अध्यायः 110

कृष्णेन युधिष्ठिरंप्रत्यापद्धर्मकथनम् ॥ 1 ॥ तथा प्रशस्ताप्रशस्तब्राह्मणलक्षणकथनम् ॥ 2 ॥ तथा सामान्यतो नानाधर्मकथनपूर्वकं ब्राह्मण्यसिद्धिपर्रकारकथनम् ॥ 3 ॥ तथा गुर्वाचार्योपाध्यायलक्षणकथनम् ॥ 4 ॥

युधिष्ठिर उवाच ।

समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च ।
श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे ॥
भगवानुवाच ।
दुर्भिक्षे राष्ट्रसंबाधेऽप्याशौचे मृतसूतके ।
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते ॥
दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः ।
अकृतन्नं तु यत्किंचिद्गृह्णीयादात्मवृत्तये ॥
आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः ।
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च ॥
निमन्त्रितस्तु यो विप्रो विदिवद्धव्यकव्ययोः ।
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च ॥
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥
अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः ।
विदुषां वचनेनापि दानेनापि विशुद्ध्यति ॥
अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा ।
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च ॥
युधिष्ठिर उवाच ।
प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर ।
अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत ॥
भगवानुवाच ।
सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः ।
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम् ॥
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् ।
श्रीमानृजउः सत्यवादी पात्रं सर्व इमे द्विजाः ॥
एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः ।
तस्यां पङ्क्त्यां तु ये वान्ये तान्पुनत्येव दर्शनात् ॥
मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः ।
तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः ॥
निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान् ।
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः ॥
अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः ।
यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम् ॥
मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः ।
अहं चापि न जानामि गतिं तस्य नराधिप ॥
शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः ।
जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते ॥
आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते ।
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥
शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः ।
भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः ॥
प्रेतभूतं तु यः शूद्रं ब्राह्ममो ज्ञानदुर्बलः ॥
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः ।
पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि ॥
न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् ।
जलावगाहनादेव सद्यः शौचं विधीयते ॥
शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि ।
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत ॥
विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम् ।
यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत् ॥
सर्वे च वेदाः सहषङ्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म ।
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य ॥
ग्रहोपरागे विषुवेऽयनान्ते पित्र्ये मघासु स्वसुते च जाते ।
गयेषु पिण्डेषु च पाण्डुपुत्र दत्तं भवेन्निष्कसहस्रतुल्यम् ॥
वैशाखमासस्य तु या तृतीयाऽ- नवद्याऽसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी न माघे ॥
उपप्लवे चन्द्रमसो रवेश्च श्राद्धस्य कालो ह्ययनद्वये च ।
पानीयमप्यत्रि तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥
यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः ।
क्रूरं दुराचारमनात्मवन्तं ब्रह्मघ्नमेनं कवयो वदन्ति ॥
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते परलोकमूढाः ।
तेषामयं शत्रुवरघ्नलोको नान्यत्सुखं देहसुखे रतानाम् ॥
ये चैव मुक्तास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम् ।
जितेन्द्रिया भूतहिते निविष्ट- स्तेषामसौ चापि परश्च लोकः ॥
ये चैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते ।
न चापि गच्छन्ति सुखानि भोगां- स्तेषामयंक चापि परश्च नास्ति ॥
युधिष्ठिर उवाच ।
नारायण पुराणेश लोकावास नमोस्तु ते ।
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् ॥
भगवानुवाच ।
धर्मसारं महाप्राज्ञि मनुना प्रोक्तमादितः ।
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम् ॥
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ।
दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा ॥
गौरकस्यैव दातव्या न बहूनां युधिष्ठिर ।
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥
बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः ।
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति ॥
आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि ।
गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते ॥
मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च ।
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते ॥
ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम् ।
गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत् ॥
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
द्वितायं धर्मशास्त्राणि तृतीयं लोकसंग्रहः ॥
आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात् ।
हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते ॥
सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते ॥
यस्मिन्देशे य आचारः पारंपर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥
कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः ।
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः ॥
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः ॥
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि ।
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः ॥
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम् ॥
एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः ।
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः ॥
आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च ।
दानं चैव यथाशक्ति नियमाश्च यमैः सह ॥
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥
गर्भहोमैर्जातकर्मनामचौलोपनायनैः । स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥
धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा ।
विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे ॥
लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा ।
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत् ॥
सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम् ।
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम् ॥
निषेकादीनि कर्माणि यः करोति यथाविधि ।
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते ॥
कृत्वोपनयनं वेदान्योध्यापयति नित्यशः ।
सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते ॥
साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च ।
विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते ॥
उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता ।
पितुः शतगुणं माता गौरवेणातिरिच्यते ॥
एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः ।
गुरोः परतरं किंचिन्न भूतं न भविष्यति ॥
तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत् ।
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः ॥
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।
रूपद्रविणहीनांश्च जातिहीनांस्च नाक्षिपेत् ॥
शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति ।
शप्यमानस्य यत्पापं शपन्तमनुगच्छति ॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं डंभं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥

श्रीः