
मरुत्त उवाच ।
पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम् ।
तवास्मि याज्यातां प्राप्तो भजमानं भजस्व माम् ॥
बृहस्पतिरुवाच ।
अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम् ।
मरुत्त गच्छ वा मा वा निवृत्तोस्म्यद्य याजनात् ॥
न त्वां याजयितास्म्यद्य वृणु यं त्वमिहेच्छसि ।
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥
व्यास उवाच ।
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् ।
प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम् ॥
देवर्षिणा समागम्य नारदेनि स पार्थिवः ।
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥
राजर्षे नातिहृष्टोसि कच्चित्क्षेमं तवानघ ।
क्व गतोसि कुतश्चेदमप्रीतिस्थानमागतम् ॥
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ ।
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥
एवमुक्तो मरुत्तः स नारदेन महर्षिणा ।
विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत् ॥
मरुत्त उवाच ।
गतोस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् ।
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत ॥
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये ।
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥
व्यास उवाच ।
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह ।
आविक्षितं महाराज वाचा संजीवयन्निव ॥
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः ।
चङ्कमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥
तं गच्च यदि याज्यं त्वां न वाञ्छति बृहस्पतिः ।
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति ॥
मरुत्त उवाच ।
संजीवितोऽहं भवता वाक्येनानेन नारद ।
पश्येयं क्व नु संवर्तं शंस मे वदतांवर ॥
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् ।
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥
नारद उवाच ।
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् ।
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् ।
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते ॥
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् ।
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह ।
ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन् ॥
स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया ।
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥
व्यास उवाच ।
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् ।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः ।
कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥
यौगपद्येनि विप्रश्च पुरीद्वारमथाविशत् ।
ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत ॥
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् ।
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥
स च तं विजने दृष्ट्वा पांसुभिः कदेमेन च ।
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत् ॥
स तथा बाध्यमानो वै संवर्तेन महीपतिः ।
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ॥
ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत् ।
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

7-6-13 मन्युं दैन्यम् ॥

श्रीः