अध्यायः 116
कृष्णेन युधिष्ठिरंप्रति भकगवद्भक्तिसौशील्याद्यभावे ब्राह्मणानामपि अग्निहोत्रस्वाध्यायाध्ययनादिसत्कर्मणामपि वैफल्यस्य शूद्राणामपि भक्त्यादिमतां स्वोचितकिंचित्कर्मणामपि साफल्यस्य च कथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर ।
यत्कर्म सफलं नेति कथयस्य ममानघ ॥
भगवानुवाच ।
शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम् ।
सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते ॥
त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् ।
वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम् ॥
अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया ।
सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ॥
अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च ।
शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम् ॥
क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् ।
तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥
अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन् ।
उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः ॥
न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः ।
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः ॥
मनश्शौचं कर्मशौचं कुलशौचं च भारत ।
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् ॥
पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते ।
हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः ॥
अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः ।
वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ॥
यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः ।
विकर्मसेवी कौन्तेय स वै वृषल उच्यते ॥
वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम् ।
वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि ॥
स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः ।
न तु मां स्तौति पापात्मा स तु चण्डालतः समः ॥
श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा ।
दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा ॥
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत ।
उत्पन्नानि पवित्राणि भुवनार्थं तथैव च ॥
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर ।
सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत ।
श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव ॥
गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः ।
प़ञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदातन ।
स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत् ॥
मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः ।
नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः ॥
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् ।
अवमानात्पतन्त्येव नरके रौरवे नराः ॥
मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम ।
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥
कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम् ।
ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम् ॥
पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा ।
ददाति मम शूद्रो यच्छिरसा धारयामि तत् ॥
विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान् ।
तेषां तेनैव रूपेण पूजां गृह्णामि भारत ॥
वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम् ।
मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते ॥
मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया ।
प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर ॥
आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति ।
तेनैव परितुष्टोऽहं भविष्यामि न संशयः ॥
मृदा च मणिरत्नैश्च ताम्रेण रजतेन च ।
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा ।
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् ॥
जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः ।
वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः ।
सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥
श्रीः