अध्यायः 001
प्रजापालनेन निजनगरे भ्रातृभिः सह सुखनिवासिना युधिष्ठिरेण कदाचनाशुभसूचकोत्पातदर्शनम् ॥ 1 ॥ ततः कालन्तरे सबलकृष्णानां सर्वयादवानां परस्परं मौसलप्रहारेणि निश्शेषनिधनश्रवणम् ॥ 2 ॥
श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
वैशम्पायन उवाच ।
षट्त्रिंशे त्वथ् संप्राप्ते वर्षे कौरवन्दनः ।
ददर्श विपरीतानि निमित्तानि युधिष्टिरः ॥
ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः ।
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः ।
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि ॥
आदित्यो रजसा राजन्समवच्छन्नगनाद्भुवि ॥
विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः ॥
परिवेषाश्च दृश्यन्ते दारुणाश्च द्रसूर्ययोः ।
त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः ॥
एते चान्ये च बहव उत्पाता भयसंसिनः ।
दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति ॥
`यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि ।
पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ ॥'
कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः ।
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम् ॥
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः ।
समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत ॥
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् ।
वृष्णिन्विनष्टास्ते श्रुत्वा व्यथिताः पाण्डवा भृशम् ॥
निधनं वासुदेवस्य समुद्रस्येव शोषणम् ।
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥
मौसलं ते समाश्रित्य दुःखशोकसमन्विताः ।
विष्ण्णा हतसंकल्पाःकि पाण्डवाः समुपाविशन् ॥ ॥
इति श्रीमन्महाभारते मौसलपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
7-1-12 मौसलं मुसलकृतं कदनं समाश्रित्य मनसि धृत्वा ॥
श्रीः