अध्यायः 007
					अथाश्रमवासपर्व ॥ 1 ॥
					 धृतराष्ट्रेण युधिष्ठिरंप्रति राजनीतिकथनम् ॥ 1 ॥ 
					
						धृतराष्ट्र उवाच । 
					
						मण्डलानि च बुध्येथाः परेषामात्मनस्तथा ।
						उदासीनगुणानां च मध्यस्थानां च भारत ॥
					 
					
						चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।
						मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥
					 
					
						अथ नानाजनपदा दुर्गाणि विविधानि च ।
						बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम् ॥
					 
					
						ते च द्वादश कौन्तेय राजानो विविधात्मकाः ।
						मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥
					 
					
						एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।
						अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत् ॥
					 
					
						वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम ।
						द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः ॥
					 
					
						यथा स्वपक्षो बलवान्परपक्षस्तथा बलः ।
						विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ॥
					 
					
						यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः ।
						सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत् ॥
					 
					
						द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा ।
						यदा समर्था यानाय नचिरेणैव भारत ॥
					 
					
						तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत् ।
						भूमिरल्पफला देया विपरीतस्य भारत ॥
					 
					
						हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत् ।
						विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः ॥
					 
					
						सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ ।
						विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि ॥
					 
					
						तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ।
						प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत् ॥
					 
					
						क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम् ।
						पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च ॥
					 
					
						कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम् ।
						न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता ॥
					 
					
						कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः ।
						गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः ॥
					 
					
						साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा ।
							आत्मसात्करणे नित्यं पालनानि गृहे तथा ।
						
						दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा ॥
						
					 
					
						तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ।
							यद्येनमभियायाच्च बलवान्दुर्बल नृपः ।
						
					 
					
						सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः ।
						अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः ॥
					 
					
						कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः ।
							असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत् ।
						
						क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम् ॥ ॥
					 
					 इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तमोऽध्यायः ॥ 7 ॥ 
					 7-7-1 मण्डलानि अरिर्मित्रमित्यादीनि ॥ 7-7-3 यथेच्छकं
						परैर्भेद्यत्वमभेद्यत्वं च भवति तस्मादवहितस्तिष्ठेत् । तथामात्या जनपदा इति
						झ.पाठः । भवत्येषां स्वकं परमिति थ.पाठः ॥ 7-7-4 द्वादश चत्वारः शत्रुजाताः । षट्
						आततायिनः । मित्रं अमित्रमित्रं चेति षष्टिर्गुणाः । कृष्यादीन्यष्टौ
						संधानकर्माणि । बालादयो विंशतिरसंधेया । नास्तिक्यादयश्चतुर्दश दोषाः ।
						मन्त्रादीन्यष्टादश तीर्थानीति । एतेषु केचित् हानार्थं ज्ञातव्याः
						केचिदुपादानार्थम् ॥ 7-7-5 ततः षाङ्गुण्यचारिण इति क.थ.पाठः ॥ 7-7-6 द्रव्याणां
						सञ्चये चैव यत्नः कार्यः सदा भवेत् इति क.पाठः ॥ 7-7-9 दीनान् अन्धवधिरादीन्
						विभावयेत्पूजयेत् ॥ 7-7-13 एनं त्वाम् 
					
					
					
					
					श्रीः